तृतीयाः पाद: - सूत्र १३-१४

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


इतरे त्वर्थसामान्यात् ॥१३॥

इतरे त्वर्थसामान्यात् । इतरे त्वानन्दादयो धर्मा ब्रम्हास्वरूपप्रतिपादनायैवोच्यमाना अर्थसामान्यात्प्रतिपाद्यस्य ब्रम्हाणो धर्मिण एकत्वात्सर्वे सर्वत्र प्रतियेरन्निति विअषम्यम् ।
प्रतिपत्तिमात्रप्रयोजना हि त इति ॥१३॥६॥

आध्यानाय प्रयोजनाभावात् ॥१४॥

आध्यानाय प्रयोजनाभावात् । काठके हिपठयते ।
इन्द्रियेभ्य: परा हयर्था अर्थेभ्यश्च परं मन: ।
मनसस्तु परा बुद्धिरित्यारभ्य पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिरिति ।
तत्र संशय: ।
किमिमे सर्व एवार्थादयस्ततस्तत: परत्वेन प्रतिपाद्यन्त उत पुरुष एवैभ्य: सर्वेभ्य: पर: प्रतिपाद्यत इति ।
तत्र तावत्सर्वेषामेवैषां परत्वेन प्रतिपादनमितिभवति मति: ।
तथा हि श्रूयते -  इदमस्मात्परभिदमस्मात्परमिति ।
ननु बहुष्वर्थेषु परत्वेन प्रतिपिपादयिषितेषु वाक्यभेद: स्यात् ।
नैष: दोष: ।
वाक्यबहुत्वोपपत्ते: ।
बहून्येव हयेतानि वाक्यानि प्रभवन्ति बहुविषयान्परत्वोपेतान्प्रतिपादयितुम् ।
तस्मात्प्रत्येकमेषां परत्वप्रतिपादनमित्येबं प्राप्ते ब्रूम: ।
पुरुष एवैभ्य: सर्वेभ्य: पर: प्रतिपाद्यत इति युक्तं न प्रत्येकमेषां परत्वप्रतिपादनम् ।
कस्मात् । प्रयोजनाभावात् ।
न हीतरषु परत्वेन प्रतिपन्नेषु किञ्चित्प्रयोजनं दृश्यते श्रूयते वा ।
पुरुषे त्विन्द्रियादिभ्य: परम्सिन्सर्वानर्थव्रातातीते प्रतिपन्ने द्दश्यते प्रयोजनं मोक्षसिद्धि: ।
तथा च श्रुति: ।
निचाय्य तं मृत्युमुखात्प्रमुच्यत इति ।
अपि च परप्रतिषेधेन काष्ठादिशब्देन च पुरुषवियमादरं दर्शयन्पुरुषप्रतिपत्त्यर्थैव पूर्वापरप्रवाहोक्तिरिति दर्शयति ।
आध्यानायेति ।
आध्यानपूर्वकाय सम्यग्दर्शनायेत्यर्थ: ।
सम्यग्दर्शनार्थमेव हीहाध्यानमुपदिश्यते न त्वाध्यानमेव स्वप्रधानम् ॥१४॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP