TransLiteral Foundation

तृतीयाः पाद: - सूत्र २

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र २
भेदान्नेति चेन्नैकस्यमपि ॥२॥

इहापि कंचिद्विशेशमाशङकय परिहरति ॥
भेदान्नेति चेदान्नेति चेन्नैकस्यामपि ॥ स्यादेतत् ।
सर्ववेदान्तप्रत्ययत्वं विज्ञानानां गुणभेदान्नोपपद्यते ।
तथा हि वाजसनेयिन: पञ्चाग्निविद्यां प्रस्तुत्य षष्ठमपरमग्निमामनन्ति तस्याग्निरेवाग्निर्भवतीत्यादिना ।
छन्दोगास्तु तं नामनन्ति पञ्चसंख्ययैव च त उपसंहरन्त्यथ ह य एतानेवं पञ्चाग्नीन्वेदेति ।
येषां च स गुणोऽस्ति येषां च नास्ति कथमुभयेषामेका विद्योपपद्येत ।
न चात्र गुणोपसंहार: शक्यते प्रत्येतुं पञ्चसंख्याविरोधात् ।
तथा प्राणसंवादे श्रेष्ठादन्यांश्चतुर: प्राणान्वाक्चक्षु: श्रोत्रमनांसि च्छन्दोगा आमनन्ति ।
वाजसनेयिनस्तु पञ्चममप्यामनन्ति रेतो वै प्रजापत्ति: प्रजायते ह प्रजया पशुभिर्य एवं वेदेति ।
आवापोद्वापभेदाच्च वेद्यभेदो भवति वेद्यभेदाच्च विद्याभेदो द्रव्यदेवताभेदादिव यागस्योति चेत् ।
नैष दोष: ।
यत एकस्यामपि विद्यायामेवंजातीयको गुणभेद उपपद्यते ।
यद्यपि षष्टस्याग्रेरुपसंहारो न संभवति तथापि द्युप्रभृतीनां पञ्चानामग्नीनामुभयत्र प्रत्यभिज्ञायमानत्वान्न विद्याभेदो भवितुमर्हति ।
न हि षोडशिग्रहणाग्रहणयोरतिरात्रो भिद्यते ।
पथयतेऽपि च षष्ठोऽग्निश्च्छन्दोगैस्तं प्रेतं दिष्टमितोऽग्नय एव हरन्तीति ।
वाजसनेयिनस्तु सांपादिकेषु पञ्चस्वग्निष्वनुवृत्ताया: समिद्धमादिकल्पनाया निवृत्तये तस्याग्निरेवाग्निर्भवति समित्समिदित्यादि समामनन्ति स नित्यानुवाद: ।
अथाप्युपासनार्तह एष वादस्तथापि स गुण: शक्यते छन्दोगैरप्युपसंहर्तुम् ।
न चात्र पञ्चसङ्खयाविरोध आशङ्कय: सांपादिकाग्न्यभिप्राया हयेषा पञ्चसङ्खया नित्यानुवादभूता न विधिसमवायिनीत्यदोष: ।
एवं प्राणसंवादादिष्वप्यधिकस्य गुणस्येतरत्रोपसंहारो न विरुध्यते ।
नचावापोद्वापभेदावेद्यभेदोविद्याभेदश्चाशङ्कय: ।
कस्यचिद्वेद्याशस्यावापोद्वापयोरपि भूयसोर्वेद्यराशेरभेदावगमात् ।
तस्मादैकविद्यमेव ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-20T02:09:09.1970000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

शरभ II.

  • n. चेदिराज धृष्टकेतु का भाई, जो शिशुपाल के पुत्रों में से एक था । भारतीय युद्ध में यह पांडवों के पक्ष में शामिल था [म. उ. ४९.४३] । युधिष्ठिर के अश्वमेध यज्ञ के समय, शुक्तिसा नगरी में राज्य करनेवाले शरभ ने सर्वप्रथम अर्जुन से युद्ध करना चाहा। किंतु पश्चात् इसने अर्जुन को करभार अर्पण कर, अश्वमेधीय अश्व की विधिपूर्वक पूजा की [म. आश्र्व. ८४.३] 
RANDOM WORD

Did you know?

सर्व धार्मिक कार्यांत आरंभी श्रीगणेशाची पूजा कां करतात?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site