संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः २६

सौरपुराणं - अध्यायः २६

सौरपुराणं व्यासकृतम् ।


सूत उवाच -
हिरण्यगर्भः शिवयोर्लब्ध्वा वरमनुत्तमम् ।
असृजद्भगवान्ब्रह्मा मरीच्यादीनकल्मषान् ॥१॥
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं ऋतुम् ।
दक्षमत्रिं वसिष्ठं च सोऽसृजन्मनसा विभुः ॥२॥
देवासुरमनुष्यांश्च पितृंश्चापि प्रजापतिः ।
असृजत्क्रमशः सर्वानन्धकारे च राक्षसांन् ॥३॥
गन्धर्वान्स तथा नागान्यक्षांश्चापि सहस्रशः ।
असुजन्मुखतो विप्रान्बाहुभ्यां क्षत्त्रियान्विभुः ॥४॥
ऊरुद्वयात्तथा वैश्यान्पादाच्छूद्रान्ससर्ज ह ।
छन्दांसि वेदान्यज्ञांश्च कल्पसूत्रमतः परम् ॥५॥
वेदाङ्गानि ततः सृष्ट्वा मैथुनप्रभवामतः ।
सृष्टिं कर्तुं मतिं चक्रे देवदेवः पितामहः ॥६॥
स्वयमप्यर्धतो नारी त्वर्धेन पुरुषोऽ‍भवत् ।
अर्धेन नारी या तस्माच्छतरूपाऽभ्यजायत् ॥७॥
स्वायंभुवं मनुं ब्रह्मा चार्धेन वपुषाऽसृजत् ।
शतरूपा च या देवी तपस्वप्त्वा सुदुश्चरम् ॥८॥
अन्वपद्यत भर्तारं मनुं स्वायंभुवं द्विजाः ।
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवात्सुतौ ॥९॥
महात्मानौ महावीर्यौ शतरूपा ब्यजीजनत् ।
द्वे कन्ये लक्षणोपेते द्वाभ्यां सृष्टिरवर्धत ॥१०॥
आकूतिश्च प्रसूतिश्च रुचये प्रथमां ददौ ।
प्रसूतिं चैव दक्षाय स्वयं देवो गनुर्विराट् ॥११॥
चतस्रो विंशतिः कन्याः प्रसूत्यां संबभूविरे ।
धर्माय प्रददौ दक्षः श्रद्धाद्या वै त्रयोदश ॥१२॥
ददौ स भृगवे ख्याति सतीं देवाय शूलिने ।
मरीचये च संभूतिं स्मृतिमङ्गिरसे तथा ॥१३॥
पुलस्त्याय ददौ प्रीतिं पुलहाय तथा क्षमाम् ।
संततिं कृतवे चैव अनसूयां तथाऽत्रये ॥१४॥
वसिष्ठाय ददाबूजां स्वधां पितृगणाय च ।
पावकाय तथा स्वाहां ददौ दक्षः प्रजापति ॥१५॥
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया ।
देवौ धाताविधातारौ मेरोर्जामातरौ शुभौ ॥१६॥
आयतिविंयतिश्चैव मेरोः कन्ये गहात्मनः ।
बभूवतुस्तयोः पुत्रौ प्राणश्चाऽऽद्यश्च कथ्यते ॥१७॥
मृकण्डुरथ तत्पुत्रो मार्कण्डेयो मृकण्डुतः ।
अभूद्वेदशिरा नाम प्राणस्य मुनिसत्तमाः ॥१८॥
मरीचेरपि संभूतिः पौर्णमासमसूयत ।
कन्याचतुष्टयं चैव श्रद्धादीनां द्विजोतमाः ॥१९॥
कर्दमं चाम्बरीषं च पुलहात्सुषुबे क्षमा ।
दुर्वाससं तथा सोमं दत्तात्रेयं त्त योगिनम् ॥२०॥
अनसूया तु सुषुवे पुत्रानत्रेरकल्मषात् ।
सिनीवालीं कुहूं चैव राकामनुमतिं तथा ॥२१॥
स्मृतिश्चाङ्गिरसः पुत्रीः सूते लक्षणसंयुताः ।
प्रीत्यां पुलस्त्यादभवद्दत्तो निर्मानवैः सुतः ॥२२॥
पूर्वजन्मनि योऽगस्त्यः ख्यातः स्वार्यभुवेऽन्तरे ।
पुत्राणां षष्टिसाहस्रं संततिः सुषुवे क्रतोः ॥२३॥
बालखिल्या इति ख्याताः सर्वे ते चोर्ध्वरेतसः ।
वसिष्ठश्च तथोर्जायां सप्त पुत्रानजीजनत् ॥२४॥
रजो गोत्रोऽर्ध्वबाहुश्च सवनश्चानघस्तथा ।
सुतपाः शुक्लैत्येते पुण्डरीका च कन्यका ॥२५॥
ब्रह्मणस्तनयो वह्निर्योऽसौ रुद्रात्मकः स्मृतः ।
तस्मात्स्वाहा सुतॉंलेभे त्रीनुदारान्गुणाधिकान् ॥२६॥
पावकः पवमानश्च वैद्युतः पावकः स्मृतः ॥२७॥
सूर्ये तपति यो वह्निः शुचिरग्निरिहेष्यते ।
बभूवुः संततौ तेषां चत्वारिंशच्च पञ्च च ॥२८॥
पावकाद्यास्त्रयश्चैते चत्वारिंशत्तथा नव ।
यज्ञेषु भागिनः सवें तथा सर्वे तपश्विनः ॥२९॥
रुद्रार्चनपराः सर्वे त्रिपुण्ड्राङ्कितगस्तकाः ।
अयज्वानश्च यज्वानः पितरो ब्रह्मणः सुता ॥३०॥
श्रग्निप्वात्ता वर्हिषदो द्विधा तेषा व्यवस्थितिः ।
स्वधाऽनुसुषुवे तेभ्यः कन्ये द्वे लोकविश्रुते ॥३१॥
मेनां च धारिणीं तत्र योगमार्गरते उभे ।
मेना हिमवतः सूते मैनाकं कौञ्चमेव च ॥३२॥
गौरीं च गङ्गां च ततः कन्ये द्वे लोकमातरौ ।
मेरोस्तु धारिणी सूते मन्दरं चारुकन्दरम् ॥३३॥
महादेवप्रियतमं नानाधातुविचित्रितम् ।
धारिणी सुषुवे वेलां नियतिं चाऽऽयर्ति तथा ॥३४॥
सागरात्सुषुवे वेला सामुद्रीं नाम नामतः ।
प्राचीनबर्हिषा सा च दक्ष पुत्राजनीजनत् ॥३५॥
प्राचेतस इति ख्याताः सर्वे स्वायंभुवेऽन्तरे ।
भवशापादभूत्पुत्रो येषां दक्षः प्रजापतिः ॥३६॥
एषा दक्षस्य कन्यानां संततिः कथिता मया ।
अथेदागीं मनोः पुत्रसंततिं कथयामि वः ॥३७॥११६१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे मरीच्यादिसर्गदक्षकन्यासंततिकथनं नाम षङ्विंशोऽध्यायः ॥२६॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP