तृतीयाः पाद: - सूत्र ३२

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


यावदधिकारमवस्थितिराधिकारिणाम् ॥३२॥

यावदधिकारमवस्थितिराधिकारिणाम् ॥ विदुषो वर्तमान्देहपातानन्तरं देहान्तरमुत्पद्यते न वेति चिन्त्यते ।
ननु विद्याय: साधनभूताया:  संपत्तौ कैवल्यनिर्वृत्ति: स्यान्न वेति ।
नेयं चिन्तोपपद्यते ।
न हि पाकसाधनसंपत्तावोदनो भवेन्न वोति चिन्ता संभवति नापि भुञ्जानस्तृप्येन्न वेति चिन्यते ।
उपपन्ना त्वियं चिन्ता ब्रम्हाविदामपि केषांचिदितिहासपुराणयोर्देहान्तरोत्पत्तिदर्शनात् ।
तथा हयपान्तरतमा नाम वेदाचार्य: पुराणर्षिर्विष्णुनियोगात्कलिद्वापरयो: संधौ कृष्णद्वैपायन: संबभूवेति स्मरन्ति ।
वसिष्ठश्च ब्रम्हाणो मानस: पुत्र: सन्निमिशापादपगतपूर्वदेह: पुनर्ब्रहयादेशान्मित्रावरुणाभ्यां संबभूवेति ।
भृग्वादीनामपि ब्रम्हाण एव मानसपुत्राणां वारुणे यज्ञे पुनरुत्पत्ति: स्मर्यते ।
सनत्कुमारोऽपि ब्रम्हाण एव मानस: पुत्र: स्वयं रुद्राय वरप्रदानात्स्कन्दत्वेन प्रादुर्बभूव ।
एवमेव दक्षनारदप्रभृतीनां भूयसी देहान्तरोत्पत्ति: कथ्यते तेन निमित्तेन स्मृतौ ।
श्रुतावपि मन्त्रार्थवादयो: प्रायेणोपलभ्यते ।
ते च केचित्पतिते पूर्वदेहे देहान्तरमाददते केचित्तु स्थित एव तस्मिन्योगैश्वर्यवशादनेकदेहादानन्यायेन ।
सर्वे चैते समधिगतसकलवेदार्था: स्मर्यन्ते ।
तदेतेषां देहान्तरोत्पत्तिदर्शनात्प्राप्तं ब्रम्हाविद्याया: पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वेति ।
अत उत्तरमुच्यते । न ।
तेषामपान्तरतम: प्रभृतीनां वेदप्रवर्तनादिषु लोकस्थितिहेतुष्वधिकारेषु नियुक्तानामधिकारतन्त्रत्वात्स्थिते: ।
यथाऽसौ भगवान्सविता सहस्रयुगपर्यन्तं जगतोऽधिकारं चरित्वा तदवसान उदयास्तमयवर्जितंकैवल्यमनुभवति ।
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थातेति श्रुते: ।
यथा च वर्तमाना ब्रम्हाविद आरब्धभोगक्षये कैवल्यमनुभवन्ति ।
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति श्रुते: ।
एवमपान्तरतम: प्रभृतयोऽपीश्वरा: परमेश्वरेण तेषु तेष्वधिकारेषु नियुक्ता: सन्त: सत्यपि सम्यग्दर्शने कैवल्यहेतावक्षीणक्रर्माणो यावदधिकारमवतिष्ठन्ते ।
तदवसाने चापवृज्यन्त इत्यविरुद्धम् ।
सकृत्प्रवृत्तमेव हि ते फलदानाय कर्माशयमतिवाहयन्त: स्वातन्त्र्येणैव गृहादिव गृहान्तरमन्यमन्यं देहं संचरन्त: स्वाधिकारनिर्वर्तनायापरिमुषितस्मृतय एव देहेन्द्रिप्रकृतिवशित्वान्निर्माय देहीन्य्गपत्क्रमेण वाधितिष्ठान्ति ।
न चैते जातिस्मरा इत्युच्यन्ते त एवैते इति स्मृतिप्रसिद्धे: ।
यथा हि सुलभा नाम ब्रम्हावादिनी जनकेन विवदितुकामा व्युदस्य स्वं देहं जानकं देहमाविश्य व्युद्य तेन पश्चात्स्वमेव देहमाविवेशेति स्मर्यते ।
यदि हयुपयुक्ते सकृत्प्रवृत्ते कर्मणि कर्मान्तरं देहान्तरारम्भकारणमाविर्भवेत्तत्तोऽन्यदप्यदग्धबीजं कर्मान्तरं तद्वदेव प्रसज्येतेति ब्रहयविद्याय: पाक्षिकं मोक्षहेतुत्वमहेतुत्वं वाशङ्क्येत न त्वियमाशङका युक्ता ज्ञानात्कर्मबीजदाहस्य श्रुतिस्मृतिप्रसिद्धत्वात् ।
तथा हि श्रुति: - भिद्यते ह्रदयग्रन्थिश्छिद्यन्ते सर्वसंशया: ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावर इति ।
स्मृतिलम्भे सर्वंग्रन्यीनां विप्रमोक्ष इति चैवमाद्या ।
स्मृतिरपि - यथैधांसि समिद्धोऽग्निर्भंस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्नि: सर्वकर्माणि भस्मसात्कुरुते तथेति ।
बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुन: ।
ज्ञानदग्धैस्तथा क्लेशैर्नात्मा संपद्यते पुनरिति चैवमाद्या न चाविद्यादिक्लेसदाहे सति क्लेशबीजस्य कर्माशयस्यैकदेशदाह एकदेशप्ररोहश्चेत्युपपद्यते ।
न हयाग्निदग्धस्य शालिबीजस्यैकदेशप्ररोहो दृश्यते ।
प्रवृत्तफलस्य तु कर्माशयस्य मुक्तेषोरिव वेगक्षयान्निवृत्ति:  ।
तस्य तावदेव चिरमिति शरीरपातावधिक्षेपकरणात् ।
तस्मादुपपन्ना यावदधिकारमाधिकारिकाणामवस्थिति: ।
न च ज्ञानफलस्यानैकान्तिकता ।
तथा च श्रुतिरविशेषेणैव सर्वेषां ज्ञानान्मोक्षं दर्शयति तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणामिति ।
ज्ञानान्तरेषु चैश्वर्यादिफलेष्वासक्त: स्युर्महर्षय: ।
ते पश्चादैश्वर्यक्षयदर्शनेन निर्विण्णा: परमात्मज्ञाने परिनिष्ठा: कैवल्यं प्रापुरित्युपपद्यते ।
ब्रम्हाणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मान:  प्रविशन्ति परं पदमिति स्मरणात् ।
प्रत्यक्षफलत्वाच्च ज्ञानस्य फलविरहाशङकानुपपत्ति: ।
कर्मफले हि स्वर्गादावनुभवानारूढे स्यादाशङ्का भवेद्वा न वेति ।
अनुभवारूढं तु ज्ञानफलं यत्साक्षादपरोक्षादब्रम्होति श्रुते: ।
तत्त्वमसीति च सिद्धवदुपदेशात् ।
न हि तत्त्वमसीत्यस्य वाक्यस्यार्थस्तत्त्वं मृतो भविष्यसीत्येवं परिणेतुं शक्य: ।
तद्धैतत्पस्यन्नृषिर्वामदेव: प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति सम्यग्दर्शनकालमेव तत्फलं सर्वात्मत्वं दर्शयति ।
तस्मादैकान्तिकी विदुष: कैवल्यसिद्धि: ॥३२॥१९॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP