संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ९५

विष्णुधर्माः - अध्याय ९५

विष्णुधर्माः


पञ्चनवतितमोऽध्यायः ।
शतानीक उवाच ।
बहुशो भवता प्रोक्तं साम्प्रतं च यदीरितम् ।
श्रोतुमिच्छामि विप्रेन्द्रतद्विष्णोः परमं पदम् १

यत्स्वरूपं यदाधारं यत्प्रमाणं यदात्मकम् ।
सर्वधातुः पदं तन्मे श्रोतुमिच्छा प्रवर्तते २

शौनक उवाच ।
साध्वेतद्भवता पृष्टं पृष्टमात्मज्ञानसमाश्रितम् ।
तत्कथ्यमानमेकाग्रः शृणु विष्णोः परं पदम् ३

यत्तद्ब्रह्म यतः सर्वं यद्सर्वं सर्वसंस्थितिः ।
अग्राह्यकमनिर्देश्यं तदेव भगवत्पदम् ४

तत्स्वरूपं च राजेन्द्रशृणुष्वेह समाहितः ।
विष्णोः पदस्याव्ययस्य ब्रह्मणो गदतो मम ५

प्रधानादिविशेषान्तं यदेतत्पठ्यते जगत् ।
चराचरस्य तस्याद्यं परं ब्रह्म विलक्षणम् ६

जन्मस्वप्नादिरूपादिदुःखादिरहितं च यत् ।
नोपचर्यमनिर्देश्यं स्वप्रतिष्ठं च तत्परम् ७

क्षीणक्लेशास्तु संसारविमुक्तिपथमाश्रिताः ।
योगिनस्तत्प्रपश्यन्ति समर्था नैव चोदितुम् ८

तत्सर्वं सर्वभावस्थं विशेषेण विवर्जितम् ।
पश्यतामप्यनिर्देश्यं यतो वाग्विषये न तत् ९

कुर्वन्त्यालम्बनत्वेन यत्प्राप्त्यर्थं च देवताः ।
ब्रह्म प्रकाशते तेषां तद्वरेणैव सर्वगम् १०

प्रधानादिविशेषान्तं यत्रैतदखिलं जगत् ।
तस्यानन्तस्य कः शक्तः प्रमाणं गदितुं नरः ११

सूक्ष्माणां तत्परं सूक्ष्मं स्थूलानां तन्महत्तरम् ।
सर्वव्याप्यपि राजेन्द्रदूरस्थं चान्तिके च तत् १२

पराङ्मुखानां गोविन्दे विषयाक्रान्तचेतसाम् ।
तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् १३

न प्राप्नुवन्ति गच्छन्तो यतो जन्मायुतैरपि ।
संसाराध्वनि राजेन्द्रततो दूरतरे हि तत् १४

तन्मयत्वेन गोविन्दे य नरा न्यस्तचेतसः ।
विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके १५

सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति १६

सर्वेन्द्रियगुनाभासं सर्वेन्द्रियविवर्जितम् ।
असक्तं सर्वभृच्चैनन्निर्गुणं गुणभोक्तृ च १७

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च १८

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्यधिष्ठितम् १९

तच्चाद्यो जगतामीशः परेशः परमेश्वरः ।
परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः २०

यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम् ।
केचिद्विष्णुं हरिं केचित्केचित्केशवसञ्ज्ञितम् २१

केचिद्गोविन्दनामानं पुण्डरीकाक्षमच्युतम् ।
केचिज्जनार्दनं त्वन्ये वदन्ति पुरुषोत्तमम् २२

केचिद्विरिञ्चिं ब्राह्मणमब्जयोनिं तथापरे ।
शर्वमीशमजं रुद्रंशूलिनं चापरे नृप २३

वरुणं केचिदादित्यमिन्द्रमग्निमथापरे ।
यमं धनेशमपरे सोममन्ये प्रजापतिम् २४

हिरण्यगर्भं कपिलं क्षेत्रज्ञं कालमीश्वरम् ।
स्वभावमन्तरात्मानमात्मानं बुद्धिरूपिणम् ।
वदन्ति नामभिश्चान्यैरनामानमरूपिणम् २५

श्रूयतां तु नरव्याघ्र वेदवेदान्तनिश्चयः ।
यज्ञेशो यज्ञपुरुषो पुण्डरीकाक्षसञ्ज्ञितः २६

तद्विष्णोः परमं ब्रह्म यतो नावर्तते पुनः ।
स एव रुद्रश्चन्द्रोऽग्निः सूर्यो वैश्रवणो यमः २७

ब्रह्मा प्रजापतिः कालः स्वभावो बुद्धिरेव च ।
क्षेत्रज्ञाख्यस्तथैवान्याः सञ्ज्ञाभिः प्रोच्यते बुधैः २८

सञ्ज्ञा तु तस्य नैवास्ति न रूपं नापि कल्पना ।
स सर्वभूतानुगतः परमात्मा सनातनः २९

इति विष्णुधर्मेषु परमपदाख्यानम् ।

N/A

References : N/A
Last Updated : February 28, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP