संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय १४

विष्णुधर्माः - अध्याय १४

विष्णुधर्माः

अथ चतुर्दशोऽध्यायः ।
याज्ञवल्क्य उवाच ।
साक्षाद्भगवता प्रोक्तं परमं पापनाशनम् ।
शुक्लपक्षे तु पौषस्य सम्प्राप्तिद्वादशीं शृणु ।
यामुपोष्य समाप्नोति सर्वानेव मनोरथान् १

पाषण्डादिभिरालापमकुर्वन्विष्णुतत्परः ।
पूजयेत्प्रणतो देवमेकाग्रमतिरच्युतम् २

पौषादिपारणं मासैः षड्भिर्ज्येष्ठान्तकं स्मृतम् ।
प्रथमे पुण्डरीकाक्षं नाम देवस्य गीयते ३

द्वितीये माधवाख्यं तु विश्वरूपं तु फाल्गुने ।
पुरुषोत्तमाख्यं च ततः पञ्चमे चाच्युतेति च ४

षष्ठे जयेति देवस्य गुह्यं नाम प्रकीर्त्यते ।
पूर्वेषु षट्सु मासेषु स्नानप्राशनयोस्तिलाः ५

आषाढादिषु मासेषु पञ्चगव्यमुदाहृतम् ।
स्नाने च प्राशने चैव प्रशस्तं पापनाशनम् ६

प्रतिमासं च देवस्य कृत्वा पूजां यथाविधि ।
विप्राय दक्षिणां दद्याच्छ्रद्दधानः स्वशक्तितः ७

पारणान्ते च देवस्य प्रीणनं भक्तिपूर्वकम् ।
क्रुवीत शक्त्या गोविन्दे सद्भावाभ्यर्चनो यतः ८

नक्तं भुञ्जीत च ततस्तैलक्षारविवर्जितं ।
एकादश्यामुषित्वैवं द्वादश्यामथवा दिने ९

एतामुषित्वा धर्मज्ञे प्रीणनं देवतत्परः ।
सर्वकामानवाप्नोति सर्वपापैः प्रमुच्यते १०

यतः सर्वमवाप्नोति यद्यदिच्छति चेतसा ।
ततो लोकेषु विख्याता सम्प्राप्तिद्वादशीति वै ११

कृताभिलषिता ह्येषा प्रारब्धा धर्मतत्परैः ।
पूरयत्यखिलान्कामान्संश्रुता च दिने दिने १२

इति विष्णुधर्मेषु सम्प्राप्तिद्वादशी ।

N/A

References : N/A
Last Updated : February 11, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP