तृतीयाः पाद: - सूत्र ५५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अङगावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥५५॥

अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ प्रमाप्ता प्रासङ्गिकी कथा संप्रति तु प्रकृतामेवानुवर्तामहे ।
ओमित्येतदक्षरमुद्नीथमुपासीत लोकेषु पञ्चविधं सामोषासीतोक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवी अयं वाव लोक एषोऽग्निश्चित इत्येवमाद्या य उद्नीथादिकर्माङ्गावबद्धा: प्रत्यया: प्रतिवेदं शाखाभेदेषु विहितास्ते तत्तच्छाखागतेष्वेवोद्नीथादिषु भवेयुरथवा सर्वशाखागतेष्विति विशय: प्रतिशाखं च स्वरादिभेदादुद्नीथादिभेदानुपादायायमुपन्यास: ।
किं तावत्प्राप्तम् ।
स्वशाखागतेष्वेवोद्नीथादिषु विधीयेरन्निति । कुत: । सन्निधानात् ।
उद्नीर्थमुपासीतेति हि सामान्यविहितानां विशेषाकाङ्क्षायां सन्निकृष्टेनैव स्वशाखागतेन विशेषेणाकाङक्षादि निवृत्ते: ।
तदतिलङ्घनेन शाखान्तरविहितविशेषोपादाते कारणं नास्ति ।
तस्मात्प्रतिशाखं व्यवस्थेति ।
एवं प्राप्ते ब्रवीत्यङ्गागवबद्धास्त्विति ।
तुशब्द: पक्षं व्यावर्तयति ।
नैते प्रतिवेदं स्वशास्वास्वेव व्यवतिष्ठेरन् ।
अपि तु सर्वशाखास्वनुवर्तेरन् । कुत: ।
उद्नीथादिश्रुत्यविशेषात् ।
स्वशाखाव्यवस्थायां हयुद्रीथमुपासीतेति सामान्यश्रुतिरविशेषप्रवृत्ता सती सन्निधानवशेन विशेषे व्यवस्थाप्यमाना पीडिता स्यात् ।
न चैतन्याय्यम् ।
सन्निधानात्तु श्रुतिर्बलीयसी ।
न च सामान्याश्रय: प्रत्ययो नोपपद्यते ।
तस्मात्स्वरादिभेदे सत्यफुद्नीथत्वाद्यविशेशात्सर्वशाखागतेष्वेवोद्नीथादिष्वेवजातीयका: प्रत्यया: स्यु: ॥५५॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP