संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६७

विष्णुधर्माः - अध्याय ६७

विष्णुधर्माः


अथ सप्तषष्टितमोऽध्यायः ।
शतानीक उवाच ।
मया हि देवदेवस्य विष्णोरमिततेजसः ।
श्रुताः सम्भूतयः सर्वा गदतस्तव सुव्रत १

यदि प्रसन्नो भगवाननुग्राह्योऽस्मि वा यदि ।
तदहं श्रोतुमिच्छामि नॄणां दुःस्वप्ननाशनम् २

स्वप्ना हि सुमहाभाग दृश्यन्ते ये शुभाशुभाः ।
फलानि ते प्रयच्छन्ति तद्गुणान्येव भार्गव ३

यद्यत्पुण्यं पवित्रं च नॄणामतिशुभप्रदम् ।
दुःस्वप्नोपशमायालं तन्मे विस्तरतो वद ४

शौनक उवाच ।
इदमेव महाराज पृष्टवांस्ते पितामहः ।
भीष्मं धर्मभृतां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः ५

देवव्रतं महाप्राज्ञं सर्वशास्त्रविशारदम् ।
विनयेनोपसङ्गम्य पर्यपृच्छद्युधिष्ठिरः ६

युधिष्ठिर उवाच ।
दुःस्वप्नदर्शनं घोरमवेक्ष्य भरतर्षभ ।
प्रयतः किं जपेज्जप्यं विबुद्धः किमनुस्मरेत् ७

पितामह महाबुद्धे बुद्धेर्भेदो महानयम् ।
तदहं श्रोतुमिच्छामि ब्रूहि मे वदतां वर ८

भीष्म उवाच ।
शृणु राजन्महाबाहो वर्तयिष्यामि तेऽखिलम् ।
दुःस्वप्नदर्शने जप्यं यद्वै नित्यं समाहितैः ९

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
गजेन्द्रमोक्षणं पुण्यं कृष्णस्याक्लिष्टकर्मणः १०

सर्वरत्नमयः श्रीमांस्त्रिकूटो नाम पर्वतः ।
सुतः पर्वतराजस्य सुमेरोर्भास्करद्युतेः ११

क्षीरोदजलवीच्यग्रैर्धौतामलशिलातलः ।
उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः १२

अप्सरोभिः समाकीर्णः श्रीमान्प्रस्रवणाकुलः ।
गन्धर्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ।
विद्याधरैः सपत्निकैः संयतैश्च तपस्विभिः ।
मृगैर्द्वीपैर्द्विजैश्चैव वृतः सौवर्णराजतैः ।
पुन्नागैः कर्णिकारैश्च पुष्पितैरुपशोभितः १४

चूतनीपकदम्बैश्च चन्दनागरुचम्पकैः ।
शालैस्तालैस्तमालैश्च कुटजैश्चार्जुनैस्तथा १५

एवं बहुविधैर्वृक्षैः सर्वतः समलङ्कृतः ।
नानाधातूज्ज्वलैः शृङ्गैः प्रस्रवद्भिः समन्ततः १६

मृगैः शाखामृगैः सिंहैर्मातङ्गैश्च सदामदैः ।
जीवञ्जीवकसङ्घुष्टं चकोरशिखिनादितम् १७

तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवादरः ।
नानापुष्पसमाकीर्णं नानागन्धसमाकुलम् १८

द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः ।
पाण्डुराम्बुदसङ्काशं तुषारचयसन्निभम् १९

वज्रेन्द्रनीलवैडूर्यतेजोभिर्भासयन्नभः ।
ऋतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् २०

न तत्कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः ।
नातप्ततपसः शैलं तं वै पश्यन्ति मानवाः २१

तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् ।
कारण्डवसमाकीर्णं राजहंसोपशोभितम् २२

मत्तभ्रमरसङ्घुष्टं फुल्लपङ्कजशोभितम् ।
कुमुदोत्पलकल्हारपुण्डरीकोपशोभितम् २३

उत्पलैः शतपत्त्रैश्च काञ्चनैः समलङ्कृतम् ।
पत्त्रैर्मणिदलप्रख्यैः पुष्पैः काञ्चनसन्निभैः ।
गुल्मैः कीचकवेणूनां समन्तात्परिवारितम् २४

तस्मिन्सरसि दुष्टात्मा विरूपोऽन्तर्जलाशयः ।
आसीद्ग्राहो गजेन्द्राणां दुराधर्षो महाबलः २५

अथ दन्तोज्ज्वलमुखः कदाचिद्गजयूथपः ।
आजगामासिताभ्राभः करेणुपरिवारितः २६

मदस्रावी महारौद्रः! पादचारीव पर्वतः ।
वासयन्मदगन्धेन गिरिमैरावतोपमः २७

स गजोऽञ्जनसङ्काशो मदाच्चलितमानसः ।
गन्धहस्तीति विख्यातः सरः समभिगम्य तत् ।
तृषितः स जलं प्राप्य कुसुमाकरशीतलम् ।
अपिबत्सहसा राजन्करेणुपरिवारितः ।
सलीलं पङ्कजवने यूथमध्यगतोऽव्रजत् २८

गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्तिना ।
पश्यन्तीनां करेणूनां क्रोशन्तीनां च दारुणम् २९

क्रियते पङ्कजवने ग्राहेणातिबलीयसा ।
गजश्चाकर्षते तीरं ग्राहश्चाकर्षते जलम् ।
द्वन्द्व महायुद्धं दिव्यवर्षसहस्रिकम् ।
वारुणैः संयतः पाशैर्निःप्रयत्नगतिः कृतः ।
वेष्ट्यमानः सुघोरैस्तु पाशैर्नागो दृढैस्तथा ३०

विस्फुर्ज्य च यथाशक्ति विक्रुश्य च महारवान् ।
व्यथितः सन्निरुत्साहो गृहीतो घोरकर्मणा ३१

परमापदमापन्नो मनसाचिन्तयद्धरिम् ।
स तु नागवरः श्रीमान्नारायणपरायणः ३२

तमेव परमं देवं गतः सर्वात्मना तदा ।
एकाग्रं चिन्तयामास विशुद्धेनान्तरात्मना ३३

जन्मजन्मान्तराभ्यासाद्भक्तिमान्गरुडध्वजे ।
आद्यं देवं महात्मानं पूजयामास केशवम् ३४

नवमेघप्रतीकाशं शङ्खचक्रगदाधरम् ।
सहस्रशुभनामानमादिदेवमजं परम् ३५

दिग्बाहुं सर्वमूर्धानं भूपादं गगनोदरम् ।
आदित्यचन्द्रनयनं समग्रं लोकसाक्षिणम् ।
भगवन्तं प्रसन्नोऽहं विष्णुमप्रतिमौजसम् ।
प्रगृह्य पुष्कराग्रेण काञ्चनं कमलोत्तमम् ।
आपद्विमोक्षमन्विच्छन्गजः स्तोत्रमुदैरयत् ३६
गजेन्द्रउवाच ।
ॐ नमो मूलप्रकृतये अजिताय महात्मने १

अनाश्रिताय देवाय निःस्पृहाय नमो नमः २

नम आद्याय बीजाय शिवाय च प्रशान्ताय ३

आर्षेयाय प्रवर्तिने निश्चलाय यशस्विने ४

अनन्तराय चैकाय सनातनाय पूर्वाय ५

अव्यक्ताय नमो नमः पुराणाय नमो नमः ६

नमो गुह्याय गूढाय ७

गुणायागुणवर्तिने ८

अतर्क्यायाप्रमेयाय ९

अनन्ताय नमो नमः १०

नमो देवातिदेवाय ११

अप्रभाय नमो नमः १२

नमो जगत्प्रस्थिताय गोविन्दाय नमो नमः १३

नमोऽस्तु पद्मनाभाय साङ्ख्ययोगोद्भवाय च १४

विश्वेश्वराय देवाय शिवाय हरये नमः १५

नमोऽस्तु तस्मै देवाय निर्गुणाय गुणात्मने १६

नारायणाय विश्वाय देवानां परमात्मने १७

नमो नमः कारणवामनाय नारायणायामितविक्रमाय ।
श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ३७

आद्याय वेदनिलयाय महोदराय ।
सिंहाय दैत्यनिधनाय चतुर्भुजाय ।
ब्रह्मेन्द्ररुद्रमुनिचारणसंस्तुताय ।
देवोत्तमाय वरदाय नमोऽच्युताय ३८

नागेन्द्रभोगशयनासनसुप्रियाय ।
गोक्षीरहेमशुकनीलघनोपमाय ।
पीताम्बराय मधुकैटभनाशनाय ।
विश्वाय चारुमुकुटाय नमोऽक्षराय ।
भक्तिप्रियाय वरदीप्तसुदर्शनाय ३९

नाभिप्रजातकमलस्थचतुर्मुखाय ।
क्षीरोदकार्णवनिकेतयशोधनाय ।
नानाविचित्रमुकुटाङ्गदभूषणाय ।
सर्वेश्वराय वरदाय नमो वराय ४०

विश्वात्मने परमकारणकारणाय ।
फुल्लारविन्दविमलायतलोचनाय ।
देवेन्द्रदानवपरीक्षितपौरुषाय ।
योगेश्वराय विजयाय नमो वराय ४१

लोकायनाय त्रिदशायनाय ब्रह्मायनायात्मभवायनाय ।
धर्मायनायैकजलायनाय महावराहाय सदा नतोऽस्मि ४२

अचिन्त्यमव्यक्तमनन्तरूपं नारायणं कारणमादिदेवम् ।
युगान्तशेषं पुरुषं पुराणं तं वासुदेवं शरणं प्रपद्ये ४३

योगेश्वरं चारुविचित्रमौलिमाज्ञेयमौख्यं प्रकृतेः परस्थम् ।
क्षेत्रज्ञमात्मप्रभवं वरेण्यं तं वासुदेवं शरणं प्रपद्ये ।
अदृश्यमच्छेद्यमनादिमध्यं महर्षयो ब्रह्मविदः सुरेशम् ।
वदन्ति यं वै पुरुषं सनातनं तं वासुदेवं शरणं प्रपद्ये ४४

यदक्षरं ब्रह्म वदन्ति सर्वगं ।
निशाम्य यं मृत्युमुखात्प्रमुच्यते ।
तमीश्वरं तृप्तमनोपमैर्गुणैः ।
परायणं विष्णुमुपैमि शाश्वतम् ४५

कार्यं क्रियाकारणमप्रमेयं हिरण्यनाभं वरपद्मनाभम् ।
महाबलं वेदनिधिं सुरोत्तमं व्रजामि विष्णुं शरणं जनार्दनम् ४६

विचित्रकेयूरमहार्हनिष्कं रत्नोत्तमालङ्कृतसर्वगात्रम् ।
पीताम्बरं काञ्चनभक्तिचित्रं मालाधरं केशवमभ्युपैमि ४७

भवोद्भवं वेदविदां वरिष्ठं ।
योगात्मानं साङ्ख्यविदां वरिष्ठम् ।
आदित्यचन्द्राश्विवसुप्रभावं ।
प्रभुं प्रपद्येऽच्युतमात्मभूतम् ४८

श्रीवत्साङ्कं महादेवं वेदगुह्यमनुत्तमम् ।
प्रपद्ये सूक्ष्ममचलं भक्तानामभयप्रदम् ४९

प्रभवं सर्वलोकानां निर्गुणं परमेश्वरम् ।
प्रपद्ये मुक्तसङ्गानां यतीनां परमां गतिम् ५०

भगवन्तं सुराध्यक्षमक्षरं पुष्करेक्षणम् ।
शरण्यं शरणं भक्त्या प्रपद्ये ब्राह्मणप्रियम् ५१

त्रिविक्रमं त्रिलोकेशमाद्यमेकमनामयम् ।
भूतात्मानं महात्मानं प्रपद्ये मधुसूदनम् ५२

आदिदेवमजं शम्भुं व्यक्ताव्यक्तं जनार्दनम् ।
क्षेत्रज्ञं पुरुषं यज्ञं त्रिगुणातीतमव्ययम् ।
नारायणमणीयांसं प्रपद्ये परमेश्वरम् ५३

एकाय लोकत्रयाय परतः परमात्मने ।
नमः सहस्रशिरसे अनन्ताय महात्मने ५४

वरेण्यमनघं देवमृषयो वेदपारगाः ।
कीर्तयन्ति च यं सर्वे तं प्रपद्ये सनातनम् ५५

नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ।
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ५६

भीष्म उवाच ।
भक्तिं तस्यानुसञ्चिन्त्य नागस्यामोघसंस्तवम् ।
प्रीतिमानभवद्राजञ्शङ्खचक्रगदाधरः ।
सान्निध्यं कल्पयामास तस्मिन्सरसि माधवः ५७

ग्राहग्रस्तं गजं तं च सङ्गृह्य सलिलाशयात् ।
उज्जहाराप्रमेयात्मा तरसैवारिसूदनः ५८

स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।
मोक्षयामास च गजं पाशेभ्यः शरणागतम् ५९

स हि देवलशापेन हूहू गन्धर्वसत्तमः ।
गजत्वमगमत्कृष्णान्मोक्षं प्राप्य दिवं गतः ।
शापाद्विमुक्तः सद्यश्च गजो गन्धर्वतां गतः ६०

ग्राहोऽपि यक्षतां यातो यः कृष्णेन निपातितः ।
तस्यापि शापमोक्षोऽसौ जैगीषव्यकृतोऽभवत् ६१

प्रीतिमांस्त्राति गोविन्दः सद्यः संसारसागरात् ।
क्रुद्धोऽपि निघ्नन्देवत्वमरातीनां प्रयच्छति ६२

तौ च स्वं स्वं वपुः प्राप्य प्रणिपत्य जनार्दनम् ।
गन्धर्वराट्तथा यक्षः परां निर्वृतिमागतौ ६३

इदं चैव महाबाहो देवदेवोऽभ्यभाषत ।
दृष्ट्वा मुक्तौ गजग्रहौ भगवान्मधुसूदनः ६४

यो ग्राहं नागराजं च मां चैव प्रणिधानवान् ।
स्मरिष्यति सरश्चेदं युवयोर्मोक्षणं तथा ६५

गुल्मं कीचकवेणूनां तं च शैलवरं तथा ।
अश्वत्थं भास्करं गङ्गां नैमिषारण्यमेव च ६६

संस्मरिष्यन्ति ये मर्त्याः सम्यक् श्रोष्यन्ति वापि ये ।
न ते दुःस्वप्नपापस्य भोक्तारो मत्परिग्रहात् ६७

सर्वपापैः प्रमोक्ष्यन्ते कल्याणानां च भागिनः ।
भविष्यन्ति तथा पुण्यां गतिं यास्यन्ति मानवाः ।
दुःस्वप्नं च नृणां तेषां सुस्वप्नं च भविष्यति ६८

कौर्मं मात्स्यं च वाराहं वामनं तार्क्ष्यमेव च ।
नारसिंहं तथा रूपं सृष्टिसंहारकारकम् ६९

एतानि प्रातरुत्थाय संस्मरिष्यन्ति ये नराः ।
सर्वपापविनिर्मुक्तास्ते यान्ति परमां गतिम् ७०

भीष्म उवाच ।
एवमुक्त्वा तु राजेन्द्रदेवदेवो जनार्दनः ।
अस्पृशद्गजगन्धर्वं ग्राहयक्षं च तं तदा ७१

तेन स्पृष्टावुभौ सद्यो दिव्यमाल्याम्बरान्वितौ ।
विमानेऽभिमते प्राप्य जग्मतुस्त्रिदशालयम् ७२

ततो देवपतिः कृष्णो मोक्षयित्वा गजोत्तमम् ।
ऋषिभिः स्तूयमानो हि गुह्यैर्वेदपदाक्षरैः ।
गतः स भगवान्विष्णुर्दुर्विज्ञेयगतिः प्रभुः ७३

गजेन्द्रमोक्षणं दृष्ट्वा सर्वे चेन्द्रपुरोगमाः ।
ब्रह्माणमग्रतः कृत्वा सर्वे प्राञ्जलयोऽभवन् ।
ववन्दिरे महात्मानं प्रभुं नारायणं हरिम् ।
विस्मयोत्फुल्लनयनाः प्रजापतिपुरःसराः ।
य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः ।
प्राप्नुयात्परमां सिद्धिं दुःस्वप्नस्तस्य नश्यति ।
गजेन्द्रमोक्षणं पुण्यं सर्वपापप्रमोचनम् ।
श्रावयेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ७५

श्रद्धया हि कुरुश्रेष्ठ स्मृतेन कथितेन च ।
गजेन्द्रमोक्षणेनेह दीर्घमायुरवाप्नुयात् ७६

मया ते कथितं दिव्यं पवित्रं पापनाशनम् ।
कीर्तयस्व महाबाहो महादुःस्वप्ननाशनम् ७७

शौनक उवाच ।
कीर्त्यमानं च विप्रेभ्यः शृणु भक्त्या यथोदितम् ।
गजेन्द्रमोक्षणं श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः ।
भीष्माद्भगीरथीपुत्रात्पूजयामास केशवम् ७८

ये चापि पाण्डुपुत्रस्य समीपस्था द्विजोत्तमाः ।
तेऽपि भीष्मस्य पार्श्वस्थं वासुदेवं प्रणेमिरे ७९

वरं वरेण्यं वरपद्मनाभं ।
नारायणं ब्रह्मनिधिं सुरेशम् ।
तं देवगुह्यं पुरुषं पुराणं ।
ववन्दिरे ब्रह्मविदां वरिष्ठम् ८०

एतत्पुण्यं महाराज नराणां पापकर्मणाम् ।
दुःस्वप्नदर्शने घोरे श्रुत्वा पापात्प्रमुच्यते ।
भक्तिमान्पुण्डरीकाक्षे गजो दुःखाद्विमोचितः ८१

तथा त्वमपि राजेन्द्रप्रपद्य शरणं हरिम् ।
विमुक्तः सर्वपापेभ्यः प्राप्स्यसे परमां गतिम् ८२

इति विष्णुधर्मेषु गजेन्द्रमोक्षणस्तवः ।

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP