TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तृतीयाः पाद: - सूत्र ४६-४९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र ४६-४९
अतिदेशाच्च ॥४६॥

अतिदेशाच्च ॥ अतिदेशश्चैषामग्नीनां  क्रियानुप्रवेशमुपोद्बलयति षटत्रिंशत्सहस्राण्यग्नयोऽर्कास्तेषामेकैक एव तावान्यावानसौ पूर्व इति ।
सति हि सामान्येऽतिदेश: प्रवर्तते ततश्च पूर्वेणेष्टकाचितेन क्रियानुप्रवेशिनाऽग्निना सांपादिकानग्नीनतिदिशन्क्रियाभुप्रवेशमवैषां द्योतयति ॥४६॥


विद्यैव तु निर्धारणात् ॥४७॥

विधैव तु निर्धारणात् । तुशब्द: पक्षं व्यावर्तयति । विद्यात्मका एवैते स्वतन्त्रा मनश्चिदादयोऽग्नय: स्युर्न क्रियाशेषभूता: ।
तथा हि निर्धारयति ते हैते विद्याचित एवेति विद्यया हैवैते एवंविदश्चिता भवन्तीति च ॥४७॥

दर्शनाच्च ॥४८॥

दर्शनाच्च ॥ द्दश्यते चैषां स्वातन्त्र्ये लिङ्गं तत्पुरस्ताद्दर्शितं लिङ्गभूयस्त्वदित्यत्र ॥४८॥

श्रुत्यादिबलीयस्त्वाच्च न बाध: ॥४९॥

ननु लिङ्गमप्यसत्यामन्यस्यां प्राप्तावसाधकं कस्यचिदर्थस्येत्यपास्य तत्प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसितमित्यत उत्तरं पठति - श्रुत्यादिबलीयस्त्वाच्च न बाध: ॥
नैवं प्रकरणसामर्थ्यात्क्रियाशेषत्वमध्यवसाय स्वातन्त्र्यपक्षो बाधितव्य: ।
श्रुत्यादेर्बलीयस्त्वात् ।
बलीयांसि हि प्रकरणाच्छुतिलिङ्गवाक्यानीति स्थितं श्रुतिलिङ्गसूत्रे ।
तानि चेह स्वातन्त्र्यपक्षं साधयन्ति द्दश्यन्ते । कथम् ।
श्रुतिस्तावत्ते हैते विद्याचित एवेति ।
तथा लिङ्गं सर्वदा सर्वाणि भूतानि चिन्वन्त्यपि स्वप्त इति ।
तथा वाक्यमपि विद्यया हैवैत एवंविदश्चिता भवन्तीति ।
विद्याचित एवेति हि सावधारणेयं श्रुति: क्रियानुप्रवेशेऽमीषामभ्युपगम्यमाने पीडिता स्यात् ।
नन्वबाहयसाधनत्वाभिप्रायमिदमवधारणं भविष्यति । नेत्युच्यते ।
तदभिप्रायतायां हि विद्याचित इतीयता स्वरूपसंकीर्तनेनैव कृतत्वादनर्थकमवधारणं भवेत् ।
स्वरूपमेव हयेषामबाम्हासाधनमिति ।
अबाहयसाधनत्वेऽपि तु  मानसग्रहवत्क्रियानुप्रवेशशङ्कायां तन्निवृत्तिफलमवधारणमर्थवद्भविष्यति ।
तथा स्वपते जाग्रते चैवंविदे सर्वदा सर्वाणि भूतान्येतानग्नींश्चिन्वन्तीति सातत्यदर्शनमेषां स्वातन्त्र्येऽवकल्पते ।
तथा सांपादिके वाक्प्राणमयेऽग्निहोत्रे प्राणं तदा वाचि जुहोति वाचं तदा प्राणे जुहोतीति चोक्त्वोच्यते - एते अनन्ते अमृते आहुती जाग्रच्च स्वपंश्च सततं जुहोतीति तद्वत् ।
क्रियानुप्रवैशे तु क्रियाप्रयोगस्याल्पकालत्वेन न सातत्येनैषां प्रयोग: कल्पेत ।
न चेदमर्थवादमान्नमिति न्याय्यम ।
यत्र हि विस्पष्टो विधायको लिङ्गादिरुपलभ्यते युक्तं तत्र संकीर्तनमात्रस्यार्थवादत्वम् ।
इह तु विस्पष्टविध्यन्तरानुपलन्धे: संकीर्तनादेवैषां विज्ञानविधानं कल्पनीयम् ।
तच्च यथा संकीर्तनमेव कल्पयितु शक्यत इति सातत्यदर्शनात्तथाभूतमेव कल्प्यते ।
ततश्च सामर्थ्यादेषां स्वातन्त्र्यसिद्धि: ।
एतेन तद्यर्त्कि चेमानि भूतानि मनसा संकल्पयन्ति तेषामेव सा कृतिरित्यादि व्याख्यातम् ।
तथा वाक्यमप्येवंविद इति पुरुषविशेषसंबन्धमेवैषामाचक्षाणं न क्रतुसंबन्धं मृष्यते ।
तस्मात्स्वातन्त्र्यपक्ष एव ज्यायानिति ॥४९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-20T23:08:14.9300000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ओझा

  • पु. १ उपाध्याय . २ एक हिदी आडनांव ; मराठी ओझे ( आडनांव ). ( सं . उपाध्याय ; प्रा उवझ्झाअ - ओज्झाय ; हिं . ओझा ; का . ओज = गुरु , शिक्षक ) 
RANDOM WORD

Did you know?

आत्म्याची किती आणि कोणती रूपे मानली गेली आहेत?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site