संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ५९

सौरपुराणं - अध्यायः ५९

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
अथाऽऽयान्तं शिवं दृष्ट्वा हिमवान्पर्वतेश्वरः ।
मेरुश्चैव यथासंख्यै रविचन्द्रदिवाकरैः ॥१॥
तथा देवैः स वधाद्यैर्बृतं छत्रेण संयुतम् ।
जयेत्युक्त्वा नगेन्द्रस्तु ह्यात्तमाल्याम्बरस्तदा ॥२॥
उत्थितः सहसा विप्राः पुष्पहस्तो महेश्वरः ।
मुदा परमया युक्तो भक्त्या चानन्यया द्विजाः ॥३॥
वस्त्रैर्नानाविधैश्चक्रे मार्गभूषां तदा गिरिः ।
पताकाभिर्जयन्तीभिः स्रग्दमैर्दिव्यगन्धिभिः ॥४॥
ध्वजैश्च विविधाकारैः पञ्चवर्णैर्मनोरमैः ।
चामरैश्चन्द्ररम्यैस्तु लम्बकैश्च समन्ततः ॥५॥
मुक्तानां प्रकरैश्चैव पुष्पाणां तु तथैव च
एवमाद्यैरनेकैश्च शोभां कृत्वा नगोत्तमः ॥६॥
स्थितस्तु वीक्षमाणोऽसौ विश्वव्यापिनमीश्वरम् ।
संपूर्णचन्द्रवदना मदनानलदीपिताः ॥७॥
शतकोट्योऽप्सराणां तु निर्युयुः संमुखाश्च तम् ।
हेमपात्रकरासक्ताः पद्मेन्दीवरहस्तकाः ॥८॥
मणिपात्राणि षूर्णानि दूर्वासिद्धार्थकाङ्क्षितैः ।
दधिरोचनमादाय ब्रीहिभिश्चम्पकैर्यवैः ॥९॥
हरिचन्दनलिप्ताङ्गा हरिचन्दनहस्तकाः ।
विद्रुमाङ्कुरहस्ताश्च तथैवोत्पलशेखराः ॥१०॥
X ( कझसंज्ञितपुस्तकयोरिदं श्लोकार्धं नास्ति । )
X चूतमञ्जरिहस्ताश्च पारिजातकराः पराः ।
स्वादूदकेन संपूर्णभृङ्गारकरपल्लवाः ॥११॥
हावभावविलासिन्यो मदनातुरविह्वलाः ।
मदनारिं प्रणेमुस्ता गायगानास्त्रिलोचनम् ॥१२॥
अथासौ भगवाञ्शूली चान्तर्यामी गहेश्वरः ।
त्रैलोक्यतिलके तस्मिन्क्षणादाविर्बभूव ह ॥१३॥
ततो धनैर्बहुविधैः पूजयामास पर्वतः ।
स्तुत्वा च पूजयित्वा च ननाम च पुनः पुनः ॥१४॥
गीतैश्न विविधैर्वाक्यैः प्रविवेश हरस्तदा ।
भवोऽभवत्तदा बालो द्व्यष्टवर्षाकृतिः स्वयम् ॥१५॥
हेमाङ्गो भगवाञ्शंभुः किरीटी कुण्डली हरः ।
सुरासुराश्च विप्रेन्द्रा दृष्ट्वा रूपं पिनाकिनः ॥१६॥
अवलोक्य मुखाऽभ्योन्यं जहसुस्ते मुदाऽन्विताः ।
आसने हेमजे विप्रा नानारत्नैश्च भूषिते ॥१७॥
विवेश भगवाञ्शूली महादेवो जगत्पतिः ।
हरस्य दक्षिणे वेधा वामभागे जनार्दनः ॥१८॥
शैलादिरग्रतः शंभोः कालरुद्रश्च सुव्रताः ।
रुद्रैर्गणेश्वरैर्देवैः सिद्धैश्च मुनिभिस्तथा ॥१९॥
उपविष्टेषु सर्वेषु गन्धर्वाद्याः समन्ततः ।
जगुर्गीतं च हिन्दोलं त्म्बरुर्नारदादयः ॥२०॥
मत्तमातङ्गगामिन्यो गेयं ताललयान्वितम् ।
रम्भाद्यप्सरसः सर्वाः किंनर्यो ननृतुर्द्विजाः ॥२१॥
वीणावल्लकिवेणूनां मृदङ्गानां विशेषतः ।
ध्वनिर्भिर्मनस्तस्तुष्टिर्जज्ञे सुमनसां तदा ॥२२॥
अथ विश्वेश्वरः शंभुर्भूषणं नभसि स्थितम् ।
प्रायच्छद्गिरिजायै तदाह्लादजनकं मुदा ॥२३॥
अनेनालंकृता देवि मम योग्या भविष्यसि ।
पितुर्दक्षस्य यः कोपः पूर्वजस्य वरानने ॥२४॥
प्रहास्यसि तमेवाऽऽशु भावं चैव तु तामसम् ।
ततः सा पार्वती देवी गृहीत्वाऽऽकाशमण्डलात् ॥२५॥
पितुः समीपमगमद्वस्त्राभरणमुत्तमम् ।
महता ह्युत्सवेनाऽऽशु भूषयित्वा शिवां नगः ॥२६॥
वस्त्रैराभरणैर्देवीं दिव्यैर्वै सिंहवाहिनीम् ।
मेनोत्सङ्गगतां भूयश्चन्द्रलेखेव तोयदे ॥२७॥
दधती निर्वृता देवी वभौ तामरसेक्षणा ।
अथ देवैः परिवृतो विष्ण्वाद्यैस्त्रिपुरान्तकः ॥२८॥
बभ्राम मुनिशार्दूलाः क्रीडास्थानानि कृत्स्नशः ।
भगवन्देवदेवेश विश्वेशान्धकसूदन ॥२९॥
प्रणम्यपरया भक्त्या शैलादिरिदमब्रवीत् ॥३०॥
नन्दिकेश्वर उवाच -
वेदीयमिन्द्रनीलाभा भाति विश्वंभरा शिव ।
सेयं जलमयी नाथ निर्मिता विश्वकर्मणा ॥३१॥
या चेयं परमा रम्या तोयानां भ्रान्तिकारिणी ।
सेयं भाति महादेव रत्नानामीदृशी प्रभा ॥३२॥
= ( ङचछसंज्ञितपुस्तकेष्वयं श्लोको नास्ति । )
= इदं च द्वारसंस्थानं दृश्यते लम्बकैर्वृतम् ।
कुड्यस्य रत्नविन्यासे लक्ष्यते द्वाररूपता ॥३३॥
इदं चित्ररथाकारं दृश्यते वनमुत्तमम् ।
प्रतिविम्बं महादेव रत्नभूमेर्न संशयः ॥३४॥
इदं च मन्दिराकारं सोपानचयमण्डितम् ।
प्रतिबिम्बमिदं चैव दृश्यते नवमण्डितम् ॥३५॥
या चेयं सागराकारा दृश्यते तोयरूपिणी ।
एषाऽपि परमेशान रत्नभूमिर्जलोषिता ॥३६॥
यदिदं गगनाभासं मूर्तिद्रव्यैरिवोर्जितम् ।
क्रीडामण्डपमेतस्गिन्प्रदेशे देव तिष्ठति ॥३७॥
अन्बराभैर्महारत्नैर्वाह्यदेशे विनिर्मितम् ।
अनेकवाद्यसंयुक्तं रमणीयं ययौ हरः ॥३८॥
एवं क्रीडति देवेशे सुरासुरमहोरगाः ।
विद्याधरास्तथा यक्षा गन्धर्वाप्सरसादयः ॥३९॥
दीर्घिकासु तडागेषु नदीषु च हृदेषु च ।
क्रीडावापीषु ते रम्यैर्यन्त्रैर्नानाविधैर्भृशम् ॥४०॥
बभूवृर्देवताः सर्वाः क्रीडारतिषु लालसाः ।
अथ संक्रीड्य विश्वात्मा निवृत्तस्तत्प्रदेशतः ।
वेद्याः सगीपमगमत्स्तूयमानो मुनीश्वरैः ॥४१॥
प्राप्याऽऽरुरोह प्रसभं सुरेशस्तदिन्द्रनीलामलवेदिकान्तम् ।
सहस्रपत्रैर्बकुलैश्च नागैः कीर्णं हि यत्काञ्चनपारिजातैः ॥४२॥
ततः प्रविष्टो हरिआण्ङ्कचिह्नः सरश्मिजालाकुलवेदिकान्तम् ।
विवेश सूर्यासुतसुप्रभासो वृतो विरञ्च्यादिसुरैः समन्तात् ॥४३॥
अधोपविष्टं संवीक्ष्य विश्वेशं पर्वतेश्वरः ।
तस्य संस्थाप्य पुरतो देवेशीमब्रवीदिदम् ॥४४॥
हिमवानुवाच - त्वमेवैकः परं धाम अर्धनारीश्वरस्ततः ।
देवतानां हितार्थाय जातो ह्यर्धतनुः पृथक् ॥४५॥
दक्षस्य दुहिता देवी जगद्धात्री ह्युमा सती ।
विनिन्द्य च ततो दक्षं त्यक्त्वा देहं निजं पुनः ॥४६॥
तवैव पत्नी देवेश जाता मम सुता सती ।
ततः श्रुत्वा गिरीन्द्रस्य वचस्त्रिभुवनेश्वरः ।
प्रसन्नो वरदः शंभुरब्रवीत्पर्वतेश्वरम् ॥४७॥
ईश्वर उवाच -
जानाम्यहं येन ममैव माया शक्तिर्वरैषा नगराजसिंह ।
संत्यज्य देहं तव धाम्नि जाता योगात्स्वयं चारुशशाङ्कवक्त्रा ॥४८॥
आचारार्थं गिरिश्रेष्ठ दत्तां गृह्णामि पार्वतीम् ।
अदत्तां यदि गृह्णामि तथा लोकेऽपि वर्तते ( वर्तेत वै जनः ) ॥४९॥
अथ दिव्योदकैः पूर्णमादाय कलशं गिरिः ।
परिपूर्णस्य नित्यनुग्रहकारिणः ॥५०॥
प्रक्षाल्य पादौ शिरसा प्रणम्य भृङ्गारमादाय स शलराजः ।
मुमोचं तोबं भवपाणिपद्मे दत्तेति दत्तेति तदा प्रजल्पन् ॥५१॥
ततो मङ्गलनिर्घोषः समभूत्त्रिदिवौकसाम् ।
वीआण्वेणुमृदङ्गानां काहलानां च निःस्वनः ॥५२॥
सा हारकण्ठीं कटिसूत्रदामा सुभ्रूलता चारुविलोलनेत्रा ।
मेरोर्यथैवोपरि चन्द्रलेखा तथा बभौ पर्वतराजपुत्री ॥५३॥
अथ वेदां गतो ब्रह्मा विश्वमायां स्मरारणिम् ।
ददर्शोदकपात्रेण विभावसुपुरस्थितः ॥५४॥
माहेश्वरीं काममयीं दृष्ट्वा तां तु पितामहः ।
अक्षरत्सहसा शुक्रं भग्नकुम्भादिमोदकम् ॥५५॥
पादेन तन्ममर्दाऽऽशु शुक्रं तत्पद्मसंभवः ।
पद्मजोऽपि महातेजा देवदेवस्य पश्यतः ॥५६॥
मैवं मर्देति तं दृष्ट्वा त्रिपुरारिः पितागहम् ।
कुरुष्वे ( जुहुधी ) तीति होवाच भगवान्नीललोहितः ॥५७॥
अमोघं तत्तदा विप्राः शुक्रमग्नौ प्रजापतिः ।
जुहोति व ( अजुहोद्व ) चनाच्छंभोर्वामनोऽऽदाय पाणिना ॥५८॥
हवनाच्च ततः प्राप्ताः सवितारं वियद्गतम् ।
तेजोमयाश्च ते सर्वे तपोनिष्ठाः समन्ततः ॥५९॥
अष्टाशीतिः सहस्राणि मुनयस्तूर्ध्वरेतसः ।
माने त्वङ्गुष्ठमात्रास्तु जाता ह्यथ सुवर्चसः ॥६०॥
बभूवुस्ते महात्मानः पतङ्गसहचारिणः ।
निस्पृहा रश्मिपाः सर्वे सर्वे ज्वलनसंनिभाः ॥६१॥
ततो देवाः सगन्धर्वाः सिद्धाश्च मुनयस्तथा ।
पिशाचा दानवा दैत्याः किंनराश्च महोरगाः ॥६२॥
विद्याधराश्चप्सरसस्तथा चान्ये सुरासुराः ।
प्रहृष्टाः सर्वे एवैते पार्वत्या हरसंगमात् ॥६३॥
मुमोच वृष्टिं ऋतुराट्सुतुष्टः पुष्पैरनेकैर्भ्रमराकुलैश्च ।
वाद्यैर्विचित्रैर्वरशङ्खनादैः सुगीतगानैर्वरमङ्गलैश्च ॥६४॥
वीणारवैर्दुन्दुभिवेणुनादैः समन्ततः कर्णसुखं प्रजज्ञे ।
आनृत्यतीभिः सुरसुन्दरीभिर्जेगीयतीभिर्वरकिंनरीभिः ॥६५॥
दैत्याङ्गनाभिश्च वसीदतीभिः कामायतेऽतीव तदुत्सवं च(वश्च) ।
काञ्चीरवेणाथ नितम्बिनीनां मनोभिरामेण च नूपुराणाम् ॥६६॥
तासां स्तितेनाथ मुनीन्द्रवर्या बभूव कामानलदीपचर्या ।
होमावसाने मधुपर्कयुक्तं देवाय तस्मै मधुभाजनं च ॥६७॥
ततो निवेद्य प्रमथाधिपाय चकार तुष्टिं परमां विरञ्चिः ॥६८॥
अथ देवेषु विश्वेशो वरदोऽभूद्द्विजोत्तमाः ।
वरांश्च विविधान्दत्त्वा ब्रह्मादिभ्यो महेश्वरः ॥६९॥
व्यसजंयत्ततः सर्वान्स्थावराञ्जङमांस्तथा ।
विसर्जिताः प्रणम्येशं प्रीतिं ते परमां गताः ॥७०॥
एवं संक्षेपतो विप्रा विवाहो गिरिजापतेः ।
कथितो रविणा पूर्वं यथावत्समुदीरितः ॥७१॥
शृणोति श्रद्धया यस्तु पठेद्वा प्रयतात्मवान् ।
सर्वान्कामानवाप्नोति वर्षादर्वाङ्न संशयः ॥७२॥
सर्वपापविनिर्मुक्तस्तेजस्वी प्रियदर्शनः ।
जीवेद्वर्षशतं साग्रं गच्छेद्ब्रह्मपदं ततः ॥७३॥३२७८॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे साम्बविवाहवर्णनंनामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP