संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४२

सौरपुराणं - अध्यायः ४२

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
श्रुतं शंभोर्यथा चक्रं प्राप्तवान्पुरुषोत्तमः ।
इदानीं श्रोतुमिच्छामः शिवपूजाविधिं शुभम् ॥१॥
सूत उवाच -
शिवपूजाविधिं वक्ष्ये संक्षेपेण द्विजोत्तमाः ।
वक्तुं वर्षशतेनापि न शक्यं विस्तरेण तु ॥२॥
पुरा मेरुगिरेः शृङ्गे सिद्धगन्धर्वसेविते ।
उक्तं सनत्कुमराय नन्दिना कुलनन्दिना ॥३॥
नन्दीश्वरं सुखासीनं सर्वज्ञं मरुतां पतिम् ।
उपसंगम्य विधिवद्दण्डवत्प्रजिपत्य च ॥४॥
सनत्कुमारः पप्रच्छ शिवपूजाविधिक्रमम् ।
सर्वेषां वरदं शान्तं गणकोटिभिरावृतम् ॥५॥
सनत्कुमार उवाच -
नमस्तुभ्यं गणेशाय मार्तण्डायुतवर्चसे ।
शिवार्चनविधिं ब्रूहि मम त्रिदशपूजित ॥६॥
नन्दिकेश्वर उवाच -
शिवपूजाविधिं वक्ष्ये ] शृणु ब्रह्मसुताद्य मे ।
सर्वात्मके महादेवे भक्तोऽसि त्वं यतो मुने ॥७॥
तत्राऽऽदौ विधिना स्नात्वा समाचम्य यथाविधि ।
पूजास्थानमनुप्राप्य उपविश्याथ बुद्धिमान् ॥८॥
प्राणायामत्रयं कृत्वा ध्यायेद्देवं सदाशिवम् ।
शरीरशोषणं कृत्वा दहनं प्लावनं ततः ॥९॥
शैवीं तनुं समास्थाय न्यसकर्म समाचरेत् ।
योऽ‍यं सूत्रात्मको मन्त्रः सर्ववेदात्मकः परः ॥१०॥
तस्य वर्णांश्च विधिवन्न्यसेत्प्रणवपूर्वकान् ।
ब्रह्माणि ततो विन्यस्य ततश्चन्दनवारिणा ॥११॥
पूजास्थानं सुसंप्रोक्ष्य द्रब्याणि च मुनीश्वर ।
क्षालनं प्रोक्षणं चैव प्रणवेन विधीयते ॥१२॥
स्थापयेत्प्रोक्षणीपात्रं पाद्यपात्रं तथैव च ।
तथा ह्याचमनीयं च ह्यवगुण्ठ्य यथाविधि ॥१३॥
आच्छाद्य दर्भैर्मतिमांस्तेनैवाभ्युक्ष्य वारिणा ।
जलं तेशु विनिक्षिप्य द्रव्याणि च ततः क्षिपेत् ॥१४॥
उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत् ।
चूर्णयित्वा सकङ्कोलं कर्पूरं जातिकाफलम् ॥१५॥
क्षिपेदाचमनीये तु प्रणवेन यथाक्रमम् ।
सर्वत्र चन्दनं दद्यादर्ध्यपात्रेऽधुना शृणु ॥१६॥
व्रीहीन्यवांश्च पुष्पाणि कुशाग्राणि तथैव च ।
सिद्धार्थानक्षत्रांश्चैव साज्यं च भसितं तथा ॥१७॥
कुशपुष्पयवब्रीहिबहुxलतमालकान् ।
प्रक्षिपेत्प्रोक्षणीपात्रे प्रणवेन सुधीस्ततः ॥१८॥
सूत्रेण भवगायत्र्या गायत्र्या च द्विजोत्तमः ।
प्रोक्षणीपात्रमादाय संप्रोक्ष्य द्वारपालकौ ॥१९॥
पार्श्वतो मां चतुर्वाहुं सूर्यायुतसमप्रभम् ।
वानरास्यं त्रिनयनं पुष्पमालासुशोभितम् ॥२०॥
सर्वाभरणशोभाढ्यं नन्दीशं संप्रपूजयेत् ।
दक्षिणे तु महाकालं घोररूपं भयावहम् ॥२१॥
दंष्ट्राकरालवदनं कालाग्निचयसंनिभम् ।
पश्चादन्तर्गृहं शंभोः प्रविश्य सुसमाहितः ॥२२॥
पञ्चपुष्पाञ्जलिं दद्याब्द्रह्मभिः पञ्चभिर्मुने ।
गन्धैः पुष्पैर्महादेवं भक्त्या संपूजयेद्वुधः ॥२३॥
स्कन्दं विनायकं चैव लिङ्गशुद्धिमथाऽऽरभेत् ।
सूक्तैर्मन्त्रैश्च विधिवन्नमोन्तैः प्रणवादिकैः ॥२४॥
आसनं कल्पयेत्पश्चादैश्वर्यदलपङ्कजे ।
अणिमा पूर्वपत्रं स्यात्सर्वज्ञत्वमथेश्वरम् ॥२५॥
कर्णिकायां न्यसेद्विप्र वह्नेर्वै मण्डलं ततः ।
सौरं सौम्यं च विन्यस्य धर्मादीन्वै विदिक्षु च ॥२६॥
अधर्मादींस्ततो दिक्षु सोमस्यान्ते गुणत्रयम् ।
तत्त्वत्रयभयो विद्वांस्ततः शंभुं प्रपूजयेत् ॥२७॥
स्नापयेद्विधिना देवं गन्धयुक्तेन वारिणा ।
पञ्चामृतं ततो मन्त्रैः साधितं विधिपूर्वकम् ॥२८॥
स्नापयेत्प्रणवेनैव तत्राऽऽदौ पयसा मुने ।
आज्येन मधुना दध्ना तथा चेक्षुरसेन च ॥२९॥
जलस्य शुद्धिं विधिवन्मन्त्रैः कुयार्दनकेशः ।
संछाद्य सितवस्त्रेण स्नापयेदिन्दुशेखरम् ॥३०॥
कुशापामार्गकर्पूरजातीचम्पकपुष्पकैः ।
करवीरः सितैश्चैव मल्लिकाकमलोत्पलैः ॥३१॥
आपुर्य पुष्पैः सुशुभैश्चन्दनाद्यैश्च तज्जलम् ।
सद्योजातादिकांस्तत्र विन्यसदेब्रह्मः सुत ॥३२॥
सुवर्णकलशेनाथ तथा वै राजतेन च ।
शङ्खने मृन्मयेनाथ शोभितेन शुभने च ॥३३॥
सकूर्चेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम् ।
पावमानेन रुद्रेण तथा वामीयकेन च ॥३४॥
तवरिताख्येन रुद्रेण नीलरुद्रेण वा पुनः ।
अथर्वशिरसा वाऽपि रुद्रेण च तथैव च ॥३५॥
रथंतरेण पुण्येन श्रीसूक्तेनाथवा मुने ।
पौरुषेण च सूक्तेन ज्येष्ठसाम्ना च विष्णुना ॥३६॥
पञ्चभिर्ब्रह्मभिर्वाऽथ सूत्रेण प्रणवेन वा ।
स्नापयेद्देवदेवेशं सर्वयज्ञफलाप्तये ॥३७॥
वस्त्रं यज्ञोपवीते च तथा ह्याचमनीयकम् ।
मुकुटं च शुभं भद्रं तथा वै भूषणानि च ॥३८॥
मुखवासं च नैवेद्यं सर्वं वै प्रणवेन च ।
ततः स्फटिकसंकाशं देवं निष्कलमक्षरम् ॥३९॥
कारणं सर्वलोकानां सर्वलोकमयं परम् ।
ब्रह्मणा विष्णुरुद्राद्यैरपि देवरैगोचरम् ॥४०॥
वेदद्भिर्हि वेदान्तेरगोचरमिति श्रुतम् ।
* ( घङसंज्ञितपुस्तकयोरिदं श्लोकार्थं नास्ति । )
* आदिमध्यान्तरहितं भेषजं भवरोगिणाम् ॥४१॥
शिवलिङ्गमिति ख्यातं शिवलिङ्गं व्यवस्थितम् ।
प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्धनि ॥४२॥
स्तोत्रैः स्तुत्वा महादेवं प्रणिपत्य प्रदक्षिणम् ।
पुनरर्घ्बं च वै दत्त्वा पुष्पाणि च विकीर्य वै ॥४३॥
पादयोर्देवदेवस्य प्रणिपत्य विसर्जयेत् ।
एवं संक्श्झिप्य कथितं ब्रह्मसूनो शिवार्चनम् ॥४४॥
सर्वदेदेषु यद्गुह्यं यथा शंभोर्भया श्रूतम् ॥४५॥
सूत उवाच -
सनत्कुमारो भगवाञ्श्रुतवान्यच्छिवार्वनम् ।
नन्दीश्वराद्भगवतस्तन्मया कथितं द्विजाः ॥४६॥
यः पठेत्प्रयतो भक्त्या शिवार्चनविधिक्रमम् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥४७॥२१८१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे शिवपूजाविधिकथनं नाम द्विजत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP