तृतीयाः पाद: - सूत्र १६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आत्मगृहीतिरितरवदुत्तरात् ॥१६॥

आत्मगृहीतिरितरवदुत्तरात् । ऐतरेयके श्रूयते - आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत्स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजताम्भो मरीचीर्मरमाप इत्यादि ।
तत्र संशय: किं पर एवात्मेहात्मशब्देनाभिलप्यत उतान्य: कश्चिदिति ।
किं तावत्प्राप्तं न परमात्मेहात्मशब्दाभिलप्यो भवितुमर्हतीति । कस्मात् ।
वाक्यान्वयदर्शनात् । ननु वाक्यान्वय: सुतरां परमात्मविषयो दुश्यते प्रागुत्पत्तेरात्मैकत्वावधारणादीक्षणपूर्वकस्रष्ट्टत्ववचनाच्च ।
नेत्युच्यते लोकसृष्टिवचनात् ।
परमास्मनि हि स्रष्टरि परिगृहयमाणे महाभूतसृष्टिरादौ वक्तव्या लोकसृष्टिस्त्विहादावुच्यते ।
लोकाश्च महाभुतसन्निवेशविशेषा: ।
तथा चाम्भ: प्रभृतील्लोकेत्वेनैव न्रिर्वक्ति - अदोऽम्भ: परेण दिवमित्यादिना ।
लोकसृष्टिश्च परमेश्चराधिष्ठितेनापरेण केनचिदीश्वरेण क्रियत इति श्रुतिस्मृत्योरुपलभ्यते ।
तथा हि श्रुतिर्भवति - आत्मैवेदमग्र आसीत्पुरुषविध इत्याद्या
स्मृतिरपि - स वै शरीरी प्रथम: स वै पुरुष उच्यते ।
आदिकर्ता स भूतानां ब्रम्हाग्रे समवर्ततेति ।
ऐतरेयिणोऽपि - अथातो रेतस: सृष्टि: प्रजापते रेतो देवा इत्यत्र पूर्वस्मिन्प्रकरणे प्रजापतिकर्तृकां विचित्रां सृष्टिमामनन्ति ।
आत्मशब्दोऽपि तस्मिन्प्रयुज्यमानो दृश्यते - आत्मैवेदमग्र आसीत्पुरुषविध इत्यत्र ।
एकत्वावधारणमपि प्रागुत्पत्तै: स्वविकारापेक्षमुपपद्यते ।
ईक्षणमपि तस्य चेतनत्वाभ्युपगमादुपपन्नम् ।
अपि च ताभ्यो गामानयत्ताभ्योऽश्वमानयत्ताभ्य: पुरुषमानयत्ताश्चाब्रूवन्नित्येवंजातीयको भूयान्व्यापारविशेषो लौकिकेषु विशेषवत्स्वात्मसु प्रसिद्ध इहानुगम्यते ।
तस्माद्विशेषवानेव कश्चिदिहात्मा स्यादित्येवं प्राप्ते ब्रूम: ।
पर एवात्मेहात्मशब्देन गृहयते ।
इतरवद्यथेतरेषु सृष्टिश्रवणेषु तस्माद्वा एतस्मादात्मन आकाशा: सम्भूत इत्येवमादिषु परस्यात्मनो ग्रहणम् ।
यथा चेतरीस्मँलौकिकात्मशब्दप्रयोगे प्रत्यगात्मैव मुख्य आत्मशब्देन गृहयते तथेहापि भवितुमर्हति ।
यत्र तु - आत्मैवेदमग्र आसीदित्येवमादौ पुरुषविध इत्येवमादि विशेषणान्तरं श्रूयते ।
भवेत्तत्र विशेषवत आत्मनो ग्रहणम् ।
अत्र पुन: परमात्मग्रहणानुगुणमेव विशेषणमप्युतरमुपलभ्यते स ईक्षत लोकान्नु सृजा इति स इमाँल्लोकानसृजतेत्येवमादि ।
तस्मात्तस्यैव ग्रहणमितिन्यायम् ॥१६॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP