संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १८

विष्णुधर्माः - अध्याय १८

विष्णुधर्माः


अथ अष्टादशोऽध्यायः ।
पुलस्त्य उवाच ।
तथान्यदपि धर्मज्ञ श्रूयतां गदतो मम ।
पदद्वयं जगद्धातुर्देवदेवस्य शार्ङ्गिणः १

संवत्सरः पादपीठं तत्र न्यस्तं पदद्वयम् ।
वासुदेवेन विप्रेन्द्रभूतानां हितकाम्यया २

वाममस्य पदं ब्रह्मनुत्तरायणसञ्ज्ञितम् ।
देवाद्यैः सकलैर्वन्द्यं दक्षिणं दक्षिणायनम् ३

तस्मिन्यः प्रयतः सम्यग्देवदेवस्य मानवः ।
करोत्याराधनं तस्य तोषमायाति केशवः ४

दाल्भ्य उवाच ।
कथमाराधनं तस्य देवदेवस्य शार्ङ्गिणः ।
क्रियते मुनिशार्दूल तन्ममाख्यातुमर्हसि ५

पुलस्त्य उवाच ।
उत्तरे त्वयने दाल्भ्य स्नातो नियतमानसः ।
घृतक्षीरादिना देवं स्नापयेद्धरणीधरम् ६

चारुवस्त्रोपहारैश्च पुष्पधूपानुलेपनैः ।
समभ्यर्च्य ततः सम्यग्ब्राह्मणानां च तर्पणैः ।
पदद्वयव्रतं सम्यग्गृह्णीयाद्विष्णुतत्परः ७

स्नातो नारायणं वक्ष्ये भुञ्जन्नारायणं तथा ।
भुङ्क्त्वा नारायणं चाहं गच्छन्नारायणं ततः ८

स्वपन्विबुद्धः प्रणमन्होमं कुर्वंस्तथार्चनम् ।
नारायणस्यानुदिनं करिष्ये नामकीर्तनम् ९

यावदद्यदिनात्प्राप्तं क्रमशो दक्षिणायनम् ।
स्खलितेऽहं क्षुते चैव वेदनार्तोऽथवा सदा ।
तावन्नारायणं वक्ष्ये सर्वमेवोत्तरायणम् १०

यावज्जीववधं किञ्चिद्ज्ञानतोऽज्ञानतोऽपि वा ।
करिष्येऽहं तथा चैव कीर्तयिष्यामि तं प्रभुम् ११

यदा तदानृतं किञ्चिदथ वक्ष्यामि दुर्वचः ।
अज्ञानादथवा ज्ञानात्कीर्तयिष्यामि तं प्रभुम् १२

षण्मासमेष मे जापो नारायणमयः परः ।
तं स्मरन्मरणे याति यां गतिं सास्तु मे गतिः १३

षण्मासाभ्यन्तरे मृत्युर्यद्यकस्माद्भवेन्मम ।
तन्मया वासुदेवाय स्वयमात्मा निवेदितः १४

परमार्थमयं ब्रह्म वासुदेवमयं परम् ।
यमन्ते संस्मरन्याति स मे विष्णुः परा गतिः १५

यदा प्रातस्तदा सायं मध्याह्ने वा म्रिये ह्यहम् ।
षण्मासाभ्यन्तरे न्यासः कृतो व्रतमयो मया १६

तथा कुरु जगन्नाथ सर्वलोकपरायण ।
नारायण यथा नान्यं त्वत्तो यामि मृते गतिम् १७

एवमुच्चार्य षण्मासपारणं प्रवरं व्रतम् ।
तावन्निष्पादयेद्यावत्सम्प्राप्तं दक्षिणायनम् १८

ततश्च प्रीणनं कुर्याद्यथाशक्त्या जगद्गुरोः ।
भोजयेद्ब्राह्मणान्सम्यग्दद्यात्तेभ्यश्च दक्षिणाम् १९

एवं व्रतमिदं दाल्भ्य यः पारयति मानवः ।
नारी वा सर्वपापेभ्यः षण्मासाद्विप्र मुच्यते २०

षण्मासाभ्यन्तरे चास्य मरणं यदि जायते ।
प्राप्नोत्यनशनस्योक्तं यत्फलं तदसंशयम् २१

पदद्वयं च कृष्णस्य सम्यक् तेन तथार्चितम् ।
हरेर्नाम जपन्भक्त्या स पुरा न जनेश्वर ।
भगवानुज्जगौ विष्णुः पुरा गार्ग्याय पृच्छते २२

इति विष्णुधर्मेषु पदद्वयव्रतम् ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP