संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ३६

सौरपुराणं - अध्यायः ३६

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
गाणपत्यं कथं लब्धमीश्वरादुपमन्युना ।
क्षीरोदधिः कथं लब्धो ह्येतदाख्यातुमर्हिसि ॥१॥
सूत उवाच -
* ( कस्रपुस्तकयोर्मध्य एव श्लोको न दृश्यते । )
* उपमन्युरिति ख्यातो योऽसौ धौम्याग्रजो मुनिः ।
महादेवाल्लब्धवरो द्वितीय एव षण्मुखः ॥२॥
क्रीडमानो महाभागः कदाचिन्मातुलाश्रमे ।
तस्यैव च गृहे पीतं क्षीरं तेनोपमन्युना ॥३॥
अब्रवीन्मातरं बालः पुनरेत्य स्वमाश्रमम् ।
मातर्ममाद्य तद्देहि क्षीरं स्वादुतरं ततः ॥४॥
तन्माता दुःखिता भूत्वा पुत्रमालिङ्ग्य सादरम् ।
बीजान्यथ समादाय पिष्ट्वा सा कलभाषिणी ॥५॥
पुत्राय प्रददौ क्षीरं सामपूर्वं च कृतिमम् ।
मात्रा दत्तं ततः पीत्वा पयः स मुनिपृंगवाः ॥६॥
मातः षयस्त्वया दत्तं नैतदित्यब्रवीद्वचः ।
अश्रुपूर्णैक्षणं दृष्ट्वा पुत्रं माता सुदुःखिता ॥७॥
नेत्रे संमार्ज्य हस्ताभ्यां पुत्रं प्रतीदमब्रवीत् ।
वने निवसतां पुत्र दरिद्राणां विशेषतः ॥८॥
यत्त्वया याच्यते क्षीरं तत्सदा दुर्लभं हि नः ।
भुक्तिश्च शिवकारुण्याल्लभ्यते नान्यथा सुत ॥९॥
सूत उवाच -
एवं मातुर्वचः श्रुत्वा बालोऽपि मुनिपुंगवाः ।
मातरं प्राह कल्याणीं विनयेन तषस्विनीम् ॥१०॥
उपमन्युरुवाच -
मातः शोकं त्यज क्षिप्रं यद्यस्ति भगवाञ्शिवः ।
क्कचिदप्यानयाभ्याशु क्षीराब्धिं तव संनिधौ ॥११॥
एवमुक्त्वाऽथ तां नत्वा मातरं मुनिबालकः ।
जगाम स तपस्तप्तुं मातुराज्ञाप्रणोदितः ॥१२॥
उपमन्धुस्तपस्तेपे गत्वा तु हिमपर्वतम् ।
भूत्वाऽनिलाशनो विप्रा वहून्यब्दशतानि सः ॥१३॥
तस्योपमन्योस्तपसा प्रदीप्तं भुवनत्रयम् ।
दृष्ट्वा तदीदृशं देवा विष्णुं गत्वेदमब्रुवन् ॥१४॥
* ( कस्रगसंज्ञितपुस्तकेष्वेव पदद्वयमिदं दृष्टम् । )
* देवा ऊचु -
देवदेव जगन्नाथ पुराण पुरुषोत्तम् ।
त्रैलोक्यं दहृतो वह्णेरस्मांस्त्रातुमिहार्हसि ॥१५॥
श्रुत्वा तदीरितं विष्णुः संचिन्त्य मनसा तदा ।
जगाम शंकरं द्रष्टुं मन्दरं पर्वतोत्तमम् ॥१६॥
महादेवं प्रणम्याथ दृष्ट्वा त्रिष्णुः कृताञ्जलिः ।
अब्रवीद्भगवान्कश्चिद्बालको हिमवद्गिरौ ॥१७॥
उपमन्युरिति ख्यातः क्षीरार्थं तपसि स्थितः ।
तपोग्निस्तस्य भगवन्दन्दहीति जगत्त्रयम् ॥१८॥
अथ देवो महादेवः परमात्मा शिवः स्वयम् ।
इन्द्ररूपं समास्थाय जगाम हिमवद्गिरिम् ॥१९॥
ऐरावतं समारुह्य देवसंघैः समावृतः ।
वामेन शच्या सहितो मुनेस्तस्य तपोवनम् ॥२०॥
शक्ररूपधरः शंभुः प्रीत्या भृत्वाऽथ सुव्रताः ।
वरं ब्रूहीत्युवाचेदमुपमन्युं महामुनिम् ॥२१॥
इतीरितं वचस्तस्य श्रुत्वा वज्रधरस्य सः ।
ततः प्रहसितः प्राह शिवेऽर्पितमनाः स्वयम् ॥२२॥
भक्तिं शूलिन्यहं याचे शिवादेव न चान्यथा ।
अलमन्यैर्वरैः शक्र तरङ्गैरिव चञ्चलैः ॥२३॥
निमिषं निमिषार्धं वा मुहूर्तं क्षणमेव वा ।
न ह्यलब्धप्रसादस्य भक्तिर्भवति शंकरे ॥२४॥
त्वत्पदं तुच्छवद्भाति ब्रह्मत्वं चापि वृत्तहन् ।
भक्तिरेव विरूपाक्षे भवत्विति मतिर्मम ॥२५॥
तस्मिन्महेश्वरे शक्र भक्तिश्चेद्यदि लभ्यते ।
ब्रह्मत्वमपि मे भाति पलालमिव नान्यथा ॥२६॥
एवं मुनेर्निगदिंत श्रुत्वा कुपितवत्प्रभुः ।
तमब्रवीच्छचीनाथो न मां वेत्सि कथं मुने ॥२७॥
मत्परो मन्नमस्कारी मत्पूजनपरो भव ।
मयि प्रसन्ने जगति दुर्लभं किमिहास्ति ते ॥२८॥
किं तेन पार्वतीशेन निर्गुणेन महात्मना ।
क्रियते मुनिशार्दूल तस्मान्मत्तो वरं वृणु ॥२९॥
एवं शक्रस्य वचनं श्रुत्वा मुनिवराग्रणीः ।
उपमन्युरभूत्क्रुद्धश्चिन्तयानस्तदा द्विजाः ॥३०॥
अहो कश्चिदिहाऽऽयातः पापात्मा राक्षसाधमः ।
शक्ररूपं समास्थाय मत्तपोविघ्नहेतवे ॥३१॥
तस्मादसौ निहन्तव्यः शिवनिन्दाकरो यतः ।
तन्निन्दाश्रवणात्पापादधिकं तदुपेक्षणात् ॥३२॥
शिवनिन्दाकरं दृष्ट्वा घातयित्वा प्रयत्नतः ।
हत्वाऽऽत्मानं पुनर्यस्तु स याति परमां गतिम् ॥३३॥
इति शास्त्रं समुद्दिश्य शक्रं हन्तुं समुद्यतः ।
अब्रवीत्सुरराजानमुपमन्युर्मुनीश्वराः ॥३४॥
क्षीरार्थं यत्तपस्तावदास्तामत्र शचीपते ।
त्वां निहत्याऽऽत्मनो देहं दहिष्ये (?) योगवह्निना ॥३५॥
एवमुक्त्वा समादाय भस्मनो मुष्टिमादरात् ।
अथर्वास्त्रेण तज्जप्त्वा शक्रं दग्धुं मुमोच सः ॥३६॥
वह्निधारणयाऽऽत्मानं दग्धुं समुपचक्त्रमे ।
ध्यायन्विश्वेश्वरं देवं परमात्मानमव्ययम् ॥३७॥
एवं व्यवसिते तस्मिन्पिनाकी नीललोहितः ।
सौम्यधारणयाऽऽग्नेयीं वारयामास शंकरः ॥३८॥
शैलादिनाऽन्यथा तत्र संहृतां चातिभीषणाम् ।
अथ विश्वाधिपो रुद्रो भक्तिं ज्ञात्वा दृढां मुनेः ॥३९॥
आत्मानं दर्शयामास कोटिसूर्यसमप्रभम् ।
पञ्चवक्त्रं दशभुजं बालेन्दुकृतशेखरम् ॥४०॥
द्वीपिचर्मपरीधानं त्रिपञ्चनयनं विभुम् ।
तं दृष्ट्वा कृतकृत्योऽभूदुपमन्युर्महामुनिः ॥४१॥
स्तोत्रैर्नानाविधैर्दिव्यैस्तुष्टाव परमेश्वरम् ।
तस्मै प्रसन्नो भगवान्दत्तवान्क्षीरसागरम् ॥४२॥
गाणपत्यं च दुष्प्रापं ब्रह्माद्यैरपि सुव्रताः ।
यद्दत्तं देवदेवेन नाभूत्तत्राऽऽदरो मुनेः ॥४३॥
भक्तिमेव विरूपाक्षे पुनः पुनरयाचत ।
एवं दत्त्वा वरं तस्मै महादेवः सहोमया ॥४४॥
स्तूयमानः सुरगणैस्तत्रैवान्तरधीयत ॥४५॥
यः पठेदिदमाख्यानमुषमन्योर्महात्मनः ।
सर्वपापविनिर्मुक्तो ब्रह्मलोकं स गच्छति ॥४६॥१६९१॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे उपमन्यूपाख्यान कथनं नाम षट्त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP