तृतीयाः पाद: - सूत्र २०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


संबन्धादेवमन्यत्नापि ॥२०॥

संबन्धादेवमन्यत्रापि ॥ बृहदारण्यके सत्यं ब्रम्हेत्युपक्रम्य तद्यत्त्त्सत्यमसौ स आदित्यो य एष तस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्  पुरुष ति तस्यैव सत्यस्य ब्रम्हाणोऽधिदैवतमध्यात्मं चायतनविशेषमुपदिश्य व्याहृतिशरीरत्वं च संपाय द्वे उपनिषदावुपदिश्येते ।
तस्योपनिषदहरित्याधिदैवतम् ।
तस्योपनिषदहमित्यध्यात्मम् ।
तत्र संशय: ।
किमविभगेनैवोभे अप्युपनिषदावुभयत्रानुसन्धातव्ये उत विभागेनैकाधिदैवमेकाध्यात्ममिति ।
तत्र सूत्रेणैवोपक्रमत्ने ।
यथा शाण्डिल्यविद्यायां विभागेनाप्यधीतायां गुणोपसंहार उक्त एवमन्यत्राप्येवंजातीयके विषये भवितुमर्हति ।
एकविद्याभिसंबन्धात् ।
एका हीयं सत्यविद्याऽधिदवमध्यात्मं चाधीता ।
उपक्रमाभेदाव्द्यतिषक्तपाठाच्च ।
कथं तस्यामुदितो धर्मंस्तस्यामेव न स्यात् ।
यो हयाचार्ये कश्चिदनुगमादिराचारश्चोदित: स ग्रामगतेऽरण्यगते च तुल्यवदेव भवति ।
तस्मादुभयोरप्युपनिषदोरुभयत्र प्राप्तिरिति ॥२०॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP