तृतीयाः पाद: - सूत्र ५८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


नाना शब्दादिभेदात् ॥५८॥

नाना शब्दादिभेदात् ॥ पूर्वस्मिन्नधिकरणे सत्यामपि सुतेज: प्रभृतीनां फलभेदश्रुतौ समस्तोपासनं ज्याय इत्युक्तम् ।
अत: प्राप्ता बुद्ध्रन्यान्यपि भिन्नश्रुतीन्युषासनानि समस्योपाशिष्यन्त इति ।
अपि च नैव वेद्याभेदे विद्याभेदो विज्ञातुं शक्यते ।
वेद्यं हि रूपं विद्याया द्रव्यदैवतमिव यागस्य ।
वेद्यश्चैक एवेश्वर: श्रुतिनानात्वेऽप्यवगम्यते मनोमय: प्राणशरीर: कं ब्रम्हा खं ब्रम्हा सत्यकाम: सत्यसंकल्प इत्येवमादिषु ।
तथैक एव प्राण: प्राणो वाव संवर्ग: प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च प्राणो ह पिता प्राणो मातेत्येवमादिषु ।
वेद्यैकत्वाच्च विद्यकत्वम् ।
श्रुतिनानात्वमप्यस्मिन्पक्षे गुणान्तरपरत्वान्नानर्थकम् ।
तस्मात्स्वपरशाखाविहितमेकवेद्यव्यपाश्रयं गुणजातमुपसंहर्तव्यं विद्याकार्त्स्न्यायेति ।
एवं प्राप्ते प्रतिपाद्यते नानेति ।
वेद्याभेदेऽप्येवंजातीयका विद्या भिन्ना भवितुमर्हति । कुत: शब्दादिभेदात् ।
भवनि हि शाब्दभेदो वेदोपासीत स क्रतु कुर्वीतेत्येवमादि: ।
शब्दभेदश्च कर्मभेदहेतु: समधिगत: पुरस्ताच्छब्दान्तरे कर्मभेद: कृतानुबन्धत्वादिति ।
आदिग्रहणाद्नुणादयोऽपि यथसंभवं भेदहेतवो योजयितव्या: ।
ननु वेदेत्यादिषु शब्दभेद एवावगम्यते न यजतीत्यादिवदर्थभेद: सर्वेपाभवैषां मनोकृत्त्यर्थत्वाभेदात् ।
अर्थान्तरासंभवाच्च ।
तत्कथं शब्दभेदाद्विद्याभेद इति ।
नैष दोष: ।
मनोवृत्त्यर्थत्वाभेदेऽप्यनुबन्धभेदाद्वेद्यभेदे सति  विद्याभेदोपपत्ते: ।
एकस्यापीश्वरस्योपास्यस्य प्रतिप्रकरणं व्यावृत्ता गुणा: शिष्यन्ते ।
तथैकस्यापि प्राणस्य तत्र तत्रोपास्यस्याभेदेऽप्यन्याद्दग्गुणोऽन्यत्रोपासितव्योऽन्यादृग्गुणश्वान्यत्रेत्येवमनुबन्धभेदाद्वेद्यभेदे सति विद्याभेदो विज्ञायते ।
न चात्रैको विद्याविधिरितरे गुणविधय इति शक्यं वक्तुम् ।
विनिगमनायां हे त्वभावात् ।
अनेकत्वाच्च प्रतिप्रकरणं गुणानांम प्राप्तविद्यानुव देन विधानानुपपत्ते: ।
न चास्मिन्पक्षे समाना: सन्त: सत्यकामादयो गुणा असकृच्छ्रावयितव्या: ।
प्रतिप्रकरणं चेदकांमेनेदमुपासितव्यमिदंकामेन चेदमिति नैराकाङक्ष्यावगमान्नैकवाक्यतापत्ति: ।
न चात्र वैश्वानरविद्यायामिव समस्तचोदनाऽपरास्तिशब्दलेन प्रतिप्रकरणवर्तीन्यवयवूपासनानि भूत्वैकवाक्यतामियु: ।
वेद्यैकत्वनिमित्ते च विद्यैकत्वे सर्वत्र निरङकुशे प्रतिज्ञायमाने समस्तगुणोपसंहारोऽशक्य: प्रतिज्ञायेत ।
तस्मात्सुष्ठूच्यते नानाशद्बादिभेदादिति ।
स्थिते चैतस्मिन्नधिकरणे सर्ववेदान्तप्रत्ययमित्यादि द्रष्टव्यम् ॥५८॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP