संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४५

सौरपुराणं - अध्यायः ४५

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
भूयोऽपि श्रोतुमिच्छामो माहात्म्यं परमेष्ठिनः ।
कथं सर्वात्मको रुद्रः कथं पाशुपतं व्रतम् ॥१॥
ब्रूहि सूत महाभाव सर्वमेतदसंशयम् ।
कथं नो जायते प्रीतिः श्रोतुं शिवकथामृतम् ॥२॥
सूत उवाच -
पुरा ब्रह्मादयो देवा द्रष्टुकामा महैश्वरम् ।
मन्दरं मययुः सर्वे शंभोः प्रियतरं गिरिम् ॥३॥
स्तुत्वा प्राञ्जलयो देवा हरस्त पुरतः स्थिताः ।
तान्दृष्ट्वाऽथ महादेवो लीलया परमेश्वरः ॥४॥
तेषामपहृतं ज्ञानं ब्रह्मादीनां दिवौकसाम ।
देवा ह्यपृच्छंस्तं देवमात्मानं पुरतः स्थितम् ॥५॥
* ( चछसंज्ञितपुस्तकयोरेवेद श्लोकार्धं वर्तते । )
* आसंस्ते सकृदज्ञानात्तमाहुः को भवानिति ।
अब्रवीद्भगवानीशो ह्यहमेव पुरातनः ॥६॥
आसं प्रथममेवाहं वर्तामि (?) च सुरोत्तमाः ।
भविष्यामि च लोकेऽस्मिन्मत्तो नान्योऽस्ति कश्चन ॥७॥
व्यतिरिक्तं च मत्तोऽस्ति नान्यत्किंचित्सुरात्तेमाः ।
नित्यानित्योऽहमेवास्मि ब्रह्माऽहं ब्रह्मणस्पतिः ॥८॥
दिशश्च विदिशश्चैव प्रकृतिश्च पुमानहम् ।
त्रिष्टुब्जगत्यनुष्टुप् च पक्तिश्छन्दस्त्रयीमयः ॥९॥
सत्योऽहं सर्वतः शान्तस्त्रेxxग्निर्गौरहं गुरुः ।
गौर्यहं च हरश्चाहं द्यौरहं जगतां प्रभुः ॥१०॥
श्रेष्ठोऽहं सर्वतत्त्वानां वरिष्ठोऽहमपां पतिः ।
आपोऽहं भगवानीशस्तेजोऽहं वेदिरप्यहम् ॥११॥
ऋग्वेदोऽहं यजुर्वेदः सामवेदोऽहमात्मभूः ।
अथर्वणोऽथ मन्त्रोऽहं तथा चाङ्गिरसां वरः ॥१२॥
इतिहासपुराणानि कल्पोऽहं कल्पना ह्यहम् ।
अक्षरं च क्षरं चाहं क्षान्तिः शान्तिरहं खगः ॥१३॥
गुह्योऽहं सर्वदेवेषु आरण्योऽहमजो‍ऽप्यहम् ।
पुष्करं च पवित्रं च मध्यं चाहं ततः परम् ॥१४॥
बहिश्चाहं तथा चान्तः पुरस्तादहमव्ययः ।
ज्योतिश्चाहं तमश्चाहं ब्रह्मविष्णुमहेश्वराः ॥१५॥
बुद्धिश्चाहमहंकारस्तन्मात्राणीन्द्रियाणि च ।
एवं सर्वं च मामेव यो वेद स सुरोत्तमः ॥१६॥
स एव सर्ववित्सर्वः सर्वात्मा सर्वदर्शनः ।
गां गोभिर्ब्राह्मणान्सर्वान्ब्राह्मण्येन हवींषि च ॥१७॥
हविषा यस्तथा सत्यं सत्येन च सुरोत्तमाः ।
धर्मे धर्मेण च तथा तर्पयामि स्वतेजसा ॥१८॥
इत्यादि भगवानुक्त्वा तत्रैवान्तरधीयत ।
नापश्यंस्ते ततो देवं रुद्रं परमकारणम् ॥१९॥
तं देवाः परमात्मानं रुद्रं ध्यायन्ति शंकरम् ।
सनारायणका देवाः सेन्द्राश्च मुनयस्तथा ॥२०॥
ततोर्ध्वबाहवो (?) देवा ह्यस्तुवञ्शंकरं तदा ।
देवा ऊचु -
य एष भगवान्रुद्रो ब्रह्मा विष्णुर्महेश्वरः ॥२१॥
स्कन्दश्चाग्निस्तथा चन्द्रो भुवनानि चतुर्दश ।
भूतानि च तथा सूर्यः सोमाद्यष्टौ ग्रहास्तथा ॥२२॥
प्राणः कालो यमो मृत्युरमृतं परमेश्वरः ।
भूतं भव्यं भविष्यं च वर्तमानं महेश्वरः ॥२३॥
विश्वं कृत्स्नं जगत्सर्वं सत्यं तस्मै नमो नमः ।
ओमादौ च तथा मध्ये भूर्भुवः स्वस्तथैव च ॥२४॥
अन्ते त्वं विश्वरूपोऽसि शीर्षं च जगतः सदा ।
ब्रह्मैकस्त्वं द्वित्रिधोर्ध्वमधस्तत्त्वं सुरेश्वरः ॥२५॥
* ( घङसंज्ञितपुस्तकयोस्यं श्लोको नास्ति । )
* शान्तिश्च त्वं तथा पुष्टिस्तुष्टिश्चाप्यहुतं हुतम् ।
विश्वं चैव तथाऽविश्वं दत्तं चादत्तमीश्वरः ॥२६॥
ऋतं वाऽप्यथवा देव परमप्यपरं ध्रुवम् ।
परायणं सतां चैव असतामपि शंकर ॥२७॥
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
किं नूनमस्मान्कृणवरदरातिः किमु धर्तिरमृत मर्त्यस्य ॥२८॥
एतज्जगद्वोदितव्यमक्षरं सूक्षमव्ययम् ।
प्राजापत्यं पवित्रं वा सौम्यमग्राह्यमग्रियम् ॥२९॥
आग्नेयेनापि चाऽऽग्नेयं वायव्येन समीरणम् ।
सौम्येन सौम्यं ग्रसते तेजसा स्वेन लीलया ॥३०॥
तस्मै नभोऽपसंहर्त्रे महाग्रासाय शूलिने ।
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः ॥३१॥
हृदि त्वमसि योनिस्त्वं तिस्रो मात्रा परस्तुः सः ।
शिरश्चोत्तरतस्तस्य पादो दक्षिणतस्तथा ॥३२॥
= ( ङसंज्ञितपुस्तकेऽयं श्लोको नास्ति । )
= स यो जीवोत्तरः साक्षात्स आकारः सनातनः ।
ओंकारो य स वै देवः प्रणवो व्याप्य तिष्ठति ॥३३॥
अनन्ततारः सूक्ष्मश्च शुक्लं वैद्युतमेव च ।
परब्रह्म स ईशान एको रुद्रः स एव च ॥३४॥
भवान्महेश्वरः साक्षान्महादेवो न संशयः ।
ऊर्ध्वमुन्नामयत्येवं स ओंकारः प्रकीर्तितः ॥३५॥
प्राणान्नयति यत्तस्मात्प्रणवः परिभाषितः ।
सर्वं व्याप्नोति यत्तस्मात्सर्वव्यापी सनातनः ॥३६॥
ब्रह्मा हरिश्च भगवानाद्यन्तं नोपलब्धवान् ।
यथाऽन्ये च ततोऽनन्तो रुद्रः परमकारणम् ॥३७॥
यत्तारयति संसारात्तार इत्यभिधीयते ।
सूक्ष्मो भूत्वा शरीराणि सर्वदा ह्यदितिष्ठति ॥३८॥
तस्मात्सूक्ष्मः सदा ख्यातो भगवान्नीललोहितः ।
नीलश्च लोहितश्चैव प्रधानपुरुषान्वयात् ॥३९॥
स्कन्दतेऽस्य यतः शुक्रं ततः शुक्रमयीति च ।
विद्योतयति यत्तस्माद्वैद्युतं परिगीयते ॥४०॥
बृहत्त्वाद्बृहणाद्ब्रह्म बृहते च परापरम् ।
तस्माद्बृहति यत्तस्मात्परं ब्रह्मेति कीर्तितम् ॥४१॥
अद्वितीयो‍ऽथ भगवांस्तुरीयः शिव ईशते [?] ।
ईशानमस्य जगतः स्वर्दृशं बभ्रुमीश्वरम् ॥४२॥
ईशानमिन्द्र तस्थुषः सर्वेषामपि सर्वदा ।
ईशानः सर्वविद्यानां यत्तदीशानमुच्यते ॥४३॥
यदीक्षते च भगवान्निरीक्षयति चान्यथा ।
आत्मज्ञानं महादेवो योगो गमयति स्वयम् ॥४४॥
भगवांश्चोच्यते तेन देवदेवो महेश्वरः ।
सर्वाल्लोकाम्क्रमेणैव वो गृह्णाति महेश्वरः ॥
विसृजत्येष देवेशो वासयत्यपि लीलया ॥४५॥
एष हि देवः प्रदिशो नु सर्वाः पूर्वो हि जातः स उ गर्भे अन्तः ।
स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः ॥४६॥
उपासितयं यत्नेन तदेतत्सद्भिरग्रियम् ।
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥४७॥
तदग्रहणमेवेह यद्वाग्वदति यत्नतः ।
अपरं च परं चेति पारायणमिति स्वयम् ॥४८॥
वदन्ति वाचः सर्वज्ञं शंकरं नीललोहितम् ।
एष सर्वो नमस्तस्मै पुरुषः पिङ्गलः शिवः ॥४९॥
स एकः स महारुद्रो विश्वं भूतं भविष्यति ।
भुवनं बहुधा जातं जायमानमितस्ततः ॥५०॥
हिरण्यबाहुर्भगवान्हिरण्यमपि चेश्वरः ।
अम्बिकापतिरीशानो हेमरेता वृषध्वजः ॥५१॥
उमापतिर्विरूपाक्षो विश्वभुग्विश्ववाहनः ।
ब्राह्मणं विदधे योऽसौ पुत्रमग्नेः सनातनम् ॥५२॥
प्रहिणोति स्म तस्मै च ज्ञानमात्मप्रकाशकम् ।
तमेकं पुरुषं रुद्रं पुरुहूतं पुरुष्टुतम् ॥५३॥
बालाग्रमात्रं हृदयस्य मध्ये विश्वदेवं वह्निरूपं वरेण्यग् ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥५४॥
महतोऽपि महीयान्स अणोरप्यणुरव्ययः ।
गुहायां निहितश्चाऽऽत्मा जन्तोरस्य महेश्वरः ॥५५॥
विश्वं भूतं च विश्वस्य कमलं स्याद्धृदि स्वयम् ।
गह्वरं गगनान्तस्थं विश्वान्तश्चोर्ध्वतः स्थितम् ॥५६॥
तत्रापि शुभ्रं गगनमोंकारं परमेश्वरम् ।
वालाग्रमात्रं मध्यस्थमृतं परमकारणम् ॥५७॥
सत्यं ब्रह्म महादेवं पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतसमीशानं विरूपाक्षमजं ध्रुवम् ॥५८॥
अधितिष्ठति यो योनिं योनिश्चैव स ईश्वरः ।
देहे पञ्चविधात्मानं तमीशानं पुरातनम् ॥५९॥
प्राणेऽप्यन्तर्मनसो लिङ्गमाहुर्यस्मिन्क्रोधो या च तृष्णा क्षमा च ।
तृष्णां छित्त्वा हेतुजातस्य मूलं भजस्व देवं हरमेव केवलम् ॥६०॥
परात्परतरं चाऽऽहुः परात्परतरं ध्रुवम् ।
ब्रह्मणो जनकं विष्णोर्वह्नेर्वायोः सदाशिवम् ॥६१॥
ध्यात्वाऽग्निना च समग्निं विशेद्वाचः पृथक्पृथक् ।
पञ्च भूतानि संयभ्य मत्रागुणविधिक्रमात् ॥६२॥
मात्राः पञ्च चतस्रश्च त्रिमात्रा द्विस्ततः परम् ।
एकमात्रममात्रं हि द्वादशान्तेष्ववस्थितम् ॥६३॥
स्थित्यां स्थाप्यामृतो(?)भूत्वा व्रतं पाशुपतं चरेत् ।
एतद्व्रतं पाशुपतं चरिष्यामः समासतः ॥६४॥
अग्निमाधाय विधिवदृग्यजुःसामसंभवैः ।
उपोषितः शुचिः स्नातः शुक्लाम्बरधरः स्वयम् ॥६५॥
शुक्लयज्ञोपवीती च शुक्लमाल्यानुलेपनः ।
जुहुयाद्विरजा विद्वान्विरजाः स भविष्यति ॥६६॥
वायवः पञ्च शुद्ध्यर्थं वाङ्मनश्चरणादयः ।
श्रोत्रे जिह्वा तथा घ्राणं मनो बुद्धिस्तथैव च ॥६७॥
* ( वसंज्ञितादर्शपुस्तके श्लोकाऽयं न विद्यते । )
* शिरः पाणिस्तथा पार्श्वं पृष्ठोदरमनन्तरम् ।
जङ्धे शश्वदुपस्थं च पायुं मेढूं तथैव च ॥६८॥
त्वक्च मांसं च रुधिरं मेदोऽस्थीनि तथैव च ।
शब्दं स्पर्शं च रूपं च रसो गन्धस्तथैव च ॥६९॥
भूतानि चैव शुध्यन्तां मद्देहे क्ष्मादयस्तथा ।
अन्तःप्राणमनोज्ञानं शुध्यतां मे शिवेच्छया ॥७०॥
हुत्वा येन समिद्भिश्च वरुणाय यथाक्रमम् ।
उपसंहृत्य रुद्राग्निं गृहीत्वा भस्म यत्नतः ॥७१॥
अग्निरित्यादिना धीमान्विमृज्याङ्गानि संस्पृशेत् ।
एतत्पाशुपतं दिव्यं व्रतं पाशविमोक्षणम् ॥७२॥
ब्राह्मणानां सतां प्रोक्तं क्षत्त्रियाणां तथैव च ।
वैश्यानाभपि योग्यानां यतीनां च विशेषतः ॥७३॥
वानप्रस्थाश्रमस्थानां गृहस्थानां सतामपि ।
विमुक्तिर्विधिनाऽनेन दृष्टा वै ब्रह्मचारिणाम् ॥७४॥
अग्निरित्यादिना सम्यग्गृहीत्वा ह्य्ग्निहोत्रकम् ।
सोऽपि पाशुपतो विप्रो विमृज्याङ्गानि संस्पृशेत् ॥७५॥
भस्मच्छन्नो द्विजो विद्वान्महापातकसंभवैः ।
पापैर्विमुच्यते सत्यं लिप्यते च न संशयः ॥७६॥
वीर्यमग्नेर्यतो भस्म वीर्यमान्भस्मसंमतः ।
भस्मस्नानरतो विप्रो भस्मशायी जितेन्द्रियः ॥७७॥
सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ।
इत्युक्त्वा भगवान्ब्रह्मा स्तुत्वा देवं समप्रभुः ॥७८॥
भस्मच्छन्नः स्वयं कृत्स्नं विररामाम्बुजासनः ।
अथ तेषां प्रसादार्थं पशूनां पतिरीश्वरः ॥७९॥
स गत्वा चोमया सार्धं सांनिध्यमकरोत्प्रभुः ।
अथ संनिहितं रुद्रं तुष्टुवुः सुरपुंगवाः ॥८०॥
रुद्राध्यायेन देवेशं देवदेवमुमापतिम् ।
देवोऽपि देवानालोक्य घृणया च वृषध्वजः ॥८१॥
तुष्टोऽस्मीत्याह देवेशो वरं दत्त्वा वरारिहा ।
क्षणादन्तर्हितः शंभुर्ब्रह्मादीनां प्रपश्यताम् ॥८२॥
सूत उवाच -
इमं यः पठतेऽध्यायं शुचिर्भूत्वा समाहितः ।
सर्वतीर्थफलं चैव सर्वयज्ञफलं तथा ॥८३॥
सर्वदेवव्रतफलं सर्वस्तोत्रफलं तथा ।
प्राप्नोति सकलं विप्राह श्रद्धया शिवसंनिधौ ॥८४॥
गाणपत्यमवाप्नोति देहान्ते मुनिपुंगवाः ॥८५॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे सर्वात्मकरुद्रपाशुपतव्रतकथनं नाम पञ्चचत्वारिंशोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP