संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९०

विष्णुधर्माः - अध्याय ९०

विष्णुधर्माः


अथ नवतितमोऽध्यायः ।
गौरमुख उवाच ।
देवकी भार्गवस्यैतच्छ्रुत्वा वाक्यं नराधिप ।
शुद्धिकामा चचाराथ सर्वकामप्रदं व्रतम् १

व्रतेनाराधितस्तेन तदा देव्या जनार्दनः ।
ददौ दर्शनमीशेशः शङ्खचक्रगदाधरः २

दृष्टे तस्मिन्नशेषेशे जगद्धातरि केशवे ।
कृत्वा प्रणाममाहेदं भक्तिनम्राथ देवकी ३

जगतामीश्वरेशेश ज्ञान ज्ञेय भवाव्यय ।
समस्तदेवतादेव वासुदेव नमोऽस्तु ते ४

प्रधानपुंसोरजयोर्यः कारणमकारणम् ।
अविशेष्यमजं रूपं तव तस्मै नमोऽस्तु ते ५

त्वं प्रधानं पुमांश्चैव कारणाकारणात्मकः ।
सदसच्चाखिलं देव केनोक्तेन तव स्तवः ६

प्रसीद देव देवानामरिशातन वामन ।
लोभाभिभूता यदहं वरयामि प्रयच्छ तत् ७

देवदेव उवाच ।
अदितिस्त्वं महाभागे भुवं प्राप्ता सुरारणि ।
भर्ता च ते कश्यपोऽयं देयस्तव वरो मया ८

देवक्युवाच ।
अपुत्रास्मि न मे भर्तुरस्ति केशव सन्ततिः ।
प्रसीद देहि मे पुत्रमरिदुर्धारपौरुषम् ९

देवदेव उवाच ।
भविष्यत्यचिराद्देवि मदंशेन सुतस्तव ।
हन्तव्या दानवास्तेन सद्धर्मपरिपन्थिनः १०

देवक्युवाच ।
त्वामहं जगद्धातारमुदारोरुपराक्रमम् ।
धारयिष्यामि गर्भेण कथमच्युत शंस मे ११

देवदेव उवाच ।
तवोदरेऽवतारं वै पुरापि बलिबन्धने ।
कुर्वता विधृताः सप्त लोकास्त्वं चात्ममायया १२

तथा साम्प्रतमप्येतांल्लोकान्सस्थाणुजङ्गमान् ।
धारयिष्याम्यथात्मानं त्वां च देवकि लीलया १३

गौरमुख उवाच ।
इत्येवमुक्त्वा तां देवीं देवकीं भगवान्प्रभुः ।
तिरोबभूव गोविन्दो भूर्भुवःप्रभवो विभुः १४

अवाप च ततो गर्भं देवकी वसुदेवतः ।
अजायत च विश्वेशः स्वेनाङ्गेन जनार्दनः १५

नीलोत्पलदलश्यामं ताम्रायतविलोचनम् ।
चतुर्बाहुमुदाराङ्गं श्रीवत्साङ्कितवक्षसम् १६

तं जातं देवकी देवं निधानं सर्वतेजसाम् ।
प्रणिपत्याभितुष्टाव सम्प्रस्तुतपयोधरा १७

अबालो बालरूपेण येनेश त्वमिहास्थितः ।
त्वद्रूपं प्रणिपत्याहं यद्ब्रवीमि निबोध तत् १८

नमस्ते सर्वभूतेश नमस्ते मधुसूदन ।
नमस्ते पुण्डरीकाक्ष नमस्तेऽस्तु जनार्दन १९

नमस्ते शार्ङ्गचक्रासिगदापरिघपाणये ।
उपेन्द्रायाप्रमेयाय हृषीकेशाय वै नमः २०

नमोऽस्तु तेऽणुरूपाय बृहद्रूपाय वै नमः ।
अशेषभूतरूपाय तथारूपाय ते नमः २१

अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः ।
सर्वेश्वराय सर्वाय सर्वभूताय ते नमः २२

नमोऽस्तु ते वासुदेव नमोऽस्तु कमलेक्षण ।
अशेषभूतरूपाय तथाभूताय ते नमः ।
नमोऽस्तु तेऽश्वरूपाय तथारूपाय ते नमः ।
अनिर्देश्यविशेषाय तुभ्यं सर्वात्मने नमः ।
नमोऽस्तु ते वासुदेव नमस्ते पुष्करेक्षण ।
नमोऽस्तु ते सदाचिन्त्य योगिचिन्त्य जगत्पते २३

विष्णो नमोऽस्तु ते कृष्ण नमस्ते पुरुषोत्तम ।
नमो नारायण हरे नमस्तेऽस्तु सदाच्युत २४

नमो नमस्ते गोविन्द नमस्ते गरुडध्वज ।
श्रीश श्रीवत्स योगीश श्रीकान्तेश नमोऽस्तु ते २५

नीलोत्पलदलश्याम दंष्ट्रोद्धृतवसुन्धर ।
हिरण्याक्षरिपो देव नमस्ते यज्ञसूकर २६

नृसिंह जय विश्वात्मन्दैत्योरःस्थलदारक ।
नमो नमस्तेऽस्तु सदा विक्षेपध्वस्ततारक २७

मायावामनरूपाय तुभ्यं देव नमो नमः ।
त्रिविक्रम नमस्तुभ्यं त्रैलोक्यक्रान्ति दुर्जय २८

ऋग्यजुःसामभूताय वेदाहरणकर्मणे ।
प्रणवोद्गीतवचसे महाश्वशिरसे नमः २९

निःक्षत्रियोर्वीकरण विकरालपराक्रम ।
जामदग्न्य नमस्तुभ्यं कार्तवीर्यासुतस्कर ३०

पौलस्त्यकुलनाशाय साहुमार्गविचारिणे ।
नलसेतुकृते तुभ्यं नमो राघवरूपिणे ३१

साम्प्रतं मत्प्रसन्नाय सम्भूताय ममोदरे ।
स्वमायाबालरूपाय नमः कृष्णाय वै हरे ३२

यावन्ति तव रूपाणि यावत्यश्च विभूतयः ।
नमामि कृष्ण सर्वेभ्यस्तेभ्यस्ताभ्यश्च सर्वदा ३३

स्वरूपचेष्टितं यत्ते यद्देवत्वे विचेष्टितम् ।
यच्च तिर्यङ्मनुष्यत्वे चेष्टितं तन्नमाम्यहम् ३४

परमेश परेशेश तिर्यगीश नरेश्वर ।
सर्वेश्वरेश्वरेशेश नमस्ते पुरुषोत्तम ३५

गौरमुख उवाच ।
एवं स्तुतस्तया देव्या देवक्या मधुसूदनः ।
बालरूपी जगादैवं वसुदेवस्य शृण्वतः ३६

सम्यगाराधितेनोक्तं यत्प्रसन्नेन वै शुभे ।
तत्कृतं सकलं भूयो यद्वृणोषि ददामि तत् ३७

अवतारे तथैवास्मिन्वर्षाणामधिकं शतम् ।
स्थास्यामि नरतां प्राप्तो दुष्टदैत्यनिबर्हणः ३८

तत्त्वं वरय भद्रंते वरं यन्मनसेच्छसि ।
दास्याम्यहमसन्दिग्धं यद्यपि स्यात्सुदुर्लभम् ३९

देवक्युवाच ।
यदि देव प्रसन्नस्त्वं प्रददासि ममेप्सितम् ।
वृणोमि तदहं नित्यं तव केशव दर्शनम् ४०

तवेदृग्रूपमालोक्य हार्दप्रस्रुतलोचना ।
नालं वियोगं संसोढुं तवाहं मधुसूदन ४१

देवदेव उवाच ।
दाक्षायणी त्वमदितिः सम्भूता वसुधातले ।
नित्यमेव जगद्धात्रि प्रसादं ते करोम्यहम् ४२

षष्ठे षष्ठे तदा पक्षे दिनेऽस्मिन्नेव भामिनि ।
त्वं मां द्रक्ष्यस्यसन्दिग्धं प्रसादस्ते कृतो मया ४३

अनेनैव महाभागे बालरूपेण संवृतः ।
तव दर्शनमेष्यामि यत्र ते स्नेहवन्मनः ४४

तस्मिन्काले च लोकास्त्वां पूजयिष्यन्ति देवकि ।
मां च पुष्पादिभिर्देवि तवोत्सङ्गव्यवस्थितम् ४५

सम्पूजितोऽहं लोकानां तस्मिन्काले सुतोषितः ।
प्रदास्यामि जगद्धात्रि यथाभिलषितं वरम् ४६

अपुत्राणां वरान्पुत्रानधनानां तथा धनम् ।
शुभान्दारानदाराणां सरोगाणामरोगताम् ४७

सुगतिं गतिकामानां विद्यां विद्यार्थिनामपि ।
प्रदास्यसि महाभागे मत्प्रसादोपवृंहिता ४८

प्रसादिता हि मर्त्यानां यत्त्वं दास्यसि शोभने ।
तत्तेषां मत्प्रसादेन भविष्यति न दुर्लभम् ४९

त्वामभ्यर्च्योपचारेण स्नापयित्वा घृतेन माम् ।
सर्वकामानवाप्स्यन्ति काले षट्पक्षसञ्ज्ञिते ५०

त्वदङ्कस्थं च मां बालं संस्मरिष्यन्ति भक्तितः ।
प्रतिमासं च ते पूजामष्टम्यां यः करिष्यति ।
मम चैवाखिलान्कामान्सम्प्राप्नोत्यपकल्मषः ५१

गौरमुख उवाच ।
एवं पूर्वं हृषीकेशो देवक्याः प्रददौ वरम् ।
तस्मात्कृष्णाष्टमी पुंसामशेषाघौघहारिणी ५२

तस्यां हि पूजितः कृष्णो देवकी च समाधिना ।
पापापनोदं कुरुते ददाति च मनोरथान् ५३

तदेष पुष्टिकामानां नॄणां पुण्यार्थिनामपि ।
उपवासो महीपाल शस्तः केशवतोषदः ५४

इति विष्णुधर्मेषु देवकीव्रतम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP