TransLiteral Foundation

तृतीयाः पाद: - सूत्र ४३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र ४३
प्रदानवदेव तदुक्तम् ॥४३॥

प्रदानवदेव तदुक्तम् ॥ वाजसनेयके वदिष्याम्येवाहमिति वाग्दध्र इत्यत्राध्यात्मं वागादीनां प्राण: श्रेष्ठोऽवधारितोऽधिदैवतमग्न्यादीनां वायु; ।
तथा छान्दोग्ये वायुबीव संवर्ग इत्यत्राधिदैव तमग्न्यादीनां वायु: संवर्गोऽवधारित: प्राणो वाव संवर्ग इत्यत्राध्यात्मं वागादीनां प्राण: ।
तत्र संशय: किं पृथगेवेमौ वायुप्राणावुपगन्तव्यौ स्याअतमपृथग्वेति ।
अपृथगेवेति तावत्प्राप्तं तत्त्वाभेदात् ।
न हयभिन्ने तत्त्वे पृथगनुचिन्तनं न्याप्यम् ।
दर्शयति च श्रुतिरध्यात्ममधिदैवतं च तत्त्वाभेदम् - अग्निर्वाग्भऊत्वा मुखं प्राविशदित्यारभ्य ।
तथा त एते सर्व एव समा: सर्वेऽनन्ता इत्याध्यात्मिकानां प्राणानामाधिदैविकीं विभूतिमात्मभूतां दर्शयति ।
तथान्यत्रापि तत्र तत्राध्यात्ममधिदैवंच बहुधा तत्त्वाभेददर्शनं भवति ।
क्वचिच्च य: प्राण: स वायुरिति स्पष्टमेव वायुं प्राणं चैकं करोति ।
तथोदाह्रतेऽपि वाजसनेयिब्राम्हाणे यतश्चोदेति सूर्यं इत्यस्मिन्नुपसंहारश्लोके प्राणाद्वा एष उदेति प्राणेऽस्तमेतीति प्राणेनैवोपसंहरन्नेकत्वं दर्शयति ।
तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्चेति च प्राणव्रतेनैकेनोपसंहरन्नेतदेव द्रढयति ।
तथा छान्दोग्येऽपि परस्तान्महात्मनश्चतुरो देव एक: क: स जगार भुवनस्य गोपा इत्येकमेव संवर्गण गमयति न ब्रवीत्येक एकेषां चतुर्णां संवर्गोऽपरोऽपरेषामिति ।
तस्मादपृथक्त्वमुपगमनस्येति ।
एवं प्राप्ते ब्रूम: ।
पृथगेव वायुप्राणावुपगन्तव्याविति । कस्मात् । पृथगुपदेशात् ।
आध्यानार्थो हयमध्यात्माधिदैववि भागोपदेश: सोऽसत्याध्यानपृथक्त्वेऽनर्थक एव स्यात् ।
ननूक्तं न पृथगनुचिन्तनं  तत्त्वाभेदादिति ।
नैष दोष: ।
तत्त्वाभेदेऽप्यवस्थाभेदादुपेदशभेदवशेनानुचिन्तनभेदोपपत्ते:  श्लेकोपन्यासस्य च तत्त्वाभेदाभिप्राय़ेणाप्युपपद्यमानस्य पूर्वोदितध्येयभेदनिराकरणसामर्थ्याभावात् ।
स यथैषां प्राणानां मध्यम: प्राण एवमोतासां देवतानां वायुरिति चोपमानोइपमेयकरणात् ।
एतेन व्रतोपदेशो व्याख्यात:  ।
एकमेव व्रतमिति चैवकारो वागादिव्रतनिवर्तंनेन प्राणव्रतप्रतिपत्त्यर्थ: ।
भग्नव्रतानि हि वागादीन्युक्तानि तानि मृत्यु: श्रमो भूत्वोपयेम इति श्रुते: ।
न वायुव्रतनिवृत्त्यर्थ: ।
अथाते व्रतमीमांसेति प्रस्तुत्य तुल्यवद्वायुप्राणयोरभग्नव्रतत्वस्य निर्धारितत्वात् ।
एकमेव व्रतं चरेदिति चोक्त्वा तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयतीति वायुप्राप्तिं फलं ब्रुवन्वायुव्रतमनिवर्तितं दर्शयति ।
देवतेत्यत्र वायु: स्यादपरिच्छिन्नात्मकत्वम्य प्रेप्सितत्वात् ।
पुरस्तात्प्रयोगाच्च सैषाऽनस्तमिता देवता यद्वायुरिति ।
तथा तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राण: प्राणोष्विति भेदेन व्यपदिशति ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतमिति च भेदेनैवोपसंहरति ।
तस्मात्पृथगेवोपगमनम् । प्रदानवत् ।
यथेन्द्राय राज्ञे पुरोडाशमेकादशकपालमिन्द्रायाधिराजायेन्द्राय स्वराज्ञ इत्यस्यां त्रिपुरोडाशिन्यामिष्टौ सर्वेषामभिगमयनवद्यत्यच्छंबट्‌कारमिति ।
अतो वचनादिन्द्राभेदाच्चसहप्रादानाशङकायां राजादिगुणभेदाद्याज्यानुवाक्याव्यत्यासविधानाच्च यथान्यासमेव देवतापृथक्त्वात्प्रदानप्रुथक्त्वं भवति ।
एवं तत्त्वाभेदेऽप्याध्येयांशपृथक्त्वादाध्यानपृथक्त्वादाध्यानपृथक्त्वमित्यर्थ: ।
तदुक्तं संकर्षे नाना वा देवता पृथग्‌ज्ञानदिति ।
तत्र तु द्रव्यदेवताभेदाद्यागभेदोऽपि विद्यते नैवमिह विद्याभेदोऽस्ति ।
उपक्रमोपसंहाराभ्यामध्यात्माधिदैवोपदेशेष्वेकविद्याविधानप्रतीते: ।
विधैक्येऽपि त्वध्यात्माधिदैवभेदात्प्रवृत्तिभेदो भवति ।
अग्निहोत्र इव साय्फ्रात: कालभेदात् ।
इत्येतावदभिप्रेत्य प्रदानवदित्युक्तम् ॥४३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-20T23:06:17.1970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

non-microsomal

  • सूक्ष्मकणिकेतर 
RANDOM WORD

Did you know?

lagn lagat astana navarichi aai tulshila pani ghalte..te kashasathi..??? tya magcha udeshshy kay asto..?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site