संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ६०

सौरपुराणं - अध्यायः ६०

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
विवाह्याद्रिसुतां शंभुर्ययौ कैलासपर्वतम् ।
क्रीडां वै वर्षसाहस्रीमकरोत्तत्र शंकरः ॥१॥
गणैर्नानाविधैश्चैव सिंहास्यैः शरभाननैः ।
कैश्चिद्वयाघ्रमुखैर्भीमैः कैश्चिद्गृध्रमुखैरपि ॥२॥
कैश्चिद्गजमुखरैन्यैः कैश्चिन्मृगमुखैरपि ।
कैश्चिच्चित्रमुखैन्यः कैश्चिवृकयमुखैरपि ॥३॥
कैश्चिदुष्टमुखैर्दीर्घैः कैश्चिद्वृकमुखैरपि ।
मूपकास्यैस्तथा = चान्यैर्मार्जारवदनेपि ॥४॥
सर्पास्यैर्नकुलास्यैश्च जम्बुकास्यैस्तथाऽपरैः ।
शिशुमारमुखैश्चान्यैरृक्षवक्त्रैस्तथाऽपरैः ॥५॥
X ( इदं श्लोकार्धं चसंज्ञितपुस्तके नास्ति । )
X मयूरवदनैरन्यैर्बकवक्त्रैस्तथापरैः ।
शाखामृगमुखैश्चान्यैः खरारयैश्च तथाऽपरैः ॥६॥
अन्यरैसंख्यैः प्रमथैर्जरामरणवर्जितैः ।
नित्यतृप्तैर्निरातङ्कैः कालसंहरणक्षमैः ॥७॥
सहस्रकोटिसंख्याकैः स्वच्छन्दगतिचारिभिः ।
क्रीडां विधाय भगवान्कैलासे पर्वतोत्तमे ॥८॥
तपसा महता शंभुरनुगृह्य च मन्दरम् ।
कैलासं संपतित्यज्य मन्दरे चारुकन्दरे ॥९॥
तत्रापि रममाणस्य गते वर्षसहस्रके ।
देवतानां हितार्थाय प्रकृत्या सह शूलमृत् ॥१०॥
प्रक्रीहतीह विश्वात्मा कामासक्तश्च सर्वथा ।
प्रार्थितोऽहं सुरैः पूर्वं तारकस्य वधेप्सया ॥११॥
मद्गेतसः समुत्षन्नस्तारकं स हनिष्याति ।
इति मत्वा महादेवे रममाणे सहोमया ॥१२॥
उत्पाताश्च महाघोराः संप्रवृत्ताः सुदारुणाः ।
रुधिरास्थीनि वर्षन्तिः नदन्तो मेघसंकुलाः ॥१३॥
वायवश्च महावेगाः पर्वतांश्चालयन्ति ते ।
विमानानि सुराणां च निपेतुर्वसुधातले ॥१४॥
उल्काभिर्गगनं व्याप्तं पतन्तीभिर्द्विजोत्तमाः ।
केतवश्चोदिप्ताः सर्वे जृम्भन्त इव पावकाः ॥१५॥
दिग्दाहाश्च महाघोरा दावाग्निरिव संक्षये ।
मृत्युकाले यथा जन्तुर्नैव सोक्यमवाप्नुयात् ॥१६॥
जगत्त्रयमिदं कृत्स्नं न लभेत तथा सुखम् ।
न वेदाः पठितास्तस्मिन्न विप्रा जजपुर्जपम् ॥१७॥
पार्वत्यां कम्पमानायां कपमाने च शंकरें ।
त्रैलोक्यमभवन्नूनं कम्पमानं भयातुरम् ॥१८॥
कालाग्निकल्पितो देवो विरञ्चिर्मुनिभिः सह ।
चक्त्रायुधोऽपि चात्यर्थमिन्द्राद्यैः परिवारितः ॥१९॥
ये केचिद्देवगन्धर्वाः सिद्धा गगनचारिणः ।
विद्याधराश्च यक्षाश्च संप्राप्ताश्च वसुंधराम् ॥२०॥
एतस्मिन्नन्तरे प्राप्तः शक्रं देवर्षिसत्तमः ।
यथावन्मधुपर्काद्यैः शक्रस्तमभ्यपूजयम् ॥२१॥
अब्रवीद्देवराजस्तमुपविष्टं महामुनिम् ।
त्रिकालदर्शिनं शान्तमात्मनिष्ठं तपोनिधिम् ॥२२॥
शक्र उवाच -
उत्पाताश्च महाघोराः संप्रवृत्ताः सुदारुणाः ।
कारणं वद मे सर्वं शान्तिश्चैव यथा भवेत् ॥२३॥
नारद उवाच -
उमया सह विश्वेशः परं ज्योतिर्महेश्वरः ।
अहर्निशमविश्रान्तं युक्त एव प्रवर्तते ॥२४॥
तस्माद्धेतोः प्रवर्तन्त उत्पाता वृत्रहन्किल ।
विघ्नं तस्य प्रकर्तव्यं यदीच्छसि परं सुखम् ॥२५॥
उमागर्भसमुत्पन्नः सर्वस्मादधिको हि सः ।
कथं धारयितुं शक्ता ब्रह्माद्याः ससुरासुराः ॥२६॥
जगत्त्रयमिदं कृत्स्नं धरणी धारयिष्यति ।
नापत्यधारणे शक्ता संजातं शिवयोः खलु ॥२७॥
नारदस्य वचः श्रुत्वा शक्रो विस्मयतां गतः ।
तदा चिन्तार्णवे मग्नो देवैः सह पुरंदरः ॥२८॥
पङ्के गौरिव सीदत्सु देवेष्वथ जनार्दनः ।
उवाच श्लक्ष्णया वाचा देवानां हितकाम्यया ॥२९॥
श्रीविष्णुरुवाच -
शृणुध्वं देवताः सर्वाः कामासक्तो न शंकरः ।
युष्माकं हितकामाय भोगयुक्तोऽभवच्छिवः ॥३०॥
स्वतन्त्रशक्तिर्विश्वात्मा जितकामः स्वभावतः ।
संपूर्णकामः स विभुः कथं कामेन वाघ्यते ॥३१॥
तद्रेतसा समुत्पन्नस्तारकं स वधिष्यति ।
एतस्मात्कारणाद्देवो देव्या युक्तोऽभवत्सुराः ॥३२॥
किंतु तत्केवलोत्पन्नं सेन्द्रैरपि सुरासुरैः ।
तेजो धारयितुं तस्य न शक्यमिति निश्चितम् ॥३३॥
इदं यत्कार्यमुत्पन्नं व्याधिरूपं दिवौकसाम् ।
उपेक्षितं न संदेहो हन्यान्नूनं जगत्त्रयम् ॥३४॥
यदि तत्केवलो जातो भविष्यति सुरास्तदा ।
असह्यो दुर्धरो घोर इति तथ्यं न संशयः ॥३५॥
स एव विष्णुर्बलवानिन्द्रश्चैव प्रजापतिः ।
स चाऽऽदित्यः कुबेरश्च ईशानो वरुणस्तथा ॥३६॥
स यमः स च सोमश्च स वायुः स्वर्गवासिनः ।
स एव सर्वं भविता भवद्भिश्चेदुपेक्षितः ॥३७॥
दृश्यतेऽत्राप्युपायश्च कार्यस्यास्य सुरोत्तमाः ।
यस्मादग्निमुखा यूयं तस्मादग्निर्हि नान्यथा ॥३८॥
यदुग्रं गहनं घोरमप्रधृष्यमगोचरम् ।
हृदि यद्भवतां कार्यमग्निस्तत्साधयिष्यति ॥३९॥
एवमुक्त्वाऽथ विश्वादिः शङ्खचक्रगदाधरः ।
अब्रवीत्कृष्णवर्त्मानं देवानां सदसि स्थितम् ॥४०॥
श्रीविष्णुरुवाच -
शृणु मद्वचनं वह्ने देवानां यदुपस्थितम् ।
त्वया तत्साधनीयं हि हितार्थं त्रिदिवौकसाम् ॥४१॥
योऽसौ देवः परं ज्योतिर्नीलग्रीवो विलोहितः ।
रमते चोमया सार्धं चराचरपतिः शिवः ॥४२॥
भयं तस्मात्समुत्पन्नं कारणाद्धि दिवौकसाम् ।
तस्माद्धिताय गच्छ त्वं महादेवस्य संनिधौ ॥४३॥
मुखं त्वमेव सर्वेषां कार्याणां चैव साधकः ।
इत्येवं वचनं श्रुत्वा पावकः केशवात्तदा ॥
उवाचेदं मुनिश्रेष्ठाः श्रीवत्साङ्कितवक्षसम् ॥४४॥
अग्निरुवाच - यदुक्तं भवता देव किं त्वयुक्तं सनातन ।
महेशस्य रहःस्थस्य प्रवेष्टुं नैव सांप्रतम् ॥४५॥
ध्यानयुक्तो जनः कश्चिन्मन्त्रभोजनतत्परः ।
रहः स्थोऽथ च दानस्थस्तदयुक्तं प्रवेशनम् ॥४६॥
* ( कखपुस्तकेयोस्यं श्लोको नास्ति । )
* जाप्योपहारयुक्तो वा होमयुक्तोऽथवा भवेत् ।
अर्चनाभिरतः कश्चित्तदयुक्तं प्रवेशनम् ॥४७॥
प्राकृतस्यापि देवेश रहःस्थस्य रमापते ।
तस्मिन्काले सुरेशान गर्हितं तु प्रवेशनमू ॥४८॥
किं पुनर्भगवान्भमिस्तिग्मरश्मिर्महेश्वरः ।
देवानां च हितार्थाय प्रकृत्या सह संगतः ॥४९॥
नाहं तत्र विशे ननूं बिभेमि मधुसूदन ।
आगतं मां समालोक्य क्षणाच्छंभुर्हनिष्यति ॥५०॥
जुगुप्सितमिदं कार्यमिति कष्टं भयावहम् ।
विवस्त्रां जननीं देवीं कथं द्रक्ष्यामि केशव ॥५१॥
किं वक्ष्यति प्रविष्टस्य वक्ष्यामि किमहं विभो ।
जल्पयिष्यति मां देवो धिड्मूर्खोऽयमिति ध्रुवम् ॥५२॥
यद्भाव्यं तद्भवत्स्वद्य न करोमि च निद्नितम् ।
अग्निना चैवमुक्तस्तु विष्णुर्दानवसूदनः ॥५३॥
भयदं मोहदं श्रुत्वा वाक्यं हृदयकम्पनम् ।
उवाच भगवान्विष्णुः पुनर्वह्निमिति स्तुवन् ॥५४॥
त्रैलोक्यरक्षणार्थांय शक्रादीनां च संनिधौ ॥५५॥
विष्णुरुवाच -
यदुक्तं भवता वह्ने सत्यमेतन्न संशयः ।
आत्महेतोर्विरुद्धं स्यात्परार्थं नैव दुष्यसि ॥५६॥
प्रदिष्टो देवदेवेन संहारार्थं कपर्दिना ।
प्रविश त्वमणो रूपमादाय न हि दुष्यसि ॥५७॥
प्रस्तुताप्रस्तुतं नास्ति तेजोमूर्तेस्तवानध ।
सर्वदा सर्वगस्त्वं हि न क्कचित्प्रतिहन्यसे ॥५८॥
भूतग्रामं समस्तं वै त्यमेको व्याप्य तिष्ठसि ।
उदरस्थः पचस्यन्नं प्राणिनां मेषवाहन ॥५९॥
त्वयैकेन जगत्कृत्रनं गोप्यते यदि पावक ।
किं न प्रपतं त्वया ब्रूहि दोषः कः स्याद्धुताशन ॥६०॥
जुगुप्साऽस्मिन्न कर्तव्या त्वया वै हव्यवाहन ।
उत्पन्नस्यास्य कार्यस्य काल एष तवानघ ॥६१॥
त्रिदशाः शरणं प्रपतां हुतभुक्त्वां विभावसो ।
अहो धन्यतरश्चासि श्लाध्यो यदि करिष्यति ॥६२॥
कुरु कार्यं सुराणां त्वं मग्नानां करुणां कुरु ।
सर्वकाले यथा मर्त्या वीक्षमाणास्तु भास्करम् ॥६३॥
तथा तवाऽऽननं वह्ने पश्यन्ति सुरसत्तमाः ।
चारुचन्द्रप्रतीकाशं कुण्डलाभ्यामलंकृतम् ॥६४॥
अनेन किं न पर्याप्तं वद नूनं विभावसो ।
एवं संबोध्यमानोऽग्निर्विष्णुना द्विजसत्तमाः ॥६५॥
हृदये चिन्तितं तेन यास्मामि हरसंनिधौ ।
ततो मनोगतं ज्ञात्वा अग्नेर्देवास्तदाऽनघाः ॥६६॥
सेन्द्राः सवरुणादित्याः सयक्षोरगराक्षसाः ।
तुष्टुवुस्ते शुभैर्वाक्यैः पावकं द्विजसत्तमाः ॥६७॥३३४५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे साम्बक्रीडदिवर्णनं नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP