संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९

विष्णुधर्माः - अध्याय ९

विष्णुधर्माः


अथ नवमोऽध्यायः ।
पुलस्त्य उवाच ।
यदा च शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् ।
तदा सा तु महापुण्या द्वादशी विजया स्मृता १

तस्यां स्नातः सर्वतीर्थैः स्नातो भवति मानवः ।
सम्पूज्य वर्षपूजायाः सकलं फलमश्नुते २

एकं जप्त्वा सहस्रस्य जप्तस्याप्नोति यत्फलम् ।
दानं सहस्रगुणितं तथा वै विप्र भोजनम् ३

यत्क्षेममपि वै तस्यां सहस्रं श्रावणे तु तत् ।
अन्यस्यामेव तिथ्यां शुभायां श्रावणं यदा ।
होमस्तथोपवासश्च सहस्राख्यफलप्रदः ३

इति विष्णुधर्मेषु विजयद्वादशी ।

N/A

References : N/A
Last Updated : February 07, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP