तृतीयाः पाद: - सूत्र २३

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


संभृतिद्युव्याप्त्यपि चात: ॥२३॥

संभृतिद्युव्याप्त्यति चात: ॥ ब्रम्हाज्येष्ठा वीर्या संभृतांनि ब्रम्हाग्रे ज्येष्ठं दिवमाततानेत्येवं राणायनीयानां खिलेषु वीर्यसंभृतिद्युनिवेशप्रभृतयो ब्रम्हाणो विभूतय: पठयन्ते ।
तेषामेव चोपनिषदि शाण्डिल्यविद्याप्रभृतयो ब्रम्हाविद्या: पठयन्ते ।
तासु ब्रम्हाविद्यासु ता ब्रम्हाविभूतय उपसंहियेरन्न वेति विचारणायां ब्रम्हासंबन्धादुपसंहारप्राप्तावेवं पठति ।
संभृतिद्युव्याप्तिप्रभृतयो विभूतय: शाण्डिल्यविद्याप्रभृतिषु नोपसंहर्तव्य: ।
अत एव चायतनविशेषयोगात् ।
तथा हि शाण्डिल्यविद्यायनां ह्रदयायतनत्वं ब्रम्हाण उक्तमेष म आत्मार्न्तह्रदय इति ।
तद्वदेव दहरविद्यायामपि दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश इति ।
उपकोसलविद्यायां त्वक्ष्यायतनत्वं य एषोऽक्षिणि पुरूषो द्दश्यत इति ।
एवं तत्र तत्र तत्तदाध्यात्मिकमायतनमेतासु विद्यासु प्रतीयते ।
आधिदैविक्यस्त्वेता विभृतय: संभृतिद्युव्याप्तिप्रभृतयस्तासां कुत एतासु प्राप्ति: ।
नन्वेतास्वप्याधिदैविक्यो विभूतय: श्रूयन्ते ।
ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्य एष उ एव भामनीरेष हि सर्वेषु भॄतेषु भाति यावान्वाऽयमाकाशस्तावानेषोऽन्तर्हृदय आकाश उभे अस्मिन्द्यावापृथिवी अन्तरेव समाहिते इत्येवमाद्या: ।
सन्ति चान्या आयतनविशेषहीना अपीह ब्रम्हाविद्या: षोडशकलाद्या: ।
सत्यमेवमेतत् ।
तथाप्यत्र विद्यते विशेष: संभृत्याद्यनुपसंहारहेतु: ।
समानगुणाम्नानेन हि प्रत्युपस्थापितासु विप्रकृष्टदेशास्वपि विद्यासु विप्रकृष्टदेशगुणा उपसंहियेरन्निति युक्तम् ।
संभृत्यादयस्तु शाण्डिल्यादिवाक्यगोचराश्व गुणा: परस्परव्यावृत्तस्वरूपत्वान्न प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनक्षमा: ।
न च ब्रम्हासंबन्धमात्रेण प्रदेशान्तरवर्तिविद्याप्रत्युपस्थापनमित्युच्यते ।
विद्याभेदेऽपि तदुपपत्ते: ।
एकमपि हि ब्रम्हा विभूतिभेदैरनेकैरनेकधोपास्यत इति स्थित:।
परोवरीयस्त्वादिवद्भेददर्शनात् ।
तस्माद्वीर्यसंभृत्यादीनां शाण्डिल्यविद्यादिष्वनुपसंहार इति ॥२३॥१२॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP