संस्कृत सूची|संस्कृत साहित्य|पुराण|सौरपुराणं व्यासकृतम् ।|
अध्यायः ४१

सौरपुराणं - अध्यायः ४१

सौरपुराणं व्यासकृतम् ।


ऋषय ऊचु -
सुदर्शनाख्यं यच्चक्रं लब्धवांस्तत्कथं हरिः ।
महादेवाद्भगवतः सूत तद्वक्तुमर्हसि ॥१॥
सूत उवाच -
देवासुराणामभवत्सङ्ग्रामोऽद्भुतदर्शनः ।
देवा विनिर्जिता दैत्यैर्विष्णु शरणमागताः ॥२॥
स्तुत्वा तं विविधैः स्तोत्रैः प्रणम्य पुरतः स्थिताः ।
भयभीताश्च ते सर्वे क्षताङ्गाः क्लेशिता भृशम् ॥३॥
तान्दृष्ट्वा प्राह भगवान्देवदेवो जनार्दनः ।
किमर्थमागता देवा वक्तुमर्हथ सांप्रतम् ॥४॥
वचः श्रुत्वा हरेदेवाः प्रणम्योचुः सुरोत्तमाः ।
निर्जिता दानवैः सर्वे शरणं त्वामिहाऽऽगताः ॥५॥
गतिस्त्वमेव देवानां त्राता त्वं पुरुषोत्तम ।
हन्तुमर्हसि ताञ्शिघ्रमवध्यान्वारिजेक्षण ॥६॥
जालंधरवधार्थाय यच्चक्रं शूलपाणीनः ।
महादेववराल्लब्धं जहि तेन महाबलान् ॥७॥
तेषां तद्वचनं श्रुत्वा भगवान्वारिजेक्षणः ।
अहं देवास्तथा नूनं करिष्यामीति सुव्रताः ॥८॥
हिमवत्पर्वतं गत्वा पूजयामास शंकरम् ।
लिङ्गं तत्र प्रतिष्ठाप्य स्नाप्य गन्धोदकैः शुभैः ॥९॥
त्वरिताख्येन रुद्रेण संपूज्य च महेश्वरम् ।
ततो नाम्नां सहस्रेण तुष्टाव परमेश्वरम् ॥१०॥
* ( घङसंज्ञितपुस्तकयोरेष श्लोको न विद्यते । )
* प्रतिनाम च पद्मानि तैरिष्ट्वा वृषभध्वजम् ।
भवाद्यैर्नामभिर्भक्त्या स्तोतुं समुपचक्रमे ॥११॥
विष्णुरुवाच - भवः शिवो हरो रुद्रः पुष्कलो मुग्धलोचनः ।
अग्रगण्यः सदाचारः सर्वः शंभुर्महेश्वरः ॥१२॥
ईश्वरः स्थाणुरीशानः सहस्राक्षः सहस्रपात् ।
वरीयान्वरदो वन्द्यः शंकरः परमेश्वरः ॥१३॥
गङ्गाधरः शूलधरः परार्थैकप्रयोजकः ।
सर्वज्ञ सर्वदेवादीर्गिरिधन्वा जटाघरः ॥१४॥
चन्द्रापीडश्चन्द्रमौलिर्वेधा विश्वाभरेश्वरः ।
वेदान्तसारसंदोहः कपाली नीललोहितः ॥१५॥
ध्यानाहारोऽपरिच्छेद्यो गौरीभर्ता गणेश्वरः ।
अष्टमूर्तिर्विश्वमूर्तिस्त्रिवर्गः स्वर्गसाधनः ॥१६॥
ज्ञानगम्यो दृढप्रज्ञो देवदेवस्त्रिलोचनः ।
वामदेवो महादेवः पटुः परिवृढो दृढः ॥१७॥
विश्वरूपो विरूपाक्षो वागीशः श्रुतिमन्त्रगः ।
सर्वप्रणवसंवादी वृषाङ्को वृषवाहनः ॥१८॥
ईशः पिनाकी खट्वाङ्गी चित्रवेषाश्चिरंतनः ।
मनोमयो महायोगी स्थिरो ब्रह्माण्डधूर्जटी ॥१९॥
कालकालः कृत्तिवासाः सुभगः प्रणवात्मकः ।
नागचूडः सुचक्षुष्यो दुर्वासाः पुरशासनः ॥२०॥
दृगायुधः स्कन्दगुरुः परमेष्ठी परायणः ।
अनादिमध्यनिधनो गिरीशो गिरिजाधवः ॥२१॥
कुबेरबन्धुः श्रीकण्ठो लोकवन्द्योत्तमो मृदुः ।
सामान्यो देवको दण्डी नीलकण्ठः परश्वधीः ॥२२॥
विशालाक्षो महाव्याधं सुरेशः सूर्यतापनः ।
धर्मधामा क्षमाक्षेत्रं भगवान्भगनेत्रहा ॥२३॥
उग्रः पशुपतिस्तार्क्ष्यः प्रियभक्तः प्रियंवदः ।
दाता दयाकरो दक्षः कपर्दी कामशासनः ॥२४॥१००॥
श्मशाननिलयास्तिष्यः श्मशानस्थो महेश्वरः ।
लोककर्तां भूतपतिर्महाकर्ता महौषधिः ॥२५॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
नीतिः सुनीतिः शुद्धात्मा सोमः सोमरतः सुधीः ॥२६॥
सोमपोऽमृतपः सौम्यो महानीतिर्महास्मृतिः ।
अजातशत्रुरालोक्यः संभाव्यो हव्यवाहनः ॥२७॥
लोककारो वेदकारः सूत्रधारः सनातनः ।
महर्षिः कपिलाचार्यो विश्वदीप्तिर्विलोचनः ॥२८॥
पिनाकपाणिर्भूदेवः स्वस्तिकृत्स्वस्तिदः सुधा ।
धात्रीधामा धामकरः सर्वगः सर्वगोचरः ॥२९॥
ब्रह्मसृग्विश्वसृक्सर्गः कर्णिकारः प्रियः कविः ।
शाखो विशाखो गोशाखः शिवो भिषगनुत्तम ॥३०॥
गङ्ग प्लवोदको भव्यः पुष्कलः स्थपतिः स्थित ।
विजितात्मा विधेयात्मा भूतवाहनसारथिः ॥३१॥
सगणो गणाकायश्च सुकीर्तिच्छिन्नसंशयः ।
कामदेवः कामकालो भस्मोद्दूलितविग्रहः ॥३२॥
भस्मप्रियो भस्मशायी कामी कान्त क्रुतागमः ।
समावृत्तो निवृत्तात्मा धर्मपुञ्जः सदाशिवः ॥३३॥
अकल्मषश्चतुर्बाहुः सर्वावासो दुरासदः ।
दुर्लभो दुर्गमो दुर्गः सर्वायुधविशारदः ॥३४॥
अध्यात्मयोगनिलयः सुतन्तुस्तन्तुवर्धनः ।
शुभाङ्गो योगसारङ्गो जगदीशो जनार्दनः ॥३५॥
भस्मशुद्धिकरो मेरुस्तेजस्वीं शुधविग्रहः ॥२००॥
हिरण्यरेतास्तरणिर्मरीचिर्महिमालयः ॥३६॥
महाहृदो महागतः सिद्धवृन्दारबन्दितः ।
व्याघ्रचर्मधरो व्याली महाभूतो महानिधिः ॥३७॥
* ( अम्रुतात्मेत्यादिविधिरित्यन्तं कखगझसंज्ञितपुस्तकेषु नास्ति । )
* अमृतात्माऽमृतवपुः पञ्चयज्ञ प्रभञ्जनः ।
पञ्चविंशतितत्त्वस्थः पारिजातः परापरः ॥३८॥
सुलभः सुव्रतः शूरो वाग्मयैकनिधिर्निधिः ।
वर्णाश्रमगुरुर्वर्णी शत्रुजिच्छत्रुतापनः ॥३९॥
आश्रमः क्षपणः क्षामो ज्ञानबान्चलश्चलः ।
प्रमाणभूतो दुर्ज्ञेयः सुपर्णो वायुवाहनः ॥४०॥
धनुर्घरो धनुर्वेदो गुणराशिर्गुणाकरः ।
अनन्तदृष्टिरानन्दो दण्डो दमयिता दमः ॥४१॥
अविद्यो महाकायो विश्वकर्मा विशारदः ।
वीतरागो विनीतात्मा तपस्वी भूतवाहनः ॥४२॥
उन्मत्तवेषः प्रच्छन्नो जितकामो जितप्रियः ।
कल्याणप्रकृतिः कल्पः सर्वलोकप्रजापतिः ॥४३॥
तपस्वी तारको धीमान्प्रधानप्रभुरव्ययः ।
लोकपालोऽन्तर्हितात्मा कल्पादिः कमलेक्षणः ॥४४॥
वेदशास्त्रार्थतत्त्वज्ञो नियमो नियमाश्रयः ।
राहुः सूर्यः शनिः केतुर्विरामो विद्रुमच्छविः ॥४५॥
भक्तिगम्यः परं ब्रह्म मृगबाणार्पणोऽनघः ।
अद्रिद्रोणिकृतस्थानः पवनात्मा जगत्पतिः ॥४६॥
सर्वकर्माचलस्त्वष्टा मङ्गल्यो मङ्गलप्रदः ।
महातपा दीर्घतपाः स्थविष्णुः स्थविरो ध्रुवः ॥४७॥
अहं संवत्सरो व्यालः प्रमाण परमं तपः ॥३०२॥
संवत्सरकरो मन्त्रः प्रत्ययः सर्वदर्शनः ॥४८॥
अजः सर्वेश्वरः सिद्धो महारेता महाबलः ।
योगी योगो महादेवः सिद्धः सर्वादिरच्युतः ॥४९॥
वसुर्वसुमनाः सत्यः सर्वपापहरो हरः ।
अमृतः शाश्वतः शान्तो बाणहस्तः प्रतापवान् ॥५०॥
कमण्डलुधरो धन्वी वेदाङ्गो वेदविन्मुनिः ।
भ्राजिष्णुर्भोजनं भोक्ता लोकनेता दुराधरः ॥५१॥
अतीन्द्रियो महामायः सर्वावासश्चतुष्पथः ।
कालयोगी महानादो महोत्साहो महाबलः ॥५२॥
महाबुद्धिर्महावीर्यो भूतचारी पुरंधरः ।
निशाचरः प्रेतचारी महाशक्तिर्महाद्युतिः ॥५३॥
अनिर्देश्मवषुः श्रीमान्सर्वाकर्षकरो मतः ।
बहुश्रुतो बहुमायो नियतात्माऽभयोद्भवः ॥५४॥
ओजस्तेजोद्युतिधरो नर्तकः सर्वनायकः ।
नित्यघण्टाप्रियो नित्यप्रकाशात्मा प्रताxनः ॥५५॥
ऋद्धः स्पष्टाक्षरो मन्त्रः सङ्ग्रामः शारदप्लवः ।
युगादिकृद्युगावर्तो गम्भीरो वृषवाहनः ॥५६॥
इष्टो विशिष्टः शिष्टेष्टः शरभः सरभो धनुः ।
अपां निधिरधिष्ठानं विजयो जयकालवित् ॥५७॥
प्रतिष्ठितः प्रमाणज्ञो हिरण्यकवचो हरिः ।
विमोचनं सुरगणो विद्येशो विबुधाश्रयः ॥५८॥
बालरूपो वलोन्माथी विकर्ता गहनो गुहः ।
करणं कारणं कर्ता सर्वबन्धप्रमोचनः ॥५९॥
व्यवसायो व्यवस्थानः स्थानदो जगदादिजः ।
दुन्दुभो ललितो विश्वो भवात्माऽऽत्मनि संस्थितः ॥६०॥
राजराजप्रियो रामो राजचूडामणिः प्रभुः ।
वीरेश्वरो वीरभद्रो वीरासनविधिर्विराट् ॥६१॥
वीरचूडामणिर्हर्ता तीव्रानन्दो नंदीधरः ।
आत्माधारस्त्रिशूलाङ्कः शिपिविष्टः शिवाश्रयः ॥६२॥
वालखिल्यो महाचारस्तिग्मांशुर्वारिधिः खगः ।
अभिरामः सुशरण्यः सुब्रह्मण्यः सुधापतिः ॥६३॥
मधुमान्कौशिको गोमान्विरामः सर्वसाधनः ।
ललाटाक्षो विश्वदेहः सारः संसारचक्रभृत् ॥६४॥
अमोघदण्डो मध्यस्थो हिरण्यो ब्रह्मवर्चसी ।
परब्रह्मपदो हंसः शबरो व्याघ्रकोऽनलः ॥६५॥
रुचिर्वररुचिर्वन्द्यो वाचस्पतिरहर्पतिः ।
रविर्विरोचनः स्कन्दः शास्ता वैवस्वतोऽर्जुनः ॥६६॥
मुक्तिरुन्नतकीर्तिश्च शान्तरामः पुरंजयः ।
कैलासपतिः कामारिः सविता रविलोचनः ॥६७॥
विद्वत्तमो वीतभयो विश्वकर्मा‍ऽनिवारितः ।
नित्यो नियतकल्याणः पुण्यश्रवणकीर्तनः ॥६८॥
दूरश्रवा विश्वसहो ध्येयो दुःस्वप्ननाशनः ।
उत्तारको दुष्कृतिहा दुर्धर्षो दुःसहो‍ऽभयः ॥६९॥
अनादिर्भूर्भुवो लक्ष्मीः किरीटी त्रिदशाधिपः ।
विश्वगोप्ता विश्वहर्ता सुवीरो रुचिराङ्गदी ॥७०॥
जननो जनजन्मादिः प्रीतिमान्नीतिमानथ ॥५०२॥
वसिष्ठः कश्यपो भानुर्मीमो भीमपराक्रमः ॥७१॥
प्रणवः सत्पथाचारो महाकायो महाधनुः ।
जन्माधिपो महादेवः सकलागमपारगः ॥७२॥
तत्त्वं तत्त्वविदेकात्मा विभूतिर्भूतिभूषणः ।
ऋषिर्ब्राह्मणविद्विष्णुर्जन्ममृत्युजरातिगः ॥७३॥
यज्ञो यज्ञपतिर्यज्वा यज्ञान्तोऽ‍मोवविक्रमः ।
महेन्द्रो दुर्भरः सेनी यज्ञाङ्गो यज्ञवाहनः ॥७४॥
पञ्चब्रह्मसमुत्पत्तिर्विश्वतो विमलोदयः ।
आत्मयोनिरनाद्यन्तः षट्त्रिंशो लोकभृत्कविः ॥७५॥
* ( संज्ञितपुस्तकेऽयं श्लोको नास्ति । )
* गायत्रीवल्लभः प्रांशुर्विश्वावासः सदाशिवः ।
शिशुर्गिरिरतः सम्राट् सुषेणः सुरशस्त्र्हा ॥७६॥
अमेयोऽरिष्टमथनो मुकुन्दो विगतज्वरः ।
स्वयंज्योतिरनुज्योतिरचलः परमेश्वरः ॥७७॥
पिङ्गलः कपिलश्मश्रुः शास्त्रनेत्रस्त्रयीतनुः ।
( येथे एक ओळ नाही. )
भगो विवस्वानादित्यो योगाचारो दिवस्पतिः ।
उदारकीर्तिरुद्योगी सद्योगी सदसन्मयः ॥७९॥
नक्षत्रमाली नाकेशः स्वाधिष्ठानषडाश्रयः ।
पवित्रपादः पापारिर्मणिपूरो नभोगतिः ॥८०॥
हृत्पुण्डरीकमासीनः शुक्रा(के)शानो वृषाकपिः ।
तुष्टो गृहपतिः कृष्णः समर्थोऽनर्थशासनः ॥८१॥
अधर्मशत्रुरक्षय्यः पुरुहूतः पुरुष्टुतः ।
बृहद्भुजो ब्रह्मगर्भो धर्मधेनुर्धनागमः ॥८२॥
जगद्धितैषी सुगतः कुमारः कुशलागमः ॥६०२॥
हिरण्यगर्भो ज्योतिष्मानुपेन्द्रस्तिमिरापहः ॥८३॥
अरोगस्तपनाध्यक्षो विश्वामित्रो द्विजेश्वरः ।
ब्रह्मज्योतिः सुबुद्धात्मा बृहज्ज्योतिरनुत्तमः ॥८४॥
मातामहो मातरिश्वा मनस्वी नागहारधृक् ।
पुलस्त्यः पुलहोऽगस्त्यो जातूकर्ण्यः पराशरः ॥८५॥
निवारणविज्ञानो विरञ्चो विष्टरश्रवाः ।
आत्मभूरनिरुद्धोऽत्रिर्ज्ञानमूर्तिमहायशाः ॥८६॥
लोकचूडामणिर्वेरश्चन्द्रः सत्यपराक्रमः ।
व्यालकल्पो महाकल्पः कल्पवृक्षः कलानिधिः ॥८७॥
अलंकरिष्णुरचलो रोचिष्णुर्विक्रमोत्तमः ।
आशुः सप्तपतिर्वेगी प्लवनः शिखिसारथिः ॥८८॥
असंतुष्टोऽतिथिः शुक्रः प्रमाथी पापशासनः ।
वसुश्रवाः कव्यवाहः प्रतप्तो विश्वभोजनः ॥८९॥
जयो जरारिशमनो लोहिताश्वस्तनूनपात् ।
पृषदश्वो नभोयोनिः सुप्रतीकस्तामिस्रहा ॥९०॥
निदाघस्तपनो मेघः पक्षः परपुरंजयः ।
सुखी नीलः सुनिष्पन्नः सुरभिः शिशिरात्मकः ॥९१॥
वसन्तो माधवो ग्रीष्मो नभस्यो बीजवाहनः ।
मनो बुद्धिरहंकारः क्षेत्रज्ञः क्षेत्रपालकः ॥९२॥
जमदग्निर्जलनिधिर्विपाको विश्वकारकः ।
अधरोऽनुत्तरो ज्ञेयो ज्येष्ठो निःश्रेयसालयः ॥९३॥
शैलो नाम तरुर्दाहो दानवारिररिंदमः ॥७००॥
चामुण्डी जानकश्चारुर्निःशल्यो लोकशल्यहृत् ॥९४॥
चतुर्वेदश्चतुर्भावश्चतुरश्चत्वरप्रियः ।
आम्नायोऽथ समाम्नायरतीर्थदेवः शिवालयः ॥९५॥
वज्ररूपो महादेवः सर्वरूपश्चराचरः ।
न्यायनिर्वाहको न्यायो न्यायगम्यो निरञ्जनः ॥९६॥
सहस्रमूर्धा देवेन्द्रः सर्वशस्त्रमभञ्जनः ।
मुण्डो विरूपो विकृतो दण्डी दान्तो गुणोत्तरः ॥९७॥
पिङ्गलाक्षोऽथ हर्यश्वो नीलग्रीवो निरामयः ।
सहस्रबाहुः सर्वेशः शरण्यः सर्वलोकधृक् ॥९८॥
पद्मासनः परं ज्योतिः परावरः परं फलम् ।
पद्मगर्भो महागर्भो विश्वगर्भो विलक्षणः ॥९९॥
यज्ञभुग्वरदो देवो वरेशश्च महास्वनः ।
देवासुरगुरुर्देवः शंकरो लोकसंभवः ॥१००॥
सर्वदेवमयोऽचिन्त्यो देवतासत्यसंभवः ।
देवाधिदेवो देवर्षिर्देवासुरवरप्रदः ॥१०१॥
देवासुरेश्वरो दिव्यो देवासुरमहेश्वरः ।
देवासुराणां वरदो देवासुरनमस्कृतः ॥१०२॥
देवासुरमहामात्रो देवासुरमहाश्रयः ।
सर्वदेवमयोऽचिन्त्यो देवानात्मात्मसंभवः ॥१०३॥
ईड्योऽनीशः सुरव्याप्तो देवसिंहो दिवाकरः ।
विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः ॥१०४॥
शिवध्यानरतः श्रीमाञ्शिखी श्रीपर्वतप्रियः ।
वज्रहस्तः प्रतिष्टम्मी विश्वज्ञानी निशाकरः ॥१०५॥
ब्रह्मचारी लोकचारी धर्मचारी धनाधिपः ।
नन्दी नन्दीश्वरो नग्नो नगव्रतधरः शुचिः ॥१०६॥
लिङ्गाध्यक्षः सुराध्यक्षो धर्माध्यक्षो युगावहः ॥८०१॥
स्ववशः स्वर्गतः स्वर्गः सर्गः स्वरमयः स्वनः ॥१०७॥
बीजाध्यक्षो बीजकर्ता धर्मकृद्धमर्वर्धनः ।
दुम्भोऽदम्भो महादम्भः सर्वभूतमहेश्वरः ॥१०८॥
श्मशाननिलयस्तिष्यः सेतुरप्रतिमाकृतिः ।
लोकोत्तरः स्फुटालोकस्र्यम्बको भक्तवत्सलः ॥१०९॥
अन्धकारिर्मखद्वेषी विष्णुकंधारपातनः ।
वीतदोषोऽक्षयगुणोऽन्तकारिः पूषदन्तमित् ॥११०॥
धूर्जटिः खण्डपरशुः सकलो निष्कलोऽनघः ।
आकारः सकलाधारः पाण्डुरागो मृगो नटः ॥१११॥
पूर्णः पूरयिता पुण्यः सुकुमारः सुलोचनः ।
सामगेयः प्रियः क्रूरः पुण्यकीर्तिरनामयः ॥११२॥
मनोजवस्तीर्थकरो जटिलो जीवितेश्वरः ।
जीवितान्तकरोऽनन्तो वसुरेता वसुप्रदः ॥११३॥
सद्गतिः सत्कृतिः शान्तः कालकण्ठः कलाधरः ।
मानी मन्तर्महाकालः सद्भूतिः सत्परायणः ॥११४॥
चन्द्रसंजीवनः शाता लोकरूढो महाधिपः ।
लोकबन्धुर्लोकनाथः कृतज्ञः कृतभूषणः ॥११५॥
अनपायोऽक्षरः शान्तः सर्वशस्त्रभृतां वरः ।
तेजोमयो द्युतिधरो लोकमायोऽग्रणीरणुः ॥११६॥
सुविस्मितः प्रसन्नात्मा दुर्जयो दुरतिक्रमः ।
ज्योतिर्भयो निराकारो जगन्नाथो जलेश्वरः ॥११७॥
तुम्बी वीणा महाशोको विशोकः शोकनाशनः ।
त्रिलोकशस्त्रिलोकात्मा सिद्धिः शुद्धिरधोक्षजः ॥११८॥
अव्यक्तलक्षणो व्यक्तो व्यक्ताव्यक्तो विशांपतिः ।
वरशीलो वरगुणो गतो गव्ययनो मयः ॥११९॥
ब्रह्मा विष्णुः प्रजापालो हंसो हंसगतिर्मतः ।
वेधा विधाता स्रष्टा च कर्ता हर्ता चतुर्मुखः ॥१२०॥
कैलासशिखरावासी सर्वावासी सदागतिः ।
हिरण्यगर्भो गगनः पुरुषः पूर्वजः पिता ॥१२१॥
भूतालयो भूतपतिर्भूतिदो भुवनेश्वरः ।
संयमो योगविद्भष्टो ब्रह्मण्यो ब्राह्मणप्रियः ॥१२२॥
देवप्रियो देवनाथो दैवज्ञो देवचिन्तकः ।
विषमाक्षो विशालाक्षो वृषदो वृषवर्धनः ॥१२३॥
निर्मयो निरहंकारो निर्मोहो निरुपप्लवः ।
दर्पहा दर्पणो दृप्तः सर्वर्तुपरिवर्तकः ॥१२४॥
सप्तजिह्वः सहस्रार्चिः स्निग्ध प्रकृतिदक्षिणः ।
भूतभव्यभवन्नाथः प्रभवो भ्रान्तिनाशनः ॥१२५॥
अर्थोऽनर्थो महाकोशः परकार्यैकपण्डितः ।
निष्कण्टकः कृतानन्दो निर्ब्याजो व्याजदर्शनः ॥१२६॥
सत्त्ववान्सात्त्विकः सत्यः कीर्तिस्तम्भः कृतागमः ।
भूशयो भूतिकृद्भूतिर्विभूतिर्भूतिवाहनः ॥१२८॥
अकायो भूतकायस्थः कालज्ञानो महापटुः ।
सत्यव्रतो महात्याग इच्छाशान्तिपरायणः ॥१२९॥
परार्थवृत्तिवरदो विविक्तः श्रुतिसागरः ॥१०००॥
अनिर्विण्णो गुणग्राही निष्कलङ्कः कलङ्कहा ॥१३०॥
स्वभावभद्रो मध्यस्थः शत्रुघ्नः शत्रुनाशनः ।
शिखण्डी कवची शूली जटी मुण्डी च कुण्डली ॥१३१॥
मेखली कञ्चुकी खङ्गी माली संसारसारथिः ।
अमृत्युः सर्वजित्सिंहस्तेजोराशिर्महामणिः ॥१३२॥
असंख्येयोऽप्रमेयात्मा वीर्यवान्कार्यकोविदः ।
वेद्यो वैद्यो वियद्गोप्ता सप्ताबरमुनीश्वरः ॥१३३॥
अनुत्तमो दुराधर्षो मधुरः प्रियदर्शनः ।
सुरेशः शरणं शर्म सर्वः शब्दवतां गतिः ॥१३४॥
कालः पक्षः करङ्कारिः कङ्कणीकृतवासुकिः ।
महेष्वासो महीभर्ता निष्कलङ्को विशृङ्खलः ॥१३५॥
द्युमणिस्तरणिर्धन्यः सिद्धिदः सिद्धिसाधनः ।
विवृतः संवृतः शिल्पी व्युढोरक्सो महाभुजः ॥१३६॥
एकज्योतिर्निरातङ्को नरनारायणप्रियः ।
निर्लेपो निष्प्रपञ्चात्मा निर्व्यग्रो व्यग्रनाशनः ॥१३७॥
स्वव्यः स्तवप्रियः स्तोता व्योममूर्तिरनाकुलः ।
निरवद्यपदोपायो विद्याराशिरकृत्रिमः ॥१३८॥
प्रशान्तबुद्धिरक्षुद्रः क्षुद्रहा नित्यसुन्दरः ।
ध्येयोऽग्रधुर्यो धात्रीशः साकल्यः शर्वरीपतिः ॥१३९॥
परमार्थगुरुर्व्यापी शुचिराश्रितवत्सलः ।
रसो रसज्ञः सारज्ञः सर्वसत्त्वावलम्बनः ॥१४०॥१०९१॥
एवं नाम्नां सहस्रेण तुष्टाव गिरिजापतिम् ।
संपूज्य परया भक्त्या पुण्डरीकैर्द्विजोत्तमाः ॥१४१॥
जिज्ञासार्थं हरेर्भक्त्या कमलेषु शिवः स्वयम् ।
तत्रैकं गोपयामास कमलं मुनिपुंगवाः ॥१४२॥
हृते पुष्पे तदा विष्णुश्चिन्तयन्किमिदं त्विति ।
ज्ञात्वाऽऽत्मनोऽक्षिमुद्धृत्य पूजयामास शंकरम् ॥१४३॥
अथं ज्ञात्वा महादेवो हरेर्भक्तिं सुनिश्चलाम् ।
प्रादुर्भूतो महादेवो मण्डलात्तिग्मदीदितेः ॥१४४॥
सूर्यकोटिप्रतीकाशस्त्रिनेत्रश्चन्द्रशेखरः ।
शूलटङ्कगदाचक्रकुन्तपाशधरो विभुः ॥१४५॥
वरदाभयपाणिश्च सर्वाभरणभूषितः ।
तं दृष्ट्वा देवेदेवेशं भगवान्कमलेक्षणः ॥१४६॥
पुनर्नामान चरणौ दण्डवच्छूलपाणिनः ।
दृष्ट्वा शंभुं तदा देवा दुद्रुवुर्भयविह्वलाः ॥१४७॥
चचाल ब्रह्मभुवनं चकम्पे च वसुंधरा ।
अधश्चोर्ध्वं ततः प्रीते ददाह शतयोजनम् ॥१४८॥
शंभोर्भगवतस्तेजस्तद्दृष्ट्वा प्रहसञ्शिवः ।
अब्रवीच्छार्ङ्गिणं विग्राः कृताञ्जलिपुटं स्थितम् ॥१४९॥
देयकार्यमिदं ज्ञातमिदानीं मधुसूदन ।
दिव्यं ददामि ते चक्रमद्भुतं तत्सुदर्शनम् ॥१५०॥
हितार्थं सर्वदेवानां निर्मितं यन्मया पुरा ।
गृहीत्वा तद्गुणैर्दैत्याञ्जहि विष्णो ममाऽऽज्ञया ॥१५१॥
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ।
लोकेषु पुण्डरीकाक्ष इति ख्यातिं गतो हरिः ॥१५२॥
पुनस्तमब्रवीच्छंभुर्नारायणमनामयम् ।
वरानन्यान्सुरश्रेष्ठ वरयस्व यथोप्सितान् ॥१५३॥
एवं शंभोर्निगदितं श्रुत्वा देवो जनार्दनः ।
अब्रवीत्खण्डपरशुं प्राञ्जलिः प्रणयान्वितः ॥१५४॥
श्राविष्णुरुवाच -
भगवन्देवदेवेश परमात्मञ्शिवाव्यय ।
निश्चला त्वयि मे भक्तिर्भवत्विति वरो मम ॥१५५॥
ईश्वर उवाच -
भक्तिर्मयि दृढा विष्णो भविष्यति तवानघ ।
अजेयस्त्रिषु लोकेषु मत्प्रसादाद्भविष्यति ॥१५६॥
सूत उवाच - एवं दत्त्वा वरं शंभुर्विष्णवे प्रभविष्णवे ।
अन्तर्हितो द्विजश्रेष्ठा इति देवो ऽव्रवीद्रविः ॥१५७॥
नाम्नां सहस्रं यद्दिव्यं विष्णुना समुदीरितम् ।
यः पठेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते ॥१५८॥
अश्वमेधसहस्रस्य फलं प्राप्नोति निश्चितम् ।
पठतः सर्वभावेन विद्या वा महती भवेत् ॥१५९॥
जायते महदैश्वर्यं शिवस्य दयितो भवेत् ।
दुस्तरे जलसंघाते यज्जलं स्थलतां व्रजेत् ॥१६०॥
हारायन्ते महासर्पाः सिंहः क्रीडामृगायते ।
तस्मान्नात्मां सहस्रेण स्तोतव्यो भगवाञ्शिवः ॥१६१॥
प्रयच्छत्यखिलान्कामान्देहान्ते च परां गतिम् ॥१६२॥२१३४॥
इति श्रीब्रह्मपुराणोपपुराणे श्रीसौरे सूतशौनकसंवादे विष्णुचक्रप्राप्तिकथनं नामैकचत्वारिंशोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : December 05, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP