तृतीयाः पाद: - सूत्र ३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियम: ॥३॥

स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियाम: ॥ यदप्युक्त - माथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणादन्येषां च तदनपेक्षणाद्विद्याभेद इति तत्प्रत्युच्यते ।
स्वाध्यायस्यैष धर्मो न विद्याया: ।
कथमिदमवगम्यते ।
यतस्तथात्वेन स्वाध्यायधर्मत्वेन समाचारे वेदव्रतोपदेशपरे ग्रन्थे आथर्वणिका इदमपि वेदव्रतत्वेन समाख्यातमिति समामनन्ति ।
नैतदचीर्णव्रतोऽधीयते इति चाधिकृतविषयादेतच्छब्दादध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एवैष इति निर्धार्यते ।
ननु च तेषामेवैतां ब्रम्हाविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णमिति ब्रम्हाविद्यासंयोगश्रवणादेकैव सर्वत्र ब्रम्हाविद्येते सङ्कीर्येतैष धर्म: । न ।
तत्राप्येतामिति प्रकृतप्रत्यवमर्शात्  ।
प्रकृतत्वं च ब्रम्हाविद्याया ग्रन्थविसेषापेक्षत्वमिति ग्रन्थविशेषसंयोग्येवैष धर्म: ।
सववञ्च तन्नियम ति निदर्शननिर्देश: ।
यथा च सवा: सप्त सौर्यादय़: शतौदनपर्यन्ता वेदान्तरोदितत्रेताग्न्यनभिसंबन्धादाथर्वणोदितैकाग्न्याभिसंबन्धाच्चाथर्वणिकानामेव नियम्यन्ते तथेवायमपि धर्म: स्वाध्यायविशेषसंबन्धाततत्रैव नियम्यते ।
तस्मादप्यनवद्यं विद्यैकत्वम् ॥३॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP