संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ९

सौरपुराणं - अध्यायः ९

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
किं लक्षणं पुराणानां तेषां दानेन किं फलम् ।
अन्येषामपि दानानां व्रतानां च विशेषतः ॥१॥
वर्णानामाश्रमाणां च तेषां वै लक्षणं यथा ।
ततः श्राद्धविधानं च प्रायश्चित्तं कथं भवेत् ॥२॥
सर्वमेतदशेषेण सूत नो वक्तुमर्हसि ।
सूत उवाच -
यदुक्तं भानुना पूर्वं पुत्राय मनवे द्विजाः ।
तदहं संप्रवक्ष्यामि शृणुध्वं गदतो मम ॥३॥
सर्गश्च प्रतिसर्गश्च वंशा मन्वन्तराणि च ।
वंशानुचरितं चैव पुराणं षञ्चलक्षणम् ॥४॥
ब्राह्मादीनां पुराणानामुक्तमेतत्तु लक्षणम् ।
एतच्चोपपुराणानां खिलत्वाल्लक्षणं स्मृतम् ॥५॥
ब्राह्मं पुराणं तत्राऽऽद्यं संहितायां विभूषितम् ।
श्लोकानां दशसाहस्त्रं नानापुण्यकथायुतम् ॥६॥
पाद्मं द्वितीयं कथितं तृतीयं वैष्णवं स्मृतम् ।
चतुर्थं वायुना प्रोक्तं वायवीयमिति स्मृतम् ॥७॥
ततो भागवतं प्रोक्तं भागद्वयविभूषितम् ।
चतुर्भिः पर्वभिः प्रोक्तं भविष्यं तदनन्तरम् ॥८॥
नारदीयं तथाऽऽग्नेयं मार्कण्डेयमतः परम् ।
दशमं ब्रह्मवैवर्तं लिङ्गमेकादशं परम् ॥९॥
भागद्वयेन लैङ्गं च ततो वाराहमुत्तमम् ।
संयुक्तमष्टभिः खण्डैः स्कान्दं चैवातिविस्तम् ॥१०॥
ततस्तु वामनं कौर्मं भागद्वयविराजितम् ।
मात्स्यं च गारुडं प्रोक्तं ब्रह्माण्डं च ततः परम् ॥११॥
नामद्वयेन कथितं ब्रह्माण्डमिति संज्ञितम् ।
खिलान्युपपुराणानि यानि चोक्तानि सूरिभिः ॥१२॥
इदं ब्रह्मपुराणस्य खिलं सौरमनुत्तमग् ।
संहिताद्वयसंयुक्तं पुण्यं शिवकथाश्रयम् ॥१३॥
आद्या सनत्कुमारोक्ता द्वितीया सूर्यभाषिता ।
इयं पुण्यतमा ख्याता संहिता पापनाशिनी ॥१४॥
वैवस्वताय मनवे कथिता रविणा पुरा ।
दानमस्य पुराणस्य दानानामुत्तमं द्विजाः ॥१५॥
यो दद्याच्छिवभक्ताय ब्राह्मणाय तपस्विने ।
यानि दानानि लोकेषु प्रसिद्धानि द्विजोत्तमाः ॥१६॥
सर्वेषां धलमाप्नोति चतुर्दश्यां न संशयः ।
ब्राह्मं पुराणं प्रथमं ददाति श्रद्धयाऽन्वितः ॥१७॥
सर्वपापनिर्मुक्तो ब्रह्मलोके महीयते ।
पाद्मं ब्रह्माणमुद्दिश्य यो ददाति गुरोर्दिने ॥१८॥
द्विजाय वेदविदूषे ज्योतिष्ठोमफलं लभेत् ।
वैष्णवं विष्णुमुद्दिश्य द्वादश्वां प्रयतः शुचिः ॥१९॥
अनूचानाय यो दद्याद्वैष्णवं पदमाप्नुयात् ।
ददांति सूर्यभक्ताय यस्तु भागवतं द्विजाः ॥२०॥
सर्वपापविनिर्मुक्तः सर्वरोगविवर्जितः ।
जीवेद्वर्षशतं साग्रमन्ते वैवरवतं पदम् ॥२१॥
वैशाखे शुक्लषक्षस्य तृतीयाऽक्षयसंज्ञिता ।
तस्यां तिथौ संयतात्मा ब्राह्मणायाऽऽहिताग्नये ॥२२॥
भविष्याख्यं पुराणं तु ददाति श्रद्धयान्वितः ।
अश्वमेधस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् ॥२३॥
मार्कण्डेयं तु यो दद्यात्सप्तभ्यां प्रयतात्मवान् ।
सूर्यलोकमवाप्नोति सर्वपापविवर्जितः ॥२४॥
आग्नेयं प्रतिपद्येव प्रदद्यादाहिताग्नये ।
राजसूयस्य यज्ञस्य फलं भवति शाश्वतम् ॥२५॥
ददाति नारदीयं यश्चतुर्दश्यां समाहितः ।
द्विजाय शिवभक्ताय शिवलोके महीयते ॥२६॥
यो दद्याद्ब्रह्मवैवर्त तैष्णवाय समाहितः ।
ब्रह्मलोकमवाप्नोति पुनरावृत्तिदुर्लभम् ॥२७॥
कार्तिकस्य चतुर्दश्यां शुक्लपक्षस्य सुव्रताः ।
लैङ्गं दद्यादद्विजेन्द्राय शिवार्चनरताय वै ॥२८॥
सर्वपापविग्निर्युक्तः सर्वैश्वर्यसमन्वितः ।
याति माहेश्वरं घाम सर्वलोकोपरि स्थितम् ॥२९॥
द्वादश्यां संयतो भूत्वा ब्राह्मणाय तपस्विने ।
यो वै ददाति वाराहं विष्णुलोकं स गच्छति ॥३०॥
* ( वसंज‘जेतपुस्तकेऽयं श्लोको नास्ति । )
* स्कान्दं शिवचतुर्दश्यां प्रदद्याच्छिवयोगिने ।
ज्ञानी भवति विप्रेन्दा महादेवप्रसादतः ॥३१॥
द्वादश्यां वा चतुर्दश्यां दद्याद्वागनमुत्तमम् ।
तस्य देवस्य तं लोकं प्राप्नोत्यक्षयमुत्तगम् ॥३२॥
दद्यात्कौर्मं चतुर्दश्यां योगिने प्रयतात्मने ।
सर्वंदानस्य यत्पुण्यं सर्वयज्ञस्य यत्फलम् ॥३३॥
प्राप्नोति तत्फलं विद्वानन्ते शैवं परं षदम् ।
मात्स्यं दद्यात्द्विजेन्द्राय प्रयतश्चोत्तरायणे ॥३४॥
विमुक्तः सर्वपापेभ्यः शिवलोके महीयते ।
गारुडं शिवमुद्दिश्य दद्याच्छिवतिथौ द्विजाः ॥३५॥
वाजपेयसहस्रस्य फलमाप्नोत्यनुत्तमम् ।
प्रदद्याच्छिवभक्ताय ब्रह्माण्डमिति यत्स्मृतम् ॥३६॥
शिवस्य पुरतो भक्त्या संमाप्ते दक्षिणायने ।
चन्द्रस्य ग्रहणे वाऽथ भानोरपि च सुव्रताः ॥३७॥
गणाधिपत्यमाप्नोति देवदेवस्य शूलिनः ।
एवमुक्तः पुराणानां क्रमो दानेन यत्फलम् ॥३८॥
प्रोक्तं समासतो विप्राः सूर्यो यत्स्वयमब्रवीत् ।
यः पठेदिममध्यायं महादेवस्य संनिधौ ॥३९॥
सर्वपापविनिर्मुक्तो वाजपेयफलं लभेत् ॥४०॥३७५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे ब्राह्मादिपुराणकमदानफलकथनं नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP