संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः १४

सौरपुराणं - अध्यायः १४

सौरपुराणं व्यासकृतम् ।


* ( कखगसंज्ञितपुस्तकेषु ग एकादशोऽध्यायः ॥ स एवात्र संगुहीतः । )
* सूत उवाच -
व्रतानि संप्रवक्ष्यामि शृणुध्वं मुनिपुङ्गवाः ।
तत्र कृष्णाष्ठमी पुण्या सर्वपापप्रणाशनी ॥१॥
कृष्णाष्टमीव्रतान्नान्यद्व्रतमस्ति विभूतिदम् ।
कृष्णाष्टमीव्रतं कृत्वा ब्रह्मा ब्रह्मत्वमाप्नुयात् ॥२॥
विष्णुत्वं प्राप्तवान्विष्णुः सुरेशत्वं शचीपतिः ।
कुबेरो यक्षराजत्वं नियन्तृत्वं यमः स्वयम् ॥३॥
चन्द्रश्चन्द्रत्वमापन्नो गणेशत्वं गणाधिपः ।
स्कन्दः सेनापतित्वं च तथा चान्ये गणेश्वराः ॥४॥
कृत्वा चैश्वर्यमापन्नाः सौभाग्यं देववल्लभाः ।
व्रतस्यास्य प्रभावेन लक्ष्म्याः पतिरभूद्धरिः ॥५॥
ययातिः सार्वभौमत्वं तथा चान्ये नृपोत्तमाः ।
ऋषबो मुनयः सिद्धा गन्धर्वाणां च कन्यकाः ॥६॥
कृत्वा चैव परां सिद्धिं प्रपताश्च मुनिपुङ्गवाः ।
नन्दीश्वरेण यत्प्रोक्तं नारदाय महात्मने ॥७॥
कृष्णाष्टमीव्रतं श्रेष्ठं सर्वकामफलप्रदम् ।
मेरोर्यद्दक्षिणं शृङ्गं सुरासुरनमस्कृतम् ॥८॥
तत्र नन्दीश्वरं दृष्ट्वा सर्वज्ञं शंभुवल्लभम् ।
उपास्यमानं मुनिभिः स्तयमानं मरुद्गणैः ॥९॥
सर्वानुग्रहकर्तारं स्तुत्वा तु विविधैः स्तवैः ।
अब्रवीत्प्रणितत्याथ दण्डवन्नारदो मुनिः ॥१०॥
नारद उवाच -
भगवन्सर्वतत्त्वज्ञ सर्वैषामभयप्रद ।
केन व्रतेन चीर्णेन तपोवृत्तिः प्रजायते ॥११॥
सौभाग्यं कान्तिमैश्वर्यमपत्यं च यशस्तथा ।
शाश्वतीं मुक्तिमन्ते च पशुपाशविमोचनीम् ॥१२॥
भगवंस्तत्व्रतं ब्रूहि कारुण्याच्छंकरप्रियम् ।
नंदिकेश्वर उवाच -
कृष्णाष्टमीव्रतं श्रेष्ठमस्ति देवऋषे शृणु ।
गणेशत्वं मयां लक्ष्यं येन चीर्णेन नारद ॥१३॥
मासे मार्गशिरे प्राप्ते कृष्णाष्टम्यां जितेन्द्रियः ।
अश्वत्थदन्तकाष्ठेन कृत्वा वै दन्तधावनम् ॥१४॥
स्नानं कृत्वा च विधिवत्तर्पणं चैव नारद ।
आगत्य भवनं पश्चात्पूजयेच्छंकरं प्रभुम् ॥१५॥
गोमूत्रं प्राश्य विधिवदुपवासी भवेन्निशि ।
अतिरात्रस्य यज्ञस्य फलमष्टगुणं भवेत् ॥१६॥
सर्पिषः प्राशनं पौषे दन्तकाष्ठं च तत्स्मृतम् ।
पूजयेच्छंभुनामानं भगवन्तं महेश्वरम् ॥१७॥
वाजपेयाष्टकफलं प्राप्नोति श्रद्धयाऽन्वितः ।
माधे वटस्य कथितं गोक्षीरं प्राशनं स्मृतम् ॥१८॥
माहेश्वरं सुसंपूज्य गोमेधस्याष्टकं फलम् ।
फाल्गुने च तदेवोक्तं कार्यं वै प्राशनं च तत् ॥१९॥
संपूजयेन्महादेवं राजसूयाष्टकं फलम् ।
काष्ठमौदुम्बरं चैत्रे प्राशने वर्जिता जनाः ॥२०॥
पूजयेत्स्थाणुनामानमश्वमेधफलं लभेत ।
शिवं संपूज्य वैशाखे पीत्वा चैव कुशोकदम् ॥२१॥
नरमेधाष्टकफलं प्राप्नोत्येव हि नारद ।
ज्येष्ठे प्लाक्षं भवेत्काष्ठं पूज्यः पशुपतिर्विभुः ॥२२॥
गवां शृङ्गोदकं प्राश्य स्वपेद्देवस्य संनिधौ ।
गवां कोटीप्रदानस्य यत्पुण्यं तदवाप्नुयात् ॥२३॥
आषाढे चोग्रनामानमिष्ट्वा प्राश्य च गोमयम् ।
सौत्रामण्यास्ति यज्ञस्य फलमष्टगुणं भवेत् ॥२४॥
पालाशं श्रावणे प्रोक्तं शर्वं संपूज्य नारद ।
प्राशयित्वाऽर्कपत्राणि कल्पं शिवपुरे वसेत् ॥२५॥
मासे भाद्रपदेऽष्टभ्यां त्र्यम्बकं संप्रपूजयेत् ।
प्राशनं बिल्वपत्रस्य सर्वदीक्षाफलं भवेत् ॥२६॥
आश्विने जम्बुवृक्षस्य दन्तकाष्ठमुदीरितम् ।
ईश्वरं पूजयेद्भक्त्या प्राशयेत्तण्डुलोदकम् ॥२७॥
पौण्डरीकस्य यज्ञस्य फलमष्टगुणं लभेत् ।
मासे तु कार्तिकेऽष्टभ्यामीशानाख्यं प्रपूजयेत् ॥२८॥
पञ्चगव्यं सकृत्पीत्वा अग्निष्टोमफलं लभेत् ।
वर्षान्ते भोजयेद्विप्राञ्शिवभक्तिपरायणान् ॥२९॥
पायसं मधुसंयुक्तं घृतेन सुपरिप्लुतम् ।
शक्त्या हिरण्यं वासांसि भक्त्या तेभ्यो निवेदयेत् ॥३०॥
देवाय दद्याद्दध्यन्नं वितानध्वजचामरम् ।
कृष्णां पयस्विनी गां च घण्टां कञ्चुकवाससी ॥३१॥
सरत्नां ताम्नकलशीं गामलंकृत्य नारद ।
अलंकारं च वस्त्रं च दक्षिणां च स्वशक्तितः ॥३२॥
कल्पकोटीशतं साग्रं शिवलोके महीयते ।
कृष्णाष्टभीव्रतं साम्यक्प्राप्तं देवऋषे मथा ॥३३॥
यदुक्तं देवदेवेन दे व्यै विश्वसृजां पुरा ॥३४॥
सूत उवाच -
एवं नन्दीश्वराच्छ्रुत्वा नारदो मुनिपुङ्गवाः ।
कृष्णाष्टमीव्रतं पुण्यं ययौ बदरिकाश्रमम् ॥३५॥
व्रतस्यास्य प्रभावं यः षठेद्वा शृणुयादपि ।
अतिसत्रस्य यज्ञस्य फलं प्रपनोत्यनुत्तमम् ॥३६॥६२५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे कृष्णाष्टमीव्रतं नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP