तृतीयाः पाद: - सूत्र ११

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


आनन्दादय: प्रधानस्य ॥११॥

आनन्दादय: प्रधानस्य । ब्रम्हास्वरूफप्रतिपादनपरासु श्रुतिष्वानन्दरूपत्वं विज्ञानघनत्वं सर्वगतत्वं सर्वात्मकत्वमित्येवंजातीयका ब्रम्हाणो धर्मा: क्वचित्केचिच्छूयन्ते ।
तेषु संशय: ।
किमानन्दादयो ब्रम्हाधर्मा यावन्तो यत्र श्रुयन्ते नावन्त एव तत्र प्रतिपत्तव्या: किं सर्वे सर्वत्रेति ।
तत्र यथाश्रुतिविभांग धर्मप्रतिपत्तौ प्राप्तायामिदमुच्यते ।
आनन्दादय: प्रधानस्य ब्रम्हाणो धर्मा: सर्वे सर्वत्र प्रतिपत्तव्या: । कस्मात् ।
सर्वाभेदादेव । सर्वत्र हि तदेवैकं प्रधानं विशेष्यं ब्रम्हा न भिद्यते ।
तस्मात्सार्वत्रिकत्वं ब्रम्हाधर्माणां तेनैव पूर्वाधिकरणोदितेन देवदत्तशौर्यादिनिदर्शनेन ॥११॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP