संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १६

विष्णुधर्माः - अध्याय १६

विष्णुधर्माः


अथ षोडशोऽध्यायः ।
मैत्रेय्युवाच ।
उपवासव्रतानां तु वैकल्यं यन्महामुने ।
दानकर्मकृतं तस्य विपाको वद यादृशः १

याज्ञवल्क्य उवाच ।
यज्ञानामुपवासानां व्रतानां च यतव्रते ।
वैकल्यात्फलवैकल्यं यादृशं तच्छृणुष्व मे २

उपवासादिना राज्यं सम्प्राप्यं ते तथा वसु ।
भ्रष्टैश्वर्या निर्धनाश्च भवन्ति पुरुषाः पुनः ३

रूपं तथोत्तमं प्राप्य व्रतवैकल्यदोषतः ।
काणाः कुण्ठाश्च भूयस्ते भवन्त्यन्धाश्च मानवाः ४

उपवासान्नरः पत्नीं नारी प्राप्य तथा पतिम् ।
वियोगं व्रतवैकल्यादुभयं तदवाप्नुते ५

ये द्रव्ये सत्यदातारस्तथान्येनाहिताग्नयः ।
कुले च सति दुःशीला दौष्कुलाः शीलिनश्च ये ६

वस्त्रानुलेपनैर्हीना भूषणैश्चातिरूपिणः ।
विरूपरूपाश्च तथा प्रसाधनगुणान्विताः ७

ते सर्वे व्रतवैकल्यात्फलवैकल्यमागताः ।
गुणिनोऽपि हि दोषेण संयुक्ताः सम्भवन्ति ते ८

तस्मान्न व्रतवैकल्यं यज्ञवैकल्यमेव वा ।
उपवासे च कर्तव्यं वैकल्याद्विकलं फलम् ९

मैत्रेय्युवाच ।
कथञ्चिद्यदि वैकल्यमुपवासादिके भवेत् ।
किं तत्र वद कर्तव्यमच्छिद्रंयेन जायते १०

याज्ञवल्क्य उवाच ।
अखण्डद्वादशीमेतामशेषेष्वेव कर्मसु ।
वैकल्यप्रशमायालं शृणुष्व गदतो मम ११

मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः ।
कृतोपवासो देवेशं समभ्यर्च्य जनार्दनम् १२

पञ्चगव्यजलस्नातः पञ्चगव्यकृताशनः ।
यवव्रीहिभृतं पात्रं दद्याद्विप्राय भक्तितः ।
इदं चोच्चारयेद्भक्त्या देवस्य पुरतो हरेः १३

सप्त जन्मानि यत्किञ्चिद्मया खण्डव्रतं कृतम् ।
भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे १४

यथाखण्डं जगत्सर्वम् त्वमेव पुरुषोत्तम ।
तथाखिलान्यखण्डानि व्रतानि मम सन्तु वै १५

एवमेवानुमासं वै चातुर्मास्यविधिः स्मृतः १६

चतुर्भिरेव मासैस्तु पारणं प्रथमं स्मृतम् ।
प्रीणनं च हरेः कुर्यात्पारिते पारणे ततः १७

चैत्रादिषु च मासेषु चतुर्ष्वन्यं तु पारणम् ।
तत्रापि सक्तुपात्राणि दद्याच्छ्रद्धासमन्वितः १८

श्रावणादिषु मासेषु कार्त्तिकान्तेषु पारणम् ।
यत्नात्तु घृतपात्राणि दद्याद्विप्राय भक्तितः १९

एवं सम्यग्यथान्यायमखण्डद्वादशीं नरः ।
यदुपोष्यत्यखण्डं स व्रतस्य फलमश्नुते २०

सप्त जन्मसु वैकल्यम् यद्व्रतस्य क्वचित्कृतम् ।
करोत्यविकलं सर्वमखण्डद्वादशीव्रतम् २१

तस्मादेषातियत्नेन नरैः स्त्रीभिश्च सुव्रते ।
अखण्डद्वादशी सम्यगुपोष्या फलकाङ्क्षिभिः २२

इति विष्णुधर्मेषु अखण्डद्वादशीव्रतं नाम षोडशोऽध्यायः ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP