संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ५१

विष्णुधर्माः - अध्याय ५१

विष्णुधर्माः


अथैकपञ्चाशोऽध्यायः ।
भगवानुवाच ।
सायं प्रातश्च यः सन्ध्यामुपास्तेऽस्कन्नमानसः ।
जपन्हि पावनीं देवीं गायत्रीं वेदमातरम् १

स तया पावितो देव्या ब्राह्मणः पूतकिल्बिषः ।
न सीदेत्प्रतिगृह्णानः पृथिवीं तु ससागराम् २

ये चान्ये दारुणाः केचिद्ग्रहाः सूर्यादयो दिवि ।
ते चास्य सौम्या जायन्ते शिवाः शिवतमाः सदा ३

यत्रतत्रगतं चैनं दारुणाः पिशिताशनाः ।
घोररूपा महाकाया न कर्षन्ति द्विजोत्तमम् ४

यावन्तश्च पृथिव्यां हि चीर्णवेदव्रता द्विजाः ।
अचीर्णव्रतवेदा वा विकर्मपथमाश्रिताः ५

तेषां तु पावनार्थं हि नित्यमेव युधिष्ठिर ।
द्वे सन्ध्ये ह्युपतिष्ठेत तदस्कन्नं महाव्रतम् ६

नास्ति किञ्चिन्नरव्याघ्र दुष्कृतं ब्राह्मणस्य तु ।
यत्र स्थितः सदाध्यात्मे द्वे सन्ध्ये ह्युपतिष्ठति ७

पूर्णाहुतिं वा प्राप्नोति जुहुते च त्रयोऽघ्नयः ।
दहन्ति दुष्कृतं तस्य अग्नयो नात्र संशयः ८

एवं सर्वस्य विप्रस्य किल्बिषं निर्दहाम्यहम् ।
उभे सन्ध्ये ह्युपासिनस्तस्मात्सर्वशुचिर्द्विजः ९

दैवे पित्र्! ये च यत्नेन नियोक्तव्योऽजुगुप्सितः ।
जुगुप्सितस्तु तच्छ्राद्धं दहत्यग्निरिवेन्धनम् १०

इति विष्णुधर्मेषु विप्रमाहात्म्यम् ।

N/A

References : N/A
Last Updated : February 21, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP