संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ११

विष्णुधर्माः - अध्याय ११

विष्णुधर्माः

अथैकादशोऽध्यायः ।
पुलस्त्य उवाच ।
एकदश्यां शुक्लपक्षे यदा र्क्षं वै पुनर्वसुः ।
नाम्ना सातिजयाख्याता तिथीनामुत्तमा तिथिः १

यो ददाति तिलप्रस्थं तृष्कालं वत्सरं नरः ।
उपवासं च तस्यां यः करोत्येतत्समं स्मृतम् २

तस्यां जगत्पतिर्देवः सर्वः सर्वेश्वरो हरिः ।
प्रत्यक्षतां प्रयात्यल्पं तदानन्तफलं स्मृतम् ३

सगरेण ककुत्स्थेन दुन्धुमारेण गाधिना ।
तस्यामाराधितः कृष्णो दत्तवान्निखिलां भुवम् ४

इति विष्णुधर्मेष्वतिविजयैकादशी ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP