तृतीयाः पाद: - सूत्र ३७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


व्यतिहारो विशिंषन्ति हीतरवत् ॥३७॥

व्यतिहारो विशिंषन्ति हीतरवत् । यथा तद्योऽहं सोऽसौ योऽसौ योऽसौ सोऽहमित्यादित्यपुरुषं प्रकृत्यैतरेयिण: समामनन्ति ।
तथा जाबाला: - त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसीति ।
तत्र संशय: ।
किमिह व्यतिहारेणोभयरूपा मति: कर्तव्योतैकरूपैवेति ।
एकरूपिअवोति तावदाह ।
न हयत्रात्मन ईश्वरेणैकत्वं मुक्त्वाऽन्यत्किंचिच्चिन्तयितव्यमस्ति ।
यदि चैवं चिन्ययितव्यो विशेष: परिकल्प्येत संसारिणश्वेश्वरात्मत्वमीश्वरस्य च संसार्यात्मत्वमिति ।
तत्र संसारिणस्तावदीश्वरात्मत्व उत्कर्षो भवेदीश्वरस्य तु संसार्यात्मत्वे निकर्ष: कृत: स्यात् ।
तस्मादैकरूप्यमेव मते: ।
व्यतिहारान्नायस्त्वेकत्वद्दढीकरणार्थ इति ।
एवं प्राप्ते प्राप्ते प्रत्याह ।
व्यतिहारोऽयमाध्यानायान्नायते ।
इतरवत् ।
यथेतरे गुणा: सर्वात्मत्वप्रभृतय आध्यानायान्नायन्ते तद्वत् ।
तथा हि विशिंशह्न्ति समान्नातार उभयोच्चारणेन त्वमहमस्म्यहं च त्वमसीति ।
तच्चोभयरूपायां मतौ कर्तव्यायामर्थवद्भवति ।
अन्यथा हीदं विशेषेणोभयान्नानमनर्थकं स्यात् ।
एकेनैव कृतत्वात् ।
ननूभयान्नानस्यार्थविशेषे परिकल्प्यमाने देवताया: संसार्यात्मत्वापत्तेर्निकर्ष: प्रसज्येतेत्युक्तम् ।
नैष दोष: ।
एकात्म्यस्यैवानेन प्रकारेणानुचिन्त्यमानत्वात् ।
नन्वेवं सति स एवैकत्वद्दढीकार आपद्येत ।
न वयमेकत्वद्दढीकारं वारयाम: किं तर्हि व्यतिहरिणेह द्विरूपा मति: कर्तव्या वचनप्रामाण्यान्नैकरूपेत्येतावदुपपादयाम: ।
फलतस्त्वेकत्वमपि द्दढीभवति ।
यथा ध्यानार्थेऽपि सत्यकामादिगुणोपदेशे तद्नुण ईश्वर: प्रसिध्यति तद्वत् ।
तस्मादयमाध्यातव्यो व्यतिहार: समाने च विषय उपसंहर्तव्यो भवतीति ॥३७॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP