संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६७

सौरपुराणं - अध्यायः ६७

सौरपुराणं व्यासकृतम् ।


ब्रह्मोवाच -
उज्जयिन्यां महाकालं ये वै पश्यन्ति मानवाः ।
अवाप्नुयुः परं लोकं यत्र गत्वा न शोचति ॥१॥
महाकालस्य लिङ्गस्य दिव्यलिङ्गं तदुच्यते ।
स्पर्शनात्तस्य लिङ्गस्य सशरीराः शिवं ययुः ॥२॥
तज्ज्ञात्वा च मया तत्र पाषाणः कुक्कुटाकृतिः ।
निक्षिप्तश्च महाकाले ततोऽभूत्कुक्कुटेश्वरः ॥३॥
तत्रैव नगरे रम्ये शूलेश्वर इति स्मृतः ।
तस्य दर्शनमात्रेण हयमेधफलं लभेत् ॥४॥
शूलेश्वरस्य पूर्वे तु ॐकारं लिङ्गमुत्तमम् ।
तत्र कुण्डं महादिव्यं पूरितं पुण्यवारिणा ॥५॥
स्नानं समाचरंस्तत्र प्रयतात्मा समाहितः ।
द्वितीयेऽह्नि तृतीयेऽह्नि दशमे वाऽपि नारद ॥६॥
पक्षे मासेऽथ षण्मासे स्वप्ने पश्यति शंकरम् ।
दिव्यं ज्ञानमवाप्नोति देवानामपि दुर्लभम् ॥७॥
यः पश्येल्लिङ्गमोंकारं स्नात्वा कुण्डे समाहितः ।
दीक्षासहस्रस्य फलं प्रपय याति परां गतिम् ॥८॥
तत्रैवागस्त्यमुनिना तपसाऽऽराधितः शिवः ।
प्रादुर्भूतश्च भगवानगस्त्येश्वरनामतः ॥९॥
प्रसिद्धो दर्शनात्तस्य ब्रह्महत्यां व्यपोहति ।
तत्रैव शक्तिभेदाख्यं तीर्थं मुनिनिषेवित् ॥१०॥
तत्र स्नात्वा भद्रवटं यस्तु पश्यति मानवः ।
सर्वपापविनिर्मुक्तः स्कन्दलोके महीयते ॥११॥
तीर्थानि कोटिशः सन्ति उज्जयिन्यां समन्ततः ।
तेषां माहात्म्यमखिलं स्कन्दे स्कन्देन भाषितम् ॥१२॥
कुरुक्षेत्रे तु देवर्षे स्थाणुर्नाम महेश्वरः ।
तपस्तत्प्वा मया तत्र प्रपतं ब्रह्मत्वमुत्तमम् ॥१३॥
वालखिल्यादयस्तत्र सिद्धिं प्राप्ताः षरां द्विजाः ।
तत्राऽऽसीत्पुलहं पूर्वं मशकः स्थाणुमन्दिरे ॥१४॥
मृतस्तु विविधान्भोगान्भुक्त्वा दिव्यमनोरथान् ।
तदन्ते मत्सुतो जातः स्थाणुमूढ[र्ति]प्रभावतः ॥१५॥
सर्वदेवमयो यत्र स्थाणुर्नाम महेश्वरः ।
इष्टः सकृच्च मनुजः शैवं पदमवाप्नुयात् ॥१६॥
तीर्थराज इति ख्यातः प्रयागो मुनिसत्तमाः ।
गङ्गायमुनयोस्तत्र संगमो लोकविश्रुतः ॥१७॥
तत्र स्नात्वा दिवं गत्वा भोगान्भुक्त्वा यथेप्सया ।
आस्ते महेश्वरो यत्र सर्वानुग्राहकः परः ॥१८॥
दर्शनादक्षयाल्लोकान्प्राप्नोति मनुजोत्तमः ।
अन्यत्तीर्थं परं गुह्यं गयातीर्थमिति स्मृतम् ॥१९॥
यत्र शंभोर्भगवतश्चरणौ सुप्रतिष्ठितौ ।
पितॄणामक्षया तृप्तिस्तत्र पिण्डप्रदानतः ॥२०॥
महानद्यां नरः स्नात्वा रुद्रपादं स्पृशेद्यदि ।
शिवलोकमवाप्नोति पितृभिः सह मोदते ॥२१॥
महाकालं महातीर्थं कालकालस्य वल्लभम् ।
तत्रापि देवदेवेन विन्यस्तश्चरणो भुवि ॥२२॥
तत्र स्नात्वा तु मेधावी चरणं पार्वतीपते ।
यः पश्यति नरो भक्त्या शैवं पदमवाप्नुयात् ॥२३॥३८१८॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे महाकालमहात्म्यकथनं नाम सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP