संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६४

सौरपुराणं - अध्यायः ६४

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
कथितो भवता सूत विवाहः परमेष्ठिनः ।
सेनापत्यं यथा दत्तं श्रुतं सर्वमशेषतः ।
भक्तियोगमथेदानीं वद सूत महामते ॥२॥
तृप्तिर्नाद्याप्यभूद्यस्माच्छ्रुत्वा चैव पुनः पुनः ।
जानासि त्वं भगवतो माहात्म्यं त्रिपुरद्विषः ॥३॥
उपासितो यतः सम्यग्भगवान्वादरायणिः ।
तत्प्रसादात्त्वया लब्धं ज्ञानं तत्पारमेश्वरम् ॥४॥
दुर्लभं सर्वशस्त्रेषु मुनीगां च महात्मनाम् ॥५॥
सूत उवाच -
यदुक्तं ब्रह्मणा पूर्वं नारदाय महात्मने ।
प्रीतेन मनसा तेन तच्छुणुध्वं द्विजोत्तमाः ॥६॥
सत्यलोके सुखासीनं ब्रह्माणं तेजसां निधिम् ।
रुषिभिर्मुनिभिः सिद्धैर्वेदै साङ्गैरुपासितम् ॥७॥
संगीयमानं गन्धर्वैः स्तूयमानं भरुद्गणैः ।
दृष्ट्वा प्रणम्य विधिवन्नारदस्तमथाब्रवीत् ॥८॥
नारद उवाच -
देवदेव जगन्नाथ चतुर्मुख सुरोत्तम ।
भक्तियोगस्य माहात्म्यं देवदेवस्य शूलिनः ॥९॥
ब्रह्मोवाच -
प्रणम्य शंकरं शान्तपप्रमेयमनामयम् ।
परं ज्योतिरनाद्यन्तं निर्गुणं तमसः परम् ॥१०॥
भक्तियोगं प्रक्ष्यामि शृणु नारद सुब्रत ।
भक्तियोगस्य माहात्म्यं यथा शंभोर्मया श्रुतम् ॥११॥
भक्तिर्भगवतः शंभोर्दुर्लभा खलु देहिनाम् ।
कथंचिद्यदि सा लष्धा तेषा नैवास्ति दुर्लभम् ॥१२॥
भक्त्यैव प्राप्यते राज्यमिन्द्रत्वं मत्पदं च यत् ।
विष्णुत्वमपि मुक्तिं च नूनं प्राप्नोति नारद ॥१३॥
शुभानामशुभानां च कर्मणाम राशिसंचयम् ।
करोति भस्मसाद्भभक्तिर्भवस्याग्निर्यथेन्धनम् ॥१४॥
म्लेच्छोऽपि वा यदि भवेद्भवभक्तिसमन्वितः ।
न तत्समश्चतुर्वेदी नाग्निष्टोमादियज्ञकृत् ॥१५॥
अपि पापानि घोराणि सदा कुर्वन्नरो यदि ।
लिप्यते नैव पाषैस्तु भक्तो भवति चेच्छिवे ॥१६॥
शिवभक्ता महात्मानो मुच्यन्ते त न संशयः ।
अपि दुष्कृतकर्माणः प्रसादाच्छूलिनो मुने ॥१७॥
सकृत्पूजयते यस्तु भगवन्तमुमापतिम् ।
अप्यस्श्वपेधादधिकं फलं भवति नारद ॥१८॥
जीवितं चञ्चलं ज्ञात्वा पद्मपत्र इवोदकम् ।
मृतेर्दुन्तान्नरकांस्ततः कुर्याच्छिवे मतिम् ॥१९॥
शिवे मतिं प्रकुर्वाणः संसारदतिभीषणात् ।
मुच्यते मुनिशार्दूल मतिः शर्वेऽतिदुर्लभा ॥२०॥
भवव्यालमुखस्थानां भीरूणां देहिनां मुने ।
तस्माद्विमोचकस्तेषां महादेव इति श्रुतिः ॥२१॥
भक्तिः शिवे यदि भवेन्न कस्मात्कस्यचिद्भयम् ।
भवार्णवं तरत्येव प्रसादात्परमेष्ठिनः ॥२२॥
स्वर्गार्थिनां मुमुक्षूणां ब्रह्मन्वमपि काङ्क्षिणाम् ।
भक्तिरेव विरूपाक्षे नान्यः पन्था इति श्रुतिः ॥२३॥
आदिमध्यान्तरहिते पिनाकिनि जगत्पतौ ।
सदा मनीषिभिः कार्या भक्तिरेव हि नारद ॥२४॥
सर्वमन्यत्परित्यज्य भक्तो भव हरे मुने ।
मुक्तो भविष्यसि क्षिप्रं तस्व शंभोरनुग्रहात् ॥२५॥
यस्य प्रसादलेशेन ब्रह्मत्वं प्राप्तवानहम् ।
विष्णुत्वमपि विष्णुश्च स शिवः कैर्न सेव्यते ॥२६॥
शिवे दानं शिवे होमः शिवे स्नानं शिवे जपः ।
अक्षयानि फलान्येषामित्याह भगवाञ्शिवः ॥२७॥
कुरुक्षेत्रे निवसतां यत्फलं नैमिषे तथा ।
प्रयागे च प्रभासे च गङ्गासागरसंगमे ॥२८॥
रुद्रकोट्यां गयायां च शालिग्रामेऽमरेश्वरे ।
पुष्करे भारभूतेशे गोकर्णे मण्डलेश्वरे ॥२९॥
तत्फलं दिवसेनैव भक्त्या भर्गार्चनाद्भवेत् ।
नास्ति लिङ्गार्चनात्पुण्यमीधकं भुवनत्रये ॥३०॥
लिङ्गेऽर्चितेऽखिलं विश्वमर्चितं स्यान्न संशयः ।
मायया मोहितात्मानो न जानन्ति महेश्वरम् ॥३१॥
अनुग्रहाद्भगवतो जानन्त्येव हि नारद ।
यः पूजितं शिवं दृष्ट्वा प्रणमेद्भक्तिभावतः ॥३२॥
पुण्डरीकस्य यज्ञस्य फलं भवति निश्चितम् ।
X ( खगघङचछजसंज्ञितष्वादर्शपुस्तकेषु ये पुनरित्यादिर्नारदेत्वन्तः श्लोको नास्ति । )
X ये पुनः शान्तमनसः शिवभक्ता जितेन्द्रियाः ॥३३॥
मर्त्य [ यम ] स्य वदनं तेऽपि नैव पश्यन्ति नारद ।
पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च ॥३४॥
शिवलिङ्गे वसन्त्येव तानि सर्वाणि नारद ।
तस्मालिङ्गं सदा पूज्यं भक्तिभावेन नित्यशः ॥३५॥
स स्नातः सर्वतीर्थेषु सर्वस्मादधिकश्च सः ।
यस्तु लिङ्गार्चनं त्यक्त्वा देवानन्यांश्च पूजयेत् ॥३६॥
रत्नं विहाय मूढात्मा यथा काचमपेक्षते ।
चतुर्दश्यामथाष्टम्यां पौर्णमास्यां तथैव च ॥३७॥
आमावास्यां ( यां वा ) त्रयोदश्यां पूजयेदिन्दुशेखरम् ।
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ॥३८॥
शिवलोकमवाप्नोति देहान्ते दुर्लभं मने ।
शिवार्चनरतो नित्यं महापातकसंभवैः ॥३९॥
दोषैः कृतैर्न लिप्यते पद्मपत्रमिवाम्भसा ।
दर्शनाच्छिभक्तानां सकृत्संभाषणादपि ॥४०॥
अतिरात्रस्य यज्ञस्य फलं भवति नारद ।
ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रो वाऽन्त्यजजातिजः ॥४१॥
शिवभक्तः सदा पूज्मः सर्वावस्थां गतोऽपि वा ।
नास्याऽऽचारं परिक्षेत न कुलं न व्रतं तथा ॥४२॥
त्रिपुण्ड्राङ्कितभालेन पूज्य एव हि नारद ।
कर्मणा मनसा वाचा यस्तु भक्तान्विनिन्दति ॥४३॥
निरयान्निष्कृतिर्नास्ति तस्य मूढात्मनो मुने ।
शिवभक्तान्वर्जयित्वा सर्वेषां शासको यमः ॥४४॥
यः पुनः शिवभक्तानां शिव एव न चापरः ।
न शिवाश्रयिणो मौञ्जी न दण्डो न च कुण्डले ॥४५॥
नैव काषायवासांसि भक्तिरेवात्र कारणम् ।
यदि भक्ताः पशुपतौ पापकर्मसु ये रताः ॥४६॥
यमस्य वदनं तेऽपि नैव पश्यन्ति नारद ।
ये पुनः शान्तमनसः शिवभक्ता जितेन्द्रियाः ॥४७॥
मर्त्यधर्मं समासाद्य विज्ञेयास्ते गणेश्वराः ।
मृतस्य जीवतो वाऽपि शिवभक्तस्य नारद ॥४८॥
यमाद्भयं न तस्यास्ति राज्ञश्चैव तु का कथा ।
आश्चर्यं कथयिष्यामि शृणु नारद यत्पुरा ॥४९॥
उज्जयिन्यां नृपो ह्यासीन्नाम्ना सत्यध्वजो मूने ।
धर्मात्मा सत्यसंकल्पः प्रजापालनतत्परः ॥५०॥
भुक्त्वा समस्तामवनिं कालेनाथ दिवं गतः ।
वसुश्रुत इति ख्यातः पुत्रस्तस्य महात्मनः ॥५१॥
महाकालार्चनरतस्तन्निष्ठस्तत्परायणः ।
न धर्मेण प्रजाः शास्ति राजधर्मबहिष्कृतः ॥५२॥
असाधून्संपरित्यज्य साधून्वै हन्त्यसौ नृपः ।
प्रजानां कुशलं नास्ति सर्वत्र परिपन्थिनः ॥५३॥
यज्ञांश्च यज्वनां दृष्ट्वा म्लेच्छा विध्वंसयन्ति तान् ।
गते वर्षसहस्रे तु राज्ये तस्मिन्वसुश्रुते ॥५४॥
मृत्युकालोऽथ संप्राप्तो देहिनामतिभीषणः ।
पापिष्ठ इति तं मत्वा संप्राप्ता यमकिंकराः ॥५५॥
शिवभक्त इति प्राप्तास्त्रिनेत्रा शूलधारिणः ।
शिवदूतैः समानीत विमानं सार्वकामिकम ॥५६॥
यमदूतास्त्वतिक्रूराः पाशदण्डासिपानयः ।
आहर्तुमुद्यताः सर्वे नृपं तं यमकिंकराः ॥५७॥
गणेश्वरास्ततः क्रुद्धा दृष्ट्वा तान्यमकिंकरान् ।
त्रिशूलैर्मुद्गरैश्चक्रैर्गदाभिर्मुसलैस्तथा ॥५८॥
ताडयित्वा भृशं दूतान्यमशासनपालकान् ।
नीतः शिवपुरं दिव्यं पुनरावृत्तिदुर्लभम् ॥५९॥
अथ ते किंकराः सर्वे यमं गत्वेदमब्रुवन् ।
किंकरा ऊचु -
शृणु धर्म यथा वृत्तमीश्वरस्य गणेश्वरैः ॥
सर्वानस्मांस्ताडयित्वा नतिः पापो वसुश्रुतः ॥६०॥
न यज्ञैर्यजते देवान्न विप्रान्नातिथीनपि ।
न धर्मेण प्रजाः पाति कथं शिवपुरं गतः ॥६१॥
तत्त्वं धर्म विजानासि धर्मदण्डघरो भवान् ।
तस्माद्ब्रवीहि[!] भगवंस्तवाऽऽज्ञाकारिणो वयम् ॥६२॥
एवं तेषां वचः श्रुत्वा धर्मराट् सूर्यनन्दनः ।
वचः प्रोवाच गम्भीरं किंकरन्प्रति नारद ॥६३॥
यम उवाच -
देवासुरमनुष्याणां सर्वेषां प्राणिनामपि ।
शास्ताऽहं नास्ति संदेहः शिवभक्तमृते किल ॥६४॥
माहात्म्यं शिवभक्तानां को वा विन्दति तत्त्वतः ।
तेषां नियन्ता भगवान्महादेवो न चापरः ॥६५॥
शिवभक्ता महात्मानः सदा शर्वार्चने रताः ।
अप्याश्रमाचारहीनांस्त्यजध्वं तान्प्रयत्नतः ॥६६॥
वर्णाश्रमाणामाचारा अपि तेन विवर्जिताः ।
शंकरे यदि भक्तः स्यान्न शास्यः पूज्य एव हि ॥६७॥
भवद्भिः परिहर्तव्याः शिवभक्ताः प्रयत्नतः ।
पापकर्मस्वपि रतस्तेषामेनो न विद्यते ॥६८॥
बिभेमि शिवभक्तेभ्यः सिंहादिव यथा मृगाः ।
श्वेतस्याऽऽहरणे पूर्वमहं देवेन घातितः ॥६९॥
ततः प्रभृत्यहं शास्त्रा तद्भक्तानां न किंकराः ।
योऽसौ वसुश्रुतो राजा न प्रजाः पालयन्यदि ॥७०॥
तथापि शंकरे भक्तो मनोवाक्कायकर्मभिः ।
प्रसादात्तस्य देवस्य पापं स्पृशति तं कथम् ॥७१॥
सकृत्पश्यति यो देवं महाकालं त्रिलोचनम् ।
सर्वपापविनिर्मुक्तो याति शैवं परं पदम् ॥७२॥
यः सदाऽर्चयते देवं महाकालं तमीश्वरम् ।
गणेश्वरः स मन्तव्यो भवद्भिरिति किंकराः ॥७३॥
एवं यमस्य वचनं श्रुत्वा ते ( तु ) यमकिंकराः ।
तूष्णीमासाद्य ते सर्वे बभृवुर्विगतज्वराः ॥७४॥
तस्मात्पूज्यो महादेवस्तद्भक्तश्च विशेषतः ।
भक्तानां पूजनाश्चंभुः प्रीतो भवति नारद ॥७५॥
शिवस्य नित्यतृप्तस्य किं नाम क्रियते जनैः ।
यत्कृतं शिवभक्तानां तेन प्रीतो भवेच्छिवः ॥७६॥
देवान्सर्वान्परित्यज्य भज नारद शंकरम् ॥७७॥३६४०॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे ब्रह्मनारदसंवादादिकथनं नाम चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP