तृतीयाः पाद: - सूत्र २९-३०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध: ॥२९॥

गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोध: ॥ क्वचित्पुण्यपापहानसन्निधौ देवयान: पन्था: श्रूयते क्वचिन्न ।
तत्र संशय: किं हानावविशेषेणैव देवयान: पन्था: संनिपतेदुत विभागेन क्वचित्संनिपतेत्क्वचिन्नेति ।
यथा तावद्धानावविशेषेणैवोपायनानुवृत्तिरुक्तैवं देवयानानुवृत्तिरपि भवितुमर्हतीत्यस्यां प्राप्तावाचक्ष्महे ।
गतेर्देवयानस्य पथोऽर्थवत्त्वमुभयथा विभागेन भवितुमर्हति क्वचिदर्थवती गति: क्वचिन्नेति नाविशेषेण ।
अन्यथा हयविशेषेणैवैतस्यां गतावङ्गीक्रियमाणायां विरोध: स्यात् ।
पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैतीत्यस्यां श्रुतौ देशान्तरप्रापणी गतिर्विरुध्येत ।
कथं हि निरञ्जनोऽगन्ता देशान्तरं गच्छेत् ।
गन्तव्यं च परमं साम्यं व देशान्तरप्राप्त्यायत्तमित्यानर्थक्यमेवात्र गतेर्मन्यामहे ॥२९॥

उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॥३०॥

उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् । उअपन्नश्चायमुभयथाभाव: क्वचिदर्थवती गति: क्वचिन्नेति ।
तल्लक्षणार्थोपलब्धे: ।
गतिकारणभूतो हयर्थ: पर्यङ्कविद्यादिषु सगुणेषूपासनेषूपलभ्यते ।
तत्र हि पर्यङकारोहणं पर्यङ्कस्थेन ब्रम्हाणा संवदनं विशिष्टगन्धादिप्राप्तिश्वेत्येवमादि बहुदेशान्तरप्राप्त्यायत्तं फलं श्रूयते तत्रार्थवती गति: ।
न हि सम्यग्दर्शने तल्लक्षणार्थोपलब्धिरस्ति ।
न हयात्मैकत्वदर्शिनामाप्तकामानामिहैव दग्धाशेषक्लेशबीजानामारब्धभोगकर्माशायक्षपणव्यतिरेकेणापेक्षितव्यं र्किचिदस्ति तत्रानर्थिका गति: ।
लोकवच्चैष विभागो द्रष्टव्य: ।
यथा लोके ग्रामप्राप्तौ देशान्तरप्रापण: पन्था अपेक्ष्यते नारोग्यप्राप्तावेवमिहापीति ।
भूयश्चैनं विभागं चतुर्थाध्याये निपुणतरमुपपादयिष्याम: ॥३०॥१७॥


Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP