संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ८८

विष्णुधर्माः - अध्याय ८८

विष्णुधर्माः


अथाष्टाशीतितमोऽध्यायः ।
वसिष्ठ उवाच ।
जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।
देवदेवो हृषीकेशः सर्वेशः सर्वभावनः १

जलकुम्भं नरव्याघ्र सुवर्णरजतान्वितम् ।
रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैः समन्वितम् २

सितवस्त्रयुगच्छन्नं दूर्वापल्लवशोभितम् ।
कुष्ठं मांसीमुशीरं च वालकामलकैर्युतम् ३

प्रियङ्गुपात्रसहितं सितयज्ञोपवीतिनम् ।
सच्छत्त्रं सौपानत्कं दर्भविस्तरसंस्थितम् ४

चतुर्भिः संवृतं भूप तिलपात्रैश्चतुर्दिशम् ।
स्थगितं दधिपात्रेण घृतक्षौद्रवता मुखे ५

उपोषितः समभ्यर्च्य वासुदेवं जनेश्वरम् ।
पुष्पधूपोपहारैस्तु यथाविभवमादृतः ६

सङ्कल्प्य जलधेनुं च कुम्भं समभिपूज्य च ।
पूजयेद्वत्सकं तद्वत्कृतं जलमयं बुधः ७

एवं सम्पूज्य गोविन्दं जलधेनुं सवत्सकाम् ।
सितवस्त्रधरः शान्तो वीतरागो विमत्सरः ८

दद्याद्विप्राय राजेन्द्रप्रीत्यर्थं जलशायिनः ।
जलशायी जगद्योनिः प्रीयतां मम केशवः ९

इति चोच्चार्य भूनाथ विप्राय प्रतिपाद्यताम् ।
अपक्वान्नाशिना स्थेयमहोरात्रमतःपरम् १०

अनेन विधिना दत्त्वा जलधेनुं जनाधिप ।
सर्वाह्लादानवाप्नोति ये दिव्या ये च मानुषाः ११

शरीरारोग्यमाबाधाप्रशमः सार्वकामिकः ।
नृणां भवति दत्तायां जलधेन्वां न संशयः १२

अत्रापि श्रूयते भूप पुद्गलेन महात्मना ।
जातिस्मरेण यद्गीतमिहाभ्येत्य पुरा किल १३

स पुद्गलः पुरा विप्रो यमलोकगतो मुनिः ।
ददर्श यातना घोराः पापकर्मकृतां किल १४

दीप्ताग्नितीक्ष्णशस्त्रोत्थाः क्वाथतैलगतास्तथा ।
उष्णक्षारनदीपाता भैरवाः पुरुषर्षभ १५

व्रणाः क्षारनिपातोग्राः कुम्भीपाकमहाभयाः ।
ता दृष्ट्वा यातना विप्रश्चकार परमां कृपाम् १६

आह्लादं ते तदा जग्मुः पापास्तदनुकम्पिताः ।
तं दृष्ट्वा नारकाः केचित्केचित्तदवलोकिनः १७

तदा स्वस्थं विलोक्यैव मुनिर्नारकमण्डलम् ।
धर्मराजं स पप्रच्छ तेषां प्रशमकारणम् १८

तस्मै चाचष्ट राजेन्द्रतदा वैवस्वतो यमः ।
आह्लादहेतुं विप्राय पृच्छते पृथिवीपते १९

यम उवाच ।
तवानुभावादेतेषां नारकाणां द्विजोत्तम् ।
सम्प्रवृत्तोऽयमाह्लादः कारणं यच्छृणुष्व तत् २०

त्वयाभ्यर्च्य जगन्नाथं सर्वेशं जलशायिनम् ।
जलधेनुः पुरा दत्ता विधिवन्मुनिपुङ्गव २१

अस्मात्तु जन्मनोऽतीते तृतीये द्विज जन्मनि ।
तस्य दानस्य ते व्युष्टिरियमाह्लाददायिनी २२

येन त्वं तपसा युक्तो मानवानामगोचरम् ।
सम्प्राप्तोऽसि महाप्रज्ञ सर्वशास्त्रविशारद २३

ये त्वां पश्यन्ति शृण्वन्ति ये च ध्यायन्ति पापिनः ।
शृणोषि यांस्त्वं विप्रेन्द्रयांश्च ध्यायसि पश्यसि २४

निर्वृतिः परमा तेषां सर्वाह्लादप्रदायिनी ।
सद्यो भवति मात्र त्वं द्विजेन्द्रकुरु विस्मयम् २५

आह्लादहेतुजननं नास्ति विप्रेन्द्रतादृशम् ।
जलधेनुर्यथा नॄणां जन्मान्येकोनसप्ततिः २६

न दाघो न क्लमो नार्तिर्न मोहो विप्र जायते ।
अपि जन्मसहस्रेषु जलधेनुप्रदायिनाम् २७

एकजन्मकृतं वाञ्छा त्रिजन्मोत्थं समाहृता ।
सप्तजन्मकृतं पापं हन्ति दत्ताम्बुगौर्नृणाम् २८

स त्वं गच्छ गृहीत्वार्घमस्मत्तो द्विजसत्तम ।
येषां समाश्रयः कृष्णो न नियम्या हि ते मया २९

कृष्णः सम्पूजितो यैस्तु ये कृष्णार्थमुपोषिताः ।
यैश्च नित्यं स्मृतः कृष्णो न ते मद्विषयोपगाः ३०

नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् ।
यैर्भावभावितैर्विप्र न ते मद्विषयोपगाः ३१

दानं ददद्भिर्यैरुक्तमच्युतः प्रीयतामिति ।
श्रद्धापुरःसरैर्विप्र न ते मद्विषयोपगाः ३२

उत्तिष्ठद्भिः स्वपद्भिश्च व्रजद्भिश्च जनार्दनः ।
यैः संस्मृतो द्विजश्रेष्ठ न ते मद्विषयोपगाः ३३

क्षुतस्खलितभीत्यादावसहद्भिश्च वेदनाम् ।
कृष्णेत्युदीरितं यैश्च न ते मद्विषयोपगाः ३४

सर्वाबाधासु ये कृष्णं स्मरन्त्युच्चारयन्ति च ।
तद्भावभाविता विप्र न ते मद्विषयोपगाः ३५

स एव धाता सर्वस्य तन्नियोगकरा वयम् ।
जनसंयमनोद्युक्ताः सोऽस्मत्संयमनो हरिः ३६

वसिष्ठ उवाच ।
इत्थं निशाम्य वचनं यमस्य वदतो मुनिम् ।
ऊचुस्ते नारकाः सर्वे वह्निशस्त्रास्त्रभीरवः ३७

नारका ऊचुः ।
नमः कृष्णाय हरये विष्णवे जिष्णवे नमः ।
हृषीकेशाय देवाय जगद्धात्रेऽच्युताय च ३८

नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
जनार्दनाय श्रीशाय श्रीपते पीतवाससे ३९

गोविन्दाय नमो नित्यं नमश्चोदधिशायिने ।
नमः करालवक्त्राय नृसिंहायातिनादिने ४०

शार्ङ्गिणे सितखड्गाय शङ्खचक्रगदाधृते ।
नमो वामनरूपाय क्रान्तलोकत्रयाय च ४१

वराहरूपाय तथा नमो यज्ञाङ्गधारिणे ।
व्याप्ताशेषदिगन्ताय शान्ताय परमात्मने ४२

वासुदेव नमस्तुभ्यं नमः कैटभसूदन ।
केशवाय नमो व्यापिन्नमस्तेऽस्तु महीधर ४३

वसिष्ठ उवाच ।
नमोऽस्तु वासुदेवायेत्येवमुच्चारिते ततः ।
शस्त्राणि कुण्ठतां जग्मुरनलश्चाप्यशीशमत् ४४

अभज्यन्त च यन्त्राणि समुत्पेतुरयोमुखाः ।
संशुष्काः क्षारसरितः पतितः कूटशाल्मलिः ४५

प्रकाशतामसीतत्त्वं नरकश्चागतस्तु सः ।
विवान्बभञ्ज पवनोऽप्यसिपत्रवनं ततः ४६

निरुत्साहा जडधियो बभूवुर्यमकिङ्कराः ।
आसन्गन्धाम्बुवाहिन्यः पूयशोणितनिम्नगाः ४७

ववौ सुगन्धी पवनो मनःप्रीतिकरस्ततः ।
वेणुवीणास्वनयुतान्गीतशब्दांश्च शुश्रुवुः ४८

तं तादृशमथालक्ष्य नृप वैवस्वतो यमः ।
नरकस्य विपर्यासं सङ्क्षुद्धहृदयस्ततः ४९

ददर्श नारकान्सद्यो दिव्यस्रगनुलेपनान् ।
जाज्वल्यमानांस्तेजोभिरमलाम्बरवाससः ५०

नमो नमोऽस्तु कृष्णाय गोविन्दायाव्ययात्मने ।
वासुदेवाय देवाय विष्णवे प्रभविष्णवे ५१

इत्येवं वादिनस्तत्र प्रजासंयमनो यमः ।
क्षीणपापचयांस्तांस्तु पाद्यार्घ्यादिभिरर्चयन् ५२

पूजयित्वा च तानाह स कृष्णाय कृताञ्जलिः ।
समाहितमना भूत्वा धर्मराजो नरेश्वर ५३

विष्णोर्देवातिदेवस्य जगद्धातुः प्रजापतेः ।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ५४

सर्वस्य सर्वसंस्थस्य सर्वाधारस्य योगिनः ।
ये विष्णोः प्रणतास्तेभ्यो नमः सद्यः पुनः पुनः ५५

तस्य यज्ञवराहस्य विष्णोरमिततेजसः ।
प्रणामं येऽपि कुर्वन्ति तेषामपि नमो नमः ५६

वसिष्ठ उवाच ।
एवं ते संस्तुतास्तेन धर्मराजेन नारकाः ।
विमानानि समारूढा नृत्तगान्धर्ववन्ति वै ५७

पुद्गलोऽपि महाबुद्धिर्दृष्ट्वैतदखिलं नृप ।
जातिस्मरोऽभवद्भूप कण्वगोत्रे महामुनिः ५८

संस्मृत्य यमवाक्यानि विष्णोर्माहात्म्यमेव च ।
जलधेन्वाश्च माहात्म्यं संस्मृत्यैतदगायत ५९

अहो दुरुत्तरा विष्णोर्मायेयमतिगह्वरी ।
यया मोहितचित्तस्तं न वेत्ति परमेश्वरम् ६०

जीवो वाञ्छति कीटत्वं यूकामत्कुणयोनितः ।
तस्माच्च शलभादीनां योनिं तस्माच्च पक्षिणाम् ६१

ततश्च पशुतां प्राप्य नरत्वमभिवाञ्छति ।
विमुक्तिहेतुकी धन्या नरयोनिः कृतात्मनाम् ६२

न प्राप्नुवन्ति संसारे विभ्रान्तमनसो गतिम् ।
जीवा मानुष्यतामन्ये जन्मनामयुतैरपि ६३

विष्णुमायापरीतास्ते प्राप्यापि न तरन्ति ये ।
तदीदृग्दुर्लभं प्राप्य मुक्तिद्वारमचेतसः ।
पतन्ति भूयः संसारे विष्णुमायाविमोहिताः ६४

दुस्तरापि तु साध्यासौ माया कृष्णस्य मोहनी ।
छिद्यते यामनोन्यस्ते मुधैव हि जनार्दने ६५

असन्त्यज्य च गार्हस्थ्यमतप्त्वैव तथा तपः ।
छिन्दन्ति वैष्णवीं मायां केशवार्पितमानसाः ६६

अविरोधेन विषयां भुञ्जन्विष्णुव्यपाश्रयः ।
कृत्वा मनस्तरत्येतां विष्णोर्मायां सुदुस्तराम् ६७

ईदृग्बहुफलां भक्तिं सर्वधातरि केशवे ।
मायया तस्य देवस्य न कुर्वन्ति विमोहिताः ६८

मुधैवोक्तं मुधायातं मुधा तद्विधिचेष्टितम् ।
मुधैव जन्म तन्नष्टं यत्र नाराधितो हरिः ६९

आराधितो हि यः पुंसामैहिकामुष्मिकं फलम् ।
ददाति भगवान्देवः कस्तं न प्रतिपूजयेत् ७०

संवत्सरास्तथा मासा विफला दिवसाश्च ते ।
नराणां विषयान्धानां येषु नाराधितो हरिः ७१

यो न वित्तर्द्धिविभवैर्न वसोभिर्न भूषणैः ।
तुष्यते हृदयेनैव कस्तमीशं न पूजयेत् ७२

जलधेन्वाश्च माहात्म्यं निशाम्यापीदृशं नराः ।
तां न यच्छन्ति ये तेषां विवेकः कुत्र तिष्ठति ७३

कर्मभूमौ हि मानुष्यं जन्मनामयुतैरपि ।
स्वर्गापवर्गफलदं कदाचित्प्राप्यते नरैः ७४

सम्प्राप्य तन्न यैर्विष्णुस्तोषितो नाम्बुधेनुका ।
दत्ता च सम्यक् ते मुष्टा जन्मनि सुबहूनि भोः ७५

ऊर्ध्वबाहुर्विरौम्येष दृष्टलोकद्वयोऽस्मि भोः ।
आराधयत गोविन्दं जलधेनुं प्रयच्छत ७६

दुःसहो नारको वह्निरविषह्याश्च यातनाः ।
ज्ञानं ममैतदालम्ब्य कृष्णे भवत सुस्थिराः ७७

अदेशिके देशिकोऽहमत्र मार्गे मयोदितम् ।
विमृष्य सत्यमित्येतन्मनः कृष्णे निवेश्यताम् ७८

प्रातः कृष्णेति देवेति गोविन्देति च जल्पताम् ।
मध्याह्ने चापराह्ने च योऽवसादः स उच्यताम् ७९

अनेकविषयालम्बि यच्चित्तं तज्जनार्दने ।
कुरुध्वमालम्बनवत्संस्मृतः पुण्यदो हि सः ८०

मुधैव जिह्वा कृष्णेति केशवेति च वक्ष्यति ।
मुधा च चित्तं तद्गामि यदि स्यात्किमतोऽधिकम् ८१

मयोक्तमेतद्बहुशो विनष्टे तु शरीरके ।
मनुष्यत्वं विना विष्णुर्दुर्लभो वो भविष्यति ८२

वसिष्ठ उवाच ।
एताः पुद्गलगाथास्ते यमवाक्यं तवोदितम् ।
जलधेन्वाश्च माहात्म्यं विष्णुसम्पूजनस्य च ८३

व्रतानि सोपवासानि सर्वकामप्रदानि ते ।
व्रतमन्यन्महाभाग सर्वकामप्रदं शृणु ८४

इति विष्णुधर्मेषु पुद्गलगाथाः ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP