TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

तॄतीय: पाद: - सूत्र १

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सूत्र १
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥१॥

सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ व्याख्यातं विज्ञेयस्य ब्रम्हाणस्तत्त्वम् ।
इदानीं तु प्रति वेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यते ननु विज्ञेयं ब्रम्हा पूर्वापरादिभेदरहितमेकरस सैन्धवघनवदवधारितं तत्र कुतो विज्ञानभेदाभेदचिन्तावरतार: ।
न हि कर्मबहुत्ववदब्रम्हाच हुत्वमपि वेदान्तेषु प्रतिपिपादयिषितमिति शक्यं वक्तुम् ।
ब्रम्हाण एकत्वादेकरूपत्वाच्च ।
न चिकरूपे ब्रम्हाण्यनेकरूपाणि विज्ञानानि संभवन्ति ।
न हयन्यथार्थोऽन्यथाज्ञानमित्यभ्रान्तं भवति यदि पुनरेकस्मिन्ब्रम्हाणि बहूनि विज्ञानानि वेदान्तान्तरेषु प्रतिपिपादयिषितानि तेषामेकमभ्रान्तं भ्रान्तानीतराणीत्यनाश्वासप्रसङो वेदान्तेषु तस्मान्न तावत्प्रति वेदान्तं ब्रम्हाविज्ञानभेद आशङ्कितुं शक्यते ।
नाप्यस्य चोदनाद्यविशेषादभेद उच्यते ।
ब्रम्हाविज्ञानस्याचोदनालक्षणत्वात् ।
अविधिप्रधानैर्हि वस्तुपयवसायिभिर्ब्रम्हावाक्यैर्ब्रम्हाविज्ञानं जन्यत् इत्यवोचदाचार्यस्तत्तु समन्वयादित्यत्र ।
तत्कथभिमां भेदाभेअचिन्तामारभत इति । तदुच्यते ।
सगुणब्रम्हाविषया प्राणादिविषया चेयं विज्ञानभेदाभेदचिन्तेत्यदोष: ।
अत्र हि कर्मवदुपासनानां भेदाभेदौ संभवत: कर्मवदेव चोपासनानि द्दष्टफलान्यद्दष्टाफलानि चोच्यन्ते ।
क्रममुक्तिफलानि च कानिचित्सम्यग्ज्ञानोत्पत्तिद्वारेण ।
तेष्वेषा चिन्ता संभवति ।
किं प्रतिवेदान्तं विज्ञानभेद आहोस्विन्नेति ।
तत्र पूर्वपक्षहेतवस्तावदुपन्यस्यन्ते ।
नान्नस्तावद्भेदप्रतिपत्तिहेतुत्वं प्रसिद्धं ज्योतिरादिषु ।
अस्ति चात्र वेदान्तानरविहितेषु विज्ञानेष्वन्यदन्यदन्यन्नाम तैत्तिरीयकं वाजसनेयकं कौथुमकं शाठयायनकमित्वेवमादि ।
तथा रूपभेदोऽपि कर्मंभेदस्य प्रतिपादक: प्रसिद्धो विश्वदेव्याऽऽमिक्षा वाजिभ्यो वाजिनमित्येवमादिषु ।
अस्ति चात्ररूपभेद: ।
तद्यथा केचिच्छाखिन: पञ्चाग्निविद्यायां षष्ठमपरमग्निमामनन्त्यपरे  पुन; पञ्चैव पठन्ति ।
तथा प्राणसंवादादिषु केचिदूनान्वागादीनामनन्ति केचिदधिकान् ।
तथा धर्मविशेषोऽपि कर्मभेदस्य प्रतिपादक आशङ्कित: कारीर्यादिषु ।
अस्ति चात्र धर्मविशेष: ।
यथाऽऽथर्वणिकानां शिरोब्रतमिति ।
एवं पुनरुक्य्त्यादयो भेदहेतवो यथासंभवं वेदान्तान्तरेषु योजयितव्या: ।
तस्मात्प्रतिवेदान्तं विज्ञानभेद इति ।
एवं प्राप्ते ब्रूम: - सर्ववेदान्तप्रत्ययानि विज्ञानानि तस्मिंस्तस्मिन्वेदान्ते तानि तान्येव भवितुमर्हन्ति । कुत: ।
चोदनाद्यविशेषात् ।
आदिग्रहणेन शाखान्तराधिकरणसिद्धान्तसूत्रोदिता अभेदहेतव इहाकृष्यन्ते ।
संयोगरूपचोदनाख्याविशेषादित्यर्थ: ।
यथैकस्मिन्नग्निहोवे शाखाभेदेऽपि पुरुषप्रयत्नस्तादृश एव चोद्यते जुहुयादिति ।
एवं यो ह वै ज्येष्ठां च श्रेष्ठं च वेदेति वाजसनेयिनां छन्दोगानां च ताद्दश्येव चोदना ।
प्रजोजनसंयोगोऽप्यविशिष्ट एव ज्येष्ठश्च श्रेष्ठश्च स्वानां भवतिति ।
रूपमप्युभयत्र तदेव विज्ञानस्य यदुत ज्येष्ठश्रेष्ठादिविशेषणान्वितं प्राणतत्त्वम् ।
यथा च द्रव्यदेवते यागस्य रूपमेवं विज्ञेयं रूपं विज्ञानस्य तेन हि तद्रूप्यते ।
समाख्यापि सैव प्राणविद्येति ।
तस्मात्सर्ववेदान्तप्रत्ययत्वं विज्ञानानाम् ।
एवं पञ्चाग्निविद्या वैश्चानरविद्या शाण्डिल्यविद्येत्येवमादिषु योजयितव्यम् ।
ये तु नामरूपादयो भेदहेत्वाभासास्ते प्रथम एव काण्डे न नाम्ना स्यादचोदनाभिधानत्वादित्यारभ्य परिह्रता: ॥१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2014-12-20T02:08:34.4930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

lamp holder

  • दिवा धारक 
RANDOM WORD

Did you know?

उगवत्या सूर्याला नमस्कार, मावळत्या का नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site