संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्माः|
अध्याय ६६

विष्णुधर्माः - अध्याय ६६

विष्णुधर्माः


अथ षट्षष्टितमोऽध्यायः ।
शतानीक उवाच ।
जगद्धातुरनन्तस्य वासुदेवस्य भार्गव ।
ममावतारानखिलाञ्श्रोतुमिच्छा प्रवर्तते १

यथा यथा हि कृष्णस्य कथेयं कथ्यते त्वया ।
जायते मनसः प्रीतिरुद्भूतपुलकस्तथा २

मनःप्रीतिरनायासादपुण्यचयसङ्क्षयः ।
प्राप्यते पुरुषैर्ब्रह्मञ्शृण्वद्भिर्भगवत्कथाम् ३

स कुरुष्वामलमते प्रसादप्रवणं मनः ।
अवतारान्सुरेशस्य विष्णोरिच्छामि वेदितुम् ४

शौनक उवाच ।
जगद्गुरुं जगद्योनिमनन्तमुदकेशयम् ।
नारायणं पुराकल्पे पृष्टवान्कमलोद्भवः ५

विनिर्जग्मुर्मुखेभ्यस्तु ब्रह्मणो व्यक्तजन्मनः ।
ॐकारप्रवणा वेदा जग्मुस्ते च रसातलम् ६

एकार्णवे जगत्यस्मिन्ब्रह्मण्यमिततेजसि ।
कृष्णनाभिह्रदोद्भूतकमलोदरशायिनि ७

भोगिशय्याशयः कृष्णो द्वितीयान्तनुमात्मनः ।
कृत्वा मीनमयीं सद्यः प्रविवेश रसातलम् ८

वेदमूर्तिस्ततो वेदानानिन्ये ब्रह्मणोऽन्तिकम् ।
मधुकैटभाभ्यां च पुनर्भोगिशय्यागतो हरिः ।
हृतान्हयशिरा भूत्वा वेदानाहृतवान्रसात् ९

आहृतेष्वथ वेदेषु देवदेवं पितामहः ।
तुष्टाव प्रणतो भक्त्या तस्य चाविर्बभौ हरिः १०

अथामरगुरुं विष्णुमनन्तमजमव्ययम् ।
उवाच प्रकटीभूतं प्रणिपत्याब्जसम्भवः ११

ब्रह्मोवाच ।
नमः सूक्ष्मातिसूक्ष्माय नमस्तुभ्यं त्रिमूर्तये ।
बहुरूपादिमध्यान्त परिणामविवर्जित १२

जगदीशस्य सर्वस्य जगतः सर्वकामद ।
अहमात्मभवो देव त्वयाध्यक्षो निरूपितः १३

सोऽहमिच्छामि तं ज्ञातुमात्मानं प्रभवाव्ययम् ।
विश्वस्य च विरूपस्य स्थावरस्य चरस्य च १४

यदि तेऽनुग्रहकृता मयि बुद्धिर्जनार्दन ।
तन्मां भक्त इति ज्ञात्वा कथयात्मानमच्युत १५

भगवानुवाच ।
कथयामि तवात्मानमनाख्यागोदरं परम् ।
न वाचां विषये योऽसावविशेषणलक्षणः १६

प्रसादसुमुखः सोऽहमिमं यच्छामि ते वरम् ।
अनाख्यातस्वरूपं मां भवाञ्ज्ञास्यति योगतः १७

भक्तो मां तत्त्वतो वेत्ति मयि भक्तिश्च ते परा ।
मज्जिज्ञासा परा ब्रह्मंस्तेन जाता मतिस्तव १८

एवमुक्तस्ततो ब्रह्मा विष्णुना प्रभविष्णुना ।
विष्णोः स्वरूपं जिज्ञासुर्युयोजात्मानमात्मना ११

स ददर्शातिसूक्ष्मं च सूक्ष्मज्योतिष्यजं विभुम् ।
नियुतार्धार्धमात्रेण व्याप्ताशेषचराचरम् २०

आत्मानमिन्द्ररुद्रार्कचन्द्राश्विवसुमारुतान् ।
खादीन्यथ च शब्दादीन्ददृशे च स तन्मयान् २१

ये व्यक्ता ये तथाव्यक्ता भावा ये चापि पौरुषाः ।
तांश्च तत्रातिसूक्ष्मोऽपि दृष्टवानखिलान्विभुः २२

ततः प्रणम्य देवेशमजमार्तिहरं हरिम् ।
पितामहः प्रह्वतनुर्वाक्यमेतदुवाच ह २३

ज्ञातं स्वरूपमज्ञातस्वरूप भगवंस्तव ।
मया न यद्वाग्विषये तत्रस्थं चाखिलं जगत् २४

धन्योऽस्म्यनुगृहीतोऽस्मि स्वरूपं यन्मया तव ।
भगवञ्ज्ञातमज्ञातमनन्ताज नमोऽस्तु ते २५

यदि प्रसादं देव त्वं प्रकरोषि ममापरम् ।
परमं चावतारेषु यद्रूपं तद्वदस्व मे २६

केषु केषु मया ज्ञेयः स्थानेषु त्वमधोक्षज ।
सम्भूतयो ममाचक्ष्व या भविष्यन्ति ते भुवि २७

देवलोके नृलोके वा पाताले खेऽन्यतोऽपि वा ।
सम्भूतयो यास्तु भवान्करिष्यति वदस्व ताः २८

त्वं कर्ता सर्वभूतानां संहर्ता चेश्वरेश्वरः ।
तवापि कर्ता नान्योऽस्ति स्वेच्छया क्रीडते भवान् ।
अहं वेद्मि भवन्तं हि न तवान्योऽस्ति वेदिता २९

भगवानुवाच ।
यन्मां त्वं पृच्छसि ब्रह्मनवताराश्रितं परम् ।
तत्ते सम्यक् प्रवक्ष्यामि निबोध मम सुव्रत ३०

मम प्रकृत्या संयोगः स्वेच्छया सम्प्रवर्तते ।
देवेषु नॄषु तिर्यक्षु स्थावरेषु चरेषु च ।
ममावताराः कार्यार्थं जगतश्चोपकारिणः ३१

यदा यदा हि धर्मस्य ग्लानिः समुपजायते ।
अभ्युत्थानमधर्मस्य तदात्माङ्गं सृजाम्यहम् ३२

परित्राणाय साधूनां विनाशाय च दुष्कृतां ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ३३

पूर्वोत्पन्नेषु भूतेषु नृदेवादिषु चाप्यहम् ।
अनुप्रविश्य धर्मस्य करोमि परिपालनम् ३४

प्रविश्य च तथा पूर्वं तनुं धर्मभृतां वर ।
जगतोऽस्य जगत्सृष्टिं करोमि स्थितिपालनम् ३५

देवत्वे देविका चेष्टा तिर्यक्त्वे मम तामसी ।
इच्छया मानुषत्वे च विचरामि नृचेष्टया ३६

प्रतिक्षणं च भूतेषु सृजामि जगतः स्थितिम् ।
करोमि विद्यमानेषु धर्मसंस्थापनेषु च ३७

यद्वै धर्मोपकाराय यच्च दुष्टनिवर्हणम् ।
चरितं मानुषादीनां तद्वै जानीहि मत्कृतम् ३८

यच्च पृच्छसि मां ब्रह्मन्काः काः सम्भूतयस्तव ।
ताः शृणुष्व समासेन या भविष्यन्ति साम्प्रतम् ३९

मत्स्येन भूत्वा पातालात्तव वेदाः समुद्धृताः ।
मधुकैटभाभ्यां च हृता दत्ताश्वशिरसा मया ४०

त्वमप्यत्र महाभाग मदंशः कमलोदरात् ।
मन्नाभिसम्भवाज्जातः प्रजासृष्टिकरः परः ४१

एकार्णवं च यदिदं ब्रह्मन्पश्यस्यशेषतः ।
अस्मिन्वसुमतीं देवीं मग्नां पातालमागताम् ४२

वेदपादो यूपदंष्ट्रः क्रतुदन्तश्चितीमुखः ।
अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ४३

अहोरात्रेक्षणधरो वेदाङ्गश्रुतिभूषणः ।
आज्यनासः श्रुवस्तुण्डः सामघोषस्वरो महान् ४४

प्राग्वंशकायो द्युतिमान्नानादीक्षाभिराचितः ।
दक्षिणाहृदयो योगी महासत्त्रमयो महान् ४५

उपकर्मेष्टिरुचिरः प्रवर्गावर्तभूषणः ।
नानाच्छन्दोगतिपथो ब्रह्मोक्तिकर्मविक्रमः ४६

भूत्वा यज्ञवराहोऽहमिति ब्रह्मन्रसातलात् ।
पृथिवीमुद्धरिष्यामि स्थापयैष्यामि च स्थितौ ४७

पर्वतानां नदीनां च द्वीपादीनां च या स्थितिः ।
तां च तद्वत्करिष्यामि शैलादीनामनुक्रमात् ४८

हिरण्याक्षं च दुर्वृत्तं कश्यपस्यात्मसम्भवम् ।
तेनैव घातयिष्यामि रूपेणाहं प्रजापते ४९

उत्पाद्य पृथिवीं सम्यक् स्थापयित्वा यथा पुरा ।
सृष्टिं ततः करिष्यामि त्वामाविश्य प्रजापतिम् ५०

जानासि कापिलं रूपं प्रथमं पौरुषं मम ।
सर्वविद्याप्रणेतारं त्वया वेदेषु दर्शितम् ।
रविमण्डलमध्यस्थमग्नेर्यत्परमं पदम् ।
तत उत्सृज्य रूपाणि अमरादिविभेदतः ।
व्यापयिष्यामि लोकांस्तु भूलोकादीमशेषतः ५१

सृष्टं जगदिदं देवमानुष्यादिविशेषणम् ।
हिरण्यकशिपुर्दैत्यस्तापयिष्यति विक्रमात् ५२

व्यंसयित्वा वरांस्तस्य तैस्तैर्हेतुभिरात्मवान् ।
नृसिंहरूपं कृत्वाहं घातयिष्यामि तं रिपुम् ५३

क्षीराब्दौ कूर्मरूपोऽहं देवानां कमलोद्भव ।
मन्दरं धारयिष्यामि पृष्ठेनामृतमन्थने ५४

हरिष्यति च देवानां यज्ञभागान्यदा बलिः ।
तदाहं वामनो भूत्वा गत्वा तस्य महाध्वरम् ५५

वञ्चयित्वासुरपतिं करिष्यामि त्रिपिष्टपम् ।
बलिं चापि करिष्यामि पातालतलवासिनम् ५६

अत्रेर्दत्त्वा वरं चैव तस्य पुत्रत्वमागतः ।
दत्तात्रेयो भविष्यामि निहंस्यामि तथासुरान् ५७

सत्त्वानामुपकाराय प्रधानपुरुषान्तरम् ।
दर्शयिष्यामि लोकेषु कापिलं रूपमास्थितः ५८

कार्तवीर्यादिभिश्चान्यैश्चतुर्दशभिरन्विताः ।
भविष्यन्ति मदंशेन त्रेतायां चक्रवर्तिनः ५९

ततश्च भार्गवो रामो गृहीतपरशुर्द्विजः ।
भूत्वा क्षत्रियहीनां च करिष्यामि वसुन्धराम् ६०

पुनश्च राघवो रामो भूत्वा दशरथात्मजः ।
बद्ध्वा महोदधिं कर्ता राक्षसानां कुलक्षयम् ६१

उत्तीर्य च परं पारं लकामासाद्य दुर्जयाम् ।
निहत्य रावणं वीरं वरदानेन दर्पितम् ।
मायाविनां महावीर्यं रक्षसां वनशायिनाम् ।
लक्ष्मणानुचरो रामः करिष्यामि कुलक्षयम् ।
अष्टाविंशतिमे प्राप्ते द्वापरे कंसमुच्छ्रितम् ।
केशिनं धेनुकं चैव शकुनिं पूतनां तथा ।
अरिष्टं च हनिष्यामि मुरुं नरकमेव च ६२

निशुम्भं सहयग्रीवं तथान्यांश्चासुरेश्वरान् ।
हनिष्यामि सुदुर्वृत्तांल्लोकानां हितकाम्यया ६३

प्रवर्षति स देवेन्द्रेमहोभङ्गविरोधिते ।
गोवर्धनं गिरिवरं धारयिष्यामि बाहुना ६४

भाराक्रान्तामिमामुर्वीं धनञ्जयसहायवान् ।
घातयित्वाखिलान्भूपांल्लघ्वीं कर्तास्मि सत्तम ६५

प्राप्ते कलियुगे कृत्स्नमुपसंहृत्य वै कुलम् ।
द्वारकां प्लावयिष्यामि उत्स्रक्ष्यामि मनुष्यताम् ६६

द्वितीयो यो ममांशस्तु रामोऽनन्तः स लाङ्गली ।
सोऽपि सन्त्यज्य वसुधां रसातलमुपेष्यति ६७

ततः कलियुगे घोरे सम्प्राप्तेऽब्जसमुद्भव ।
शुद्धोदनसुतो बुद्धो भविष्यामि विमत्सरः ६८

बौद्धं धर्ममुपाश्रित्य करिष्ये धर्मदेशनाम् ।
नराणामथ नारीणां दयां भूतेषु दर्शयन् ६९

रक्ताम्बरा ह्याञ्जिताक्षाः प्रशान्तमनसस्ततः ।
शूद्राधर्मं प्रवक्ष्यन्ति मयि बुद्धत्वमागते ७०

एडूकचिह्ना पृथिवी न देवगृहभूषिता ।
भवित्री प्रायशो ब्रह्मन्मयि बुद्धत्वमागते ७१

स्कन्धदर्शनमात्रं हि पश्यन्तः सकलं जगत् ।
शूद्राः! शूद्रेषु दास्यन्ति मयि बुद्धत्वमागते ७२

अल्पायुषस्ततो मर्त्या मोहोपहतचेतसः ।
नरकार्हाणि कर्माणि करिष्यन्ति प्रजापते ७३

स्वाध्यायेष्ववसीदन्तो ब्राह्मणाः शौचवर्जिताः ।
अन्त्यप्रतिग्रहादानं करिष्यन्त्यल्पमेधसः ७४

न श्रोष्यन्ति पितुः पुत्राः श्वश्रूश्वशुरयोः स्नुषाः ।
न भार्या भर्तुरीशस्य न भृत्या विनयस्थिताः ७५

वर्णसङ्करतां प्राप्ते लोकेऽस्मिन्दस्युतां गते ।
ब्राह्मणादिषु वर्णेषु भविष्यत्यधरोत्तरम् ७६

धर्मकञ्चुकसंवीता विधर्मरुचयस्तथा ।
मानुषान्भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ७७

ततः कलियुगस्यान्ते वेदो वाजसनेयकः ।
दश पञ्च च वै शाखाः प्रमाणेन भविष्यति ७८

ततोऽहं सम्भविष्यामि ब्राह्मणो हरिपिङ्गलः ।
कल्की विष्णुयशःपुत्रो याज्ञवल्क्यपुरोहितः ७९

म्लेच्छानुत्सादयिष्यामि गृहीतास्त्रः कुशायुधः ।
स्थापयिष्यामि मर्यादाश्चातुर्वर्ण्ये यथोदिताः ८०

तथाश्रमेषु सर्वेषु ब्रह्मचारिव्रतादिकाः ।
स्थापयित्वा ततः सर्वाः प्रजाः सद्धर्मवर्त्मनि ।
कल्किरूपं परित्यज्य दिवमेष्याम्यहं पुनः ८१

ततः कृतयुगं भूयः पूर्ववत्सम्प्रवर्त्स्यते ।
वर्णाश्रमाश्च धर्मेषु द्वेषु स्थास्यन्ति सत्तम ८२

एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ।
ममावताराः शतशो ये भवन्ति जगद्धिताः ८३

सङ्कर्षणात्मजश्चैव कल्पान्ते च रसातला ।
समुत्पत्स्येत्तदा रुद्रः! कालाग्निरिति यः श्रुतः ८४

ततः क्षयं करिष्यामि जगत्स्थावरजङ्गमम् ।
भूयश्चैव हि स्वप्स्यामि जगत्येकार्णवे स्थिते ।
त्वद्रूपी च ततो भूत्वा जगत्स्रक्ष्याम्यहं पुनः ८५

एतत्सङ्क्षेपतो ब्रह्मन्मयाख्यातं यथातथम् ।
अंशावतरणं सर्वं मत्तः सङ्क्षेपतः शृणु ८६

यद्दृश्यं यच्च वै स्पृश्यं यद्घ्रेयं रस्यते च यत् ।
यच्छ्रव्यं यच्च मन्तव्यं बोधव्यं चाहमंशगः ८७

यत्तु बुद्धेः परतरमनाख्येयमनोपमम् ।
तदहं ब्रह्म निर्द्वन्द्वं यद्वै पश्यन्ति सूरयः ८८

इदं जन्मरहस्यं मे यो नरः कीर्तयिष्यति ।
सुलभोऽहं भविष्यामि तस्य जन्मनि जन्मनि ८९

पठन्नेतद्ब्रह्महा तु सुरापो गुरुतल्पगः ।
स्तेयी कृतघ्नो गोघ्नश्च सर्वपापैः प्रमुच्यते ९०

गर्भिणी जनयेत्पुत्रं कन्या विन्दति सत्पतिम् ।
लभन्तेऽभिमतान्कामान्नरास्तांस्तान्यथेप्सितान् ९१

शौनक उवाच ।
इति देवातिदेवेन ब्रह्मणो व्यक्तजन्मनः ।
रहस्यमिदमाख्यातं तवापि कथितं मया ९२

विष्णुः सर्वगतोऽनन्तः सर्वं तत्र प्रतिष्ठितम् ।
स च सर्वमिदं राजन्न ततो विद्यते परम् ९३

एतत्पवित्रं पठितं तथा दुःस्वप्ननाशनम् ।
जातिस्मरत्वं प्रज्ञां च ददाति पठतां नृणाम् ९४

इति विष्णुधर्मेषु जन्मरहस्यम् ।

N/A

References : N/A
Last Updated : February 22, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP