संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १०

विष्णुधर्माः - अध्याय १०

विष्णुधर्माः


अथ दशमोऽध्यायः ।
पुलस्त्य उवाच ।
रोहिण्याश्च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम ।
जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः १

यद्बाल्ये यच्च कौमारे यौवने वार्द्धिके च यत् ।
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु २

तत्क्षालयति गोविन्दं तस्यामभ्यर्च्य भक्तितः ।
होमजप्यादिदानानां फलं च शतसम्मितम् ३

सम्प्राप्नोति न सन्देहो यच्चान्यन्मनसेच्छति ।
उपवासश्च तत्रोक्तो महापातकनाशनः ४

इति विष्णुधर्मेषु जयन्त्यष्टमी ।

N/A

References : N/A
Last Updated : February 07, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP