संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४६

सौरपुराणं - अध्यायः ४६

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
वक्ष्यामि शिवमाहात्म्यं शृणुध्वं मुनिपुंगवाः ।
बहुभिर्बहुधा शास्त्रैः कीर्तितं मुनिपुंगवैः ॥१॥
सदसद्रूपमित्याहुः सदसच्चापि संस्थितम् ।
तं शिवं मुनयः केचिद्यं प्रपश्यन्ति सूरयः ॥२॥
भूतभावविकारणे द्वितीयेन सदुच्यते ।
अव्यक्तेन विहीनं स्यादव्यक्तमसदित्यपि ॥३॥
उभे ते शिवरूपेण शिवादन्यन्न विद्यते ।
तयोः पतित्वाच्च शिवः सदसत्पतिरुच्यते ॥४॥
क्षराक्षरात्मकं प्राहुः क्षराक्षरपरं तथा ।
शिवं महेश्वरं केचिन्मुनयस्तत्त्वचिन्तकाः ॥५॥
उत्कमक्षरमव्यक्तं व्यक्ताक्षरमुदाहृतम् ।
रूपे ते शंकरस्यैव तन्नाम्ना परमुच्यते ॥६॥
तयोः परः शिवः शान्तः क्षराक्षरपरो बुधैः ।
उच्यते परमार्थेन महादेवो महेश्वरः ॥७॥
समाष्टिव्यष्टि यद्रूपं समष्टिव्यष्टिकारणम् ।
वदन्ति केचिदाचार्याः शिवं परमकारणम् ॥८॥
समष्टिमाहुरव्यक्तं व्यष्टिं व्यक्तिं मुनीश्वराः ।
रूपे ते गदिते शंभोर्नास्त्यन्यद्वस्तु किंचन ॥९॥
तयोः कारणभावेन शिवो हि परमेश्वरः ।
उच्यते योमशास्त्रज्ञैः समष्टिव्यष्टिकारणम् ॥१०॥
क्षेत्रं क्षेत्रज्ञरूपीति शिवः कैश्चिदुदाहृतः ।
परमात्मा परं ज्योतिर्भगवान्परमेश्वरः ॥११॥
चतुर्विशतितत्त्वानि क्षेत्रशब्देन सूरयः ।
प्राहुः क्षेत्रज्ञशब्देन भोक्तारं परमेश्वरम् ॥१२॥
न किंचिच्च शिवादन्यदिति माहुर्मनीपिणः ।
केचिदेवं प्रशंसन्ति महादेवं मुनीश्वरम् ॥१३॥
वेदार्थतत्त्वविदुषः सम्यक्श्रुत्यनुसारतः ।
प्राणेन प्राणिति ह्यसावपानेन ह्यपानिति ॥१४॥
ब्यानेन व्यानिति तथा चोदानेन ह्युदानिति ।
समानिति समानेन मन्वीति मनसा द्विजाः ॥१५॥
बुद्ध्या विचारयत्येष पर एव महेश्वरः ।
समस्तकरणैर्युक्तो वर्ततेऽसौ यदा तदा ॥१६॥
जाग्रदित्युच्यते सद्भिरन्तर्यामी सनातनः ।
यदाऽन्तःकरणैर्युक्तः स्वेच्छया विचरत्यसौ ॥१७॥
सुप्त इत्युच्यते ह्यात्मा स्वयं तापविवर्जितः ।
न बाह्यकरणैर्युक्तो न चान्तःकरणैस्तथा ॥१८॥
सर्वोपाधिविनिर्मुक्तः पुण्यपापविवर्जितः ।
स स्वरूपे सदा ह्यास्ते सुषुप्त इति गीयते ॥१९॥
स्वप्नान्तं चैव बुद्धान्तं विचरत्येष शंकरः ।
नदीतले यथा मत्स्बो गत्वाऽऽगत्य निवर्तते ॥२०॥
श्येनो वाऽथ सुपर्णो वा श्रान्तः पर्वतकन्दरे ।
शेते संहृत्य पक्षौ च प्रत्यगात्मा हृयं तथा ॥२१॥
जाग्रत्स्वप्नगता भावास्तेषु शान्तो मुहुर्मुहुः ।
संप्रसादं ततः प्राप्य परानन्दमयो भवेत् ॥२२॥
अविद्ययैव सर्वोऽयं व्यवहारः परात्मनः ।
गुणधर्मौ यदि स्यातां सुषुप्तौ रहितः कथग् ॥२३॥
सत्यां निमित्तभूतायामविद्यायां द्विजोत्तमाः ।
बुद्धौ भ्रमन्त्यामात्माऽपि भ्रमतीति जना विदुः ॥२४॥
नित्यः सर्वगतो ह्यात्मा बुद्धिसंनिधिमत्तया ।
यथा यथा भवेद्बुद्धिरात्मा तद्वदिहेष्यते ॥२५॥
विद्याविद्यास्वरूमीति शंकरः कैश्चिदुच्यते ।
धाता विधाता लोकानामादिदेवो महेश्वरः ॥२६॥
भ्रान्तिविद्यापरश्चेति शिवरूपमनुत्तमम् ।
अवाष मनसा सोऽयं केचिदागमवेदिनः ॥२७॥
अर्थेषु बहुरूपेषु विज्ञानं भ्रान्तिरुच्यते ।
आत्माकारेण संवित्तिर्बुद्धिर्विद्येति कीर्त्यते ॥२८॥
विकल्परहितं तत्त्वं परमित्यभिधीयते ।
व्यक्ताब्यक्तज्ञरूपीति शिवः कैचिन्निगद्यते ॥२९॥
धाता च सर्वलोकानां विधाता परमेश्वरः ।
तयोविंशतितत्त्वानि व्यक्तिशब्देन सूरयः ॥३०॥
वदन्ति व्यक्तशब्देन प्रकृतिं च परां तथा ।
कथयन्ति ज्ञशब्देन पुरुषं गुणभोगिनम् ॥३१॥
तत्र यच्छांकरं रूपं नाव्यक्तं न च शंकरात् ।
यो हेतुस्त्रिगुणस्यापि सर्वस्य प्रकृतेः परः ॥३२॥
चतुर्विधश्च त्रिविधः स एव भगवाञ्शिवः ।
स एव सर्वभूतात्मा सर्वभूतभवोद्भवः ॥३३॥
* ( कझसंज्ञितुपुस्तकयोरयं श्लोको न विद्यते । )
* आस्ते सर्वगतो देवो न च सर्वत्र दृश्यते ।
योगिनामपि यो योगी कारणानां च कारणम् ॥३४॥
रुद्राणामपि यो रुद्रो द्रेवतानां च देवता ।
ब्रह्माद्या अपि यं देवं न विदन्ति महेश्वरम् ॥३५॥
यं ज्ञात्वा न पुनर्जन्म मरणं वाऽपि विद्यते ॥३६॥
यदाऽऽपदो देहभृतां भवन्ति प्राणात्ययप्राप्तिकृतस्तदानीम् ।
विहाय देवं जगदेकबन्धुं शिवं न चान्यः षरिहारहेतुः ॥३७॥
आस्ते शिशुर्वरान्सर्वान्सर्वेषां देहिनां सदा (!) ।
देहभृत्कथ्यते तस्मान्निर्गुणोऽपि महेश्वरः ॥३८॥
भूयानत्र गतः कालस्तत्रैकं जन्म गच्छतु ।
जिज्ञास्यतामियं तावन्मुक्तिरेकेन जन्मना ॥३९॥
भक्त्या भागवतः शंभोरिति देवोऽब्रवीद्रविः ।
सकृत्संस्मरणाच्छंभोर्नश्यन्ति क्लेशसंचयाः ॥४०॥
मुक्तिं प्रयाति स्वर्गाप्तिस्तस्य विघ्नोऽनुमीयते ।
तस्मात्तडिल्लतालोलं मानुष्यं प्राप्य दुर्लभम् ॥४१॥
शिवं संपूजयेन्नित्यं भक्त्या ह्यात्मोपलब्धये ।
मोहनिद्राप्रसुप्तेऽस्मिन्पशुपाशशताकुले ॥४२॥
पुरुषाः कृतकृत्यास्ते ये शिवं शरणं गताः ।
पुत्रदारगृहक्षेत्रधनधान्यर्धिमेदिनीम् ॥४३॥
लब्ध्वेमां मा कृथा दर्पं रे रमां क्षणभङ्गुराम् ।
त्यक्त्वा क्रोधं च कामं च लोभं मोहं मदं तथा ॥४४॥
जना यजध्वमीशानं समीहितफलप्रदग् ।
यावन्नाभ्येति मरणं यावन्नाभ्येति वै जरा ॥४५॥
यावन्नेन्द्रियवैकल्यं तावदेवार्चयेश्वरम् ।
ये यजन्ति न देवेशं विषयासवमोहिताः ॥४६॥
शोचन्ते हि मृताः षङ्कलग्ना वनगजा इव ।
कालः संनिहितापायः संपदः पदमापदाम् ॥४७॥
समागमाः सापगमाः सर्वमुत्पादितं गुरु ।
यजन्ति ये विदित्वैबं लिङ्गपूर्तिमहेश्वरम् ॥४८॥
लभन्ते विपुलान्कामानिह चामुत्र चाक्षयान् ।
आराधयध्वं विप्रेन्द्राः सर्वज्ञं विश्वतोमुस्त्रम् ॥४९॥
क्षिप्रं यास्यथ तेनैव सायुज्यं नात्र संशयः ।
भक्त्या भवं यजेद्यस्तु महापातकवानपि ॥५०॥
सोऽपि याति परं स्थानं त्रिसप्तपुरुषान्वितः ।
अश्वगेधसहस्राणि राजसूयशतानि च ॥५१॥
महेशार्चनपुण्यस्य कलां नार्हन्ति षोडशीम् ।
क्रीडन्ति शिशवो यत्र लिङ्गं कृत्वा व्रजन्ति ये ॥५२॥
सैकतं मृन्मयं वाऽपि ते भवन्त्येव भूभुजः ।
आध्यात्मिकं चाऽऽधिदैवं दुःखं चैवाऽऽधिभौतिकम् ॥५३॥
देवादीनां विदित्वैवं मोक्षार्थी शिवमर्चयेत्
अपारतरपर्यन्ताद्घोरात्संसारसागरात् ।
महामोहजलात्कमक्रोधग्राहात्सुखोर्मिणः ॥५४॥
प्राज्ञो वेदान्तविद्योगो निर्गमो निरहंकृतिः ।
एको योगी प्रशान्तात्मा स संतरति नेतरः ॥५५॥
दान्तः सुसयतो ध्याने निराशो विगतस्पृहः ।
सर्वसङ्गविहीनश्च निर्द्वन्द्रो निरुपप्लवः ॥५६॥
सर्वकर्मफलत्यागी जडान्धबधिराकृतिः ।
मित्रारिषु समो मैत्रः समस्तेष्वेव जन्तुषु ॥५७॥
* ( न स्यादित्यादि मोक्षं हीत्यन्तं शब्दजातं कखगङजसंज्ञितपुस्तकेषु नास्ति । )
एवं सुदुर्लभो मोक्षो * न स्याद्योगीव तादृशः ।
सर्वे पृथिव्यां पाताले मुक्ताः प्रकृतिजैर्गुणैः ॥५८॥
एवं सदुर्लभं ज्ञात्वा मोक्षं हि बहुसाधनम् ।
पूजयध्वं महादेवं कर्मयोगेण चान्यथा ॥५९॥
कर्म पूजा जपो होमः शंभोर्नामानुकीर्तनम् ।
कर्मयोगाः समाख्याता एतैः पूज्यो महेश्वरः ॥६०॥
यं यं काममभिध्यायेत्तदर्पितमनाः शिवम् ।
संपूज्य तं तमाप्नोति सावित्र्याह यथा पुरा ॥६१॥
तन्नामजापी तत्कर्गरतिस्तद्गतमानसः ।
निष्कामः पुरुषो विप्राः स रुद्रपदमश्नुते ॥६२॥
यः सर्वदाऽर्चयेदीशं स रुद्र इव भूतले ।
पापहा सर्वमर्त्यानां दर्शनाश्स्पर्शनादपि ॥६३॥२४४९॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवमाहात्म्यकथनं नाम मट्चत्वारिंशोऽध्ययः ॥४६॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP