संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २२

सौरपुराणं - अध्यायः २२

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
असंख्यातानि कल्पानि गतानि ब्रह्मणो द्विजाः ।
सांप्रतं वर्तते यच्च वाराहमिति संज्ञितम् ॥१॥
विस्तरं तस्य वृक्ष्यामि शृणुर्ध्व मुनिपुंगवाः ।
शृण्वतां पापहानिः स्याच्छ्रद्धया सर्वदेहिनाम् ॥२॥
एकं कल्पमहः प्रोक्तं ब्रह्मणः परमेष्ठिनः ।
रात्रिश्च तावती प्रोक्ता कल्पमानमथोच्यते ॥३॥
चतुर्युगाणां साहस्रं कल्पमानं निगद्यते ।
शतत्रयं षष्ठ्यधिकं कल्पनां वर्षमुच्यते ॥४॥
चतुर्मुखस्य विप्रेन्द्राः पराख्यं तच्छतं भवेत् ।
तदन्ते सर्वभूतानां प्रकृतौ विलयं स्मृतः ॥५॥
प्राकृतः प्रलयस्तेन कथ्यते कालाचिन्तकैः ।
त्रयाणामपि देवानां प्रकृतौ विलयो भवेत् ॥६॥
पुनः कालवशात्तेषामुत्पत्तिः कथ्यते बुधैः ।
कालो हि भगवाञ्शंभुर्महादेव इति श्रुतिः ॥७॥
सृज्यन्ते बहवो रुद्राश्चानन्ताश्च चतुर्मुखाः ।
नारायणा ह्यसंख्वाता देवदेवेने शंभूना ॥८॥
संहर्ता च पुनरेतेषां कालरूपी महेश्वरः ।
परार्धं ब्रह्मणो विप्रा अतीतमिति नः श्रुतम् ॥९॥
पाद्मकल्पमतीतं यत्तत्परार्धं द्विजोत्तमाः ।
वाराहो वर्तते कल्पो वाराहो यत्र पद्मभूः ॥१०॥
आसीदेकार्णवं घोरं निर्विभागं तमोमयम् ।
एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥११॥
ब्रह्मा नारायणो भूत्वा योगनिद्रां समाश्रितः ।
सुष्वाप सलिले तस्मिन्नीश्वरेच्छाप्रणोदितः ॥१२॥
मुनयः सत्यलोकस्था देवं नारायणं प्रति ।
इमं चोदाहरन्त्यत्र श्लोकं मुनिवरोत्तमाः ॥१३॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः प्रोक्तास्तेन नारायणः स्मृतः ॥१४॥
एवं युगसहस्रान्ते योगनिद्रामपास्य वै ।
ब्रह्मत्वमग्रहीद्देवः सृष्ट्यर्थं मुनिपुंगवाः ॥१५॥
मग्नां जलान्तः पृथिवीं ज्ञात्वा देवश्चतुर्मुखः ।
तस्यास्तूद्धरणार्थाय वाराहं रूपमास्थितः ॥१६॥
अप्रतर्क्यमनौपम्यं रूपं भगवतः परम् ।
क्षणाद्रसातलं गत्वा यज्ञेशः पुरुषोत्तमः ॥१७॥
अभ्युज्जहार धरणीं दंष्ट्रया परमेश्वरः ।
सनकाद्यैः स्तूयमानो भगवान्हव्यकव्यभुक् ॥१८॥
आसीद्यथाऽवनिः पूर्वं संस्थाप्य च तथा पुनः ।
कल्पान्तदग्धानखिलान्पर्वतांश्च महीधरः ॥१९॥
ततश्चिन्तयतः सृष्टिं कल्पादौ पद्मजन्मनः ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥२०॥
तमो मोहो महामोहस्तमिस्रं चान्धसंज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥२१॥
पञ्चधाऽवस्थितः सर्गो ध्यायतः सोऽभिमानिनः ।
संवृतस्तमसाऽतीव बीजं त्वगिव सर्वतः ॥२२॥
अन्तर्बहिश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ।
मुख्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥२३॥
तं दृष्ट्वाऽसाधकं सर्गममन्यत्कमलासनः ।
पुगश्चिन्तयतः सर्गं तिर्यक्श्रोतोऽभ्यवर्तत ॥२४॥
यस्य तिर्यक्प्रवृत्तः स तिर्यक्श्रोतस्ततः स्मृतः ।
पश्वादयः समाख्याता उत्पथग्राहिणश्च ये ॥२५॥
तमप्यसाधकं दृष्ट्वा देवदेवः पितामहः ।
ससजान्यं पुनः सर्गमूध्वश्रोतं तु सात्त्विकम् ॥२६॥
देवसर्ग इति प्रोक्तः प्रकाशात्मा सुखाधिकः ।
पुनश्चिन्तयतोऽ‍व्यक्तादर्वाक्श्रोतस्त्वसाधकः ॥२७॥
प्रकाशबहुलाः सर्वे तमोयुक्ता रजोधिकाः ।
दुःखोत्कटाः सत्त्वयुक्ता मनुष्याः परिकीर्तिताः ॥२८॥
पुनश्चिन्तयतस्तस्य भूतसर्गोऽभ्यजायत ।
संविभागरताः क्रूरास्ते परिग्राहिणः स्मृताः ॥२९॥
एते पञ्च समाख्याताः सर्गा देवेन भानुना ।
महतः प्रथमः सर्गो ज्ञातव्यो ब्रह्मणो द्विजाः ॥३०॥
तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ।
वैकारिकस्तृतीयस्तु प्रोक्त ऐन्द्रियको द्विजाः ॥३१॥
इत्येष प्राकृतः सर्गः संभूतो बुद्धिपूर्वकः ।
चतुर्थोमुख्यसर्गस्तु मुख्या वै स्थावराः स्मृताः ॥३२॥
तिर्यग्योन्यस्तु यः प्रोक्तस्तिर्यग्योन्यस्तु पञ्चमः ।
तथोर्ध्वश्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ॥३३॥
ततोऽर्वाक्श्रोतसां सर्गः सप्तमः स तु मानुषः ।
अष्ठमो भौतिकः सर्गो भूतादीनां द्विजोत्तमाः ।
नवममश्वैव कौमारः प्राकृता वैकृतास्त्विमे ॥३४॥९६१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे वाराहकल्पप्राकृतादिसर्गकथनं नाम द्वाविंशोऽ‍ध्यायः ॥२२॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP