तृतीयाः पाद: - सूत्र ३८

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सैव हि सत्यादय: ॥३८॥

सैव हि सत्यादय: ॥ स यो हैतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रम्होत्यादिना वाजसनेयके सत्वविद्यां सनामाक्षरोपासनां विधायानन्तरमान्नायते तद्यत्त्त्सत्यमसौ सस आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुष इत्यादि ।
तत्र संशय: किं द्वे एते सत्यविद्ये किं वैकैवेति ।
द्वे ति तावत्प्राप्तम् ।
भेदेन हि फलसंबन्धो भवति जयतीमाँल्लोकानिति पुरस्तात् ।
हन्ति पाप्मानं जहाति च य एवं वेद इत्युपरिष्टात् ।
प्रकृताकर्षणं तूपास्यैकत्वादिति ।
एवं प्राप्ते ब्रूम: ।
एकैवेयं सत्यविद्येति । कुत: ।
तद्यत्तत्सत्यमिति प्रकृताकर्षणात् ।
ननु विद्याभेदेऽपि प्रकृताकर्षणमुपास्यैकत्वाद्युपपद्यत इत्युक्तम् ।
नैतदेवम् ।
यत्र हि विस्पष्टात्कारणान्तराद्विद्याभेद: प्रतीयते तत्रैतदेवं स्यात् ।
अत्र तूभयथासंभवे तद्यत्तत्सत्यमिति प्रकृताकर्षणात्पूर्वविद्यासंबद्धमेव सत्यमुत्तरत्राकृष्यत इत्येकविद्यात्वनिश्चय: ।
यत्पुनरुक्तं फलान्तरश्रवणाद्विद्यान्तरमिति ।
अत्रोच्यते ।
तस्योपनिषदहरहमिति चाङ्गान्तरोपदेशस्य स्तावकमिदं फलान्तरश्रवणमित्यदोष: ।
अपि चार्थवादादेव फले कल्पयितव्ये सति विद्यैकत्वे चावयवेषु  श्रूयमाणानि बहून्यापि फलान्यवयविन्यामेव विद्यायामुपसंसहर्तव्यानि भवति ।
तस्मात्सैवेयमेका सत्यविद्या तेन तेन विशेषेणोपेताऽऽन्नायत इत्यत: सर्व एव सत्यादयो गुणा एकस्मिन्नेव प्रयोग उपसंहर्तव्या: ।
केचित्पुनरस्मिनूत्र इदं वाजसनेयकमक्षादित्यपुरुषविषयं वाक्यं छान्दोग्ये च - अथ य एषोऽन्तरादित्ये हिरण्मय: पुरुषो द्दश्यतेऽथ य एषोऽन्तरक्षिणि पुरुषो  दृत्युदाहृत्य सैवेयमक्ष्यादित्यपुरुषविषया विद्योभयत्रैकैवेति कृत्वा सत्यादिगुणान्वाजसनेयिभ्यश्छन्दोगानामुपसंहार्यान्मन्यन्ते ।
तन्न साधु लक्ष्यते ।
छान्दोग्ये हि ज्योतिष्टोमकर्मसंबन्धिन्युद्नीथव्यपाश्रया विद्या विज्ञायते तत्र हयंदिमध्यावसानेषु कर्मसंबन्धिचिन्हानि भवन्ति ।
इयमेवर्गग्नि: सामेत्युपक्रमे ।
तस्यर्क्च सम गेष्णौ तस्मादुद्नीथ इति मध्ये ।
य एवं विद्वान्साम गायतीत्युपसंहारे ।
नैवं वाजसनेयके किंचित्कर्मसंबन्धि चिन्हमस्ति ।
तत्र प्रक्रमभेदाद्विद्याभेदे सति गुणव्यवस्थैव युक्तेति ॥३८॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP