TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय २८

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २८
हस्त्य्-अश्व-पृष्ठ-गमन-कठिनोत्कटकासनैः ।
अर्शो-निदानाभिहितैर् अपरैश् च निषेवितैः ॥१॥

२८.१ -कठिनोत्कटुकासनैः अन्-इष्टा-दृष्ट-पाकेन सद्यो वा साधु-गर्हणैः ।
प्रायेण पिटिका-पूर्वो यो ऽङ्गुले द्व्य्-अङ्गुले ऽपि वा ॥२॥

२८.२ अन्-इष्ट-दिष्ट-पाकेन पायोर् व्रणो ऽन्तर् बाह्यो वा दुष्टासृङ्-मांस-गो भवेत् ।
वस्ति-मूत्राशयाभ्यास-गत-त्वात् स्यन्दनात्मकः ॥३॥

२८.३ पायौ व्रणो ऽन्तर् बाह्यो वा भगन्दरः स सर्वांश् च दारयत्य् अ-क्रिया-वतः ।
भग-वस्ति-गुदांस् तेषु दीर्यमाणेषु भूरिभिः ॥४॥

२८.४ भगन्दरः स सर्वश् च २८.४ भगन्दरः स सर्वस्य वात-मूत्र-शकृच्-छुक्रं खैः सूक्ष्मैर् वमति क्रमात् ।
दोषैः पृथग् युतैः सर्वैर् आगन्तुः सो ऽष्टमः स्मृतः ॥५॥

२८.५ आगन्तुश् चाष्टमः स्मृतः अ-पक्वं पिटिकां आहुः पाक-प्राप्तं भगन्दरम् ।
गूढ-मूलां स-संरम्भां रुग्-आढ्यां रूढ-कोपिनीम् ॥६॥

भगन्दर-करीं विद्यात् पिटिकां न त्व् अतो ऽन्य-था ।
तत्र श्यावारुणा तोद-भेद-स्फुरण-रुक्-करी ॥७॥

पिटिका मारुतात् पित्ताउष्ट्र-ग्रीवा-वउच्छ्रिता ।
रागिणी तनुर् ऊष्माढ्या ज्वर-धूमायनान्विता ॥८॥

२८.८ रागिणी तनु-सूक्ष्मा च स्थिरा स्निग्धा महा-मूला पाण्डुः कण्डू-मती कफात् ।
श्यावा ताम्रा स-दाहोषा घोर-रुग् वात-पित्त-जा ॥९॥

२८.९ श्याव-ताम्रा स-दाहोषा पाण्डुरा किञ्-चिद्-आ-श्यावा कृच्छ्र-पाका कफानिलात् ।
पादाङ्गुष्ठ-समा सर्वैर् दोषैर् नाना-विध-व्यथा ॥१०॥

शूला-रोचक-तृड्-दाह-ज्वर-च्छर्दिर्-उपद्रुता ।
व्रण-तां यान्ति ताः पक्वाः प्रमादात् तत्र वात-जा ॥११॥

चीयते ऽणु-मुखैश् छिद्रैः शत-पोनक-वत् क्रमात् ।
अच्छं स्रवद्भिर् आस्रावम् अजस्रं फेन-संयुतम् ॥१२॥

२८.१२ दीर्यते ऽणु-मुखैश् छिद्रैः २८.१२ शत-पोनक-वक्त्र-वत् शत-पोनक-संज्ञो ऽयम् उष्ट्र-ग्रीवस् तु पित्त-जः ।
बहु-पिच्छा-परिस्रावी परिस्रावी कफोद्भवः ॥१३॥

वात-पित्ताज् परिक्षेपी परिक्षिप्य गुदं गतिः ।
जायते परितस् तत्र प्राकारं परिखेव च ॥१४॥

२८.१४ प्राकार-परिखेव च ऋजुर् वात-कफाऋज्व्या गुदो गत्यात्र दीर्यते ।
कफ-पित्ते तु पूर्वोत्थं दुर्-नामाश्रित्य कुप्यतः ॥१५॥

२८.१५ गुदो गत्या तु दीर्यते २८.१५ गुदो गत्या नु दीर्यते २८.१५ कफ-पित्ते तु पूर्वोक्तं अर्शो-मूले ततः शोफः कण्डू-दाहादि-मान् भवेत् ।
स शीघ्रं पक्व-भिन्नो ऽस्य क्लेदयन् मूलम् अर्शसः ॥१६॥

स्रवत्य् अजस्रं गतिभिर् अयम् अर्शो-भगन्दरः ।
सर्व-जः शम्बुकावर्तः शम्बूकावर्त-संनिभः ॥१७॥

गतयो दारयन्त्य् अस्मिन् रुग्-वेगैर् दारुणैर् गुदम् ।
अस्थि-लेशो ऽभ्यवहृतो मांस-गृद्ध्या यदा गुदम् ॥१८॥

क्षिणोति तिर्यङ् निर्गच्छन्न् उन्-मार्गं क्षततो गतिः ।
स्यात् ततः पूय-दीर्णायां मांस-कोथेन तत्र च ॥१९॥

२८.१९ क्षणोति तिर्यङ् निर्गच्छन् २८.१९ स्यात् तदा पूय-दीर्णायां जायन्ते कृमयस् तस्य खादन्तः परितो गुदम् ।
विदारयन्ति न चिराउन्-मार्गी क्षत-जश् च सः ॥२०॥

२८.२० जायन्ते कृमयस् तेभ्यः २८.२० उन्-मार्गी क्षत-जस् तु सः तेषु रुग्-दाह-कण्ड्व्-आदीन् विद्याव्रण-निषेधतः ।
षट् कृच्छ्र-साधनास् तेषां निचय-क्षत-जौ त्यजेत् ॥२१॥

२८.२१ विद्याव्रण-विभक्तितः प्रवाहिणीं वलीं प्राप्तं सेवनीं वा समाश्रितम् ।
अथास्य पिटिकाम् एव तथा यत्नाउपाचरेत् ॥२२॥

शुद्ध्य्-असृक्-स्रुति-सेकाद्यैर् यथा पाकं न गच्छति ।
पाके पुनर् उपस्निग्धं स्वेदितं चावगाहतः ॥२३॥

यन्त्रयित्वार्शसम् इव पश्येत् सम्यग् भगन्दरम् ।
अर्वाचीनं पराचीनम् अन्तर्-मुख-बहिर्-मुखम् ॥२४॥

२८.२४ अवाचीनं पराचीनम् अथान्तर्-मुखम् एषित्वा सम्यक् शस्त्रेण पाटयेत् ।
बहिर्-मुखं च निःशेषं ततः क्षारेण साधयेत् ॥२५॥

अग्निना वा भिषक् साधु क्षारेणैवोष्ट्र-कन्धरम् ।
नाडीर् एकान्तराः कृत्वा पाटयेछत-पोनकम् ॥२६॥

२८.२६ नाडीम् एकान्तरं कृत्वा २८.२६ पाटयेछत-पोनके तासु रूढासु शेषाश् च मृत्युर् दीर्णे गुदे ऽन्य-था ।
परिक्षेपिणि चाप्य् एवं नाड्य्-उक्तैः क्षार-सूत्रकैः ॥२७॥

अर्शो-भगन्दरे पूर्वम् अर्शांसि प्रतिसाधयेत् ।
त्यक्त्वोपचर्यः क्षत-जः शल्यं शल्य-वतस् ततः ॥२८॥

२८.२८ अर्शांसि प्रतिसारयेत् आहरेच तथा दद्यात् कृमि-घ्नं लेप-भोजनम् ।
पिण्ड-नाड्य्-आदयः स्वेदाः सु-स्निग्धा रुजि पूजिताः ॥२९॥

२८.२९ आहरेत तथा दद्यात् २८.२९ आहरेत् तत् तथा दद्यात् २८.२९ आहरेत् तु तथा दद्यात् सर्व-त्र च बहु-च्छिद्रे छेदान् आलोच्य योजयेत् ।
गो-तीर्थ-सर्वतो-भद्र-दल-लाङ्गल-लाङ्गलान् ॥३०॥

२८.३० सर्व-त्रापि बहु-च्छिद्रे पार्श्वं गतेन शस्त्रेण च्छेदो गो-तीर्थको मतः ।
सर्वतः सर्वतो-भद्रः पार्श्व-च्छेदो ऽर्ध-लाङ्गलः ॥३१॥

२८.३१ पार्श्व-गतेन शस्त्रेण २८.३१ पार्श्वागतेन शस्त्रेण पार्श्व-द्वये लाङ्गलकः समस्तांश् चाग्निना दहेत् ।
आस्राव-मार्गान् निःशेषं नैवं विकुरुते पुनः ॥३२॥

२८.३२ आस्राव-मार्गान् निःशेषान् यतेत कोष्ठ-शुद्धौ च भिषक् तस्यान्तरान्तरा ।
लेपो व्रणे बिडालास्थि त्रि-फला-रस-कल्कितम् ॥३३॥

२८.३३ यतेत कोष्ठ-शुद्ध्यै च २८.३३ यतेत कोष्ठ-संशुद्धौ २८.३३ त्रि-फला-रस-कल्कितः ज्योतिष्मती-मलयु-लाङ्गलि-शेलु-पाठा-कुम्भाग्नि-सर्ज-करवीर-वचा-सुधार्कैः ।
अभ्यञ्जनाय विपचेत भगन्दराणां तैलं वदन्ति परमं हितम् एतएषाम् ॥३४॥

२८.३४ -कुम्भाग्नि-सर्जि-करवीर-वचा-सुधार्कैः २८.३४ तैलं वदन्ति परमं हितम् एतएव मधुक-लोध्र-कणा-त्रुटि-रेणुका-द्वि-रजनी-फलिनी-पटु-शारिवाः ।
कमल-केसर-पद्मक-धातकी-मदन-सर्ज-रसामय-रोदिकाः ॥३५॥

२८.३५ -मदन-सर्ज-रसामय-लोध्रकाः स-बीजपूर-च्छदनैर् एभिस् तैलं विपाचितम् ।
भगन्दरापची-कुष्ठ-मधु-मेह-व्रणापहम् ॥३६॥

मधु-तैल-युता विडङ्ग-सार-त्रि-फला-मागधिका-कणाश् च लीढाः ।
कृमि-कुष्ठ-भगन्दर-प्रमेह-क्षत-नाडी-व्रण-रोपणा भवन्ति ॥३७॥

२८.३७ -त्रि-फला-मागधिकोषणाश् च लीढाः २८.३७ -क्षत-नाडी-व्रण-रोहणा भवन्ति अमृता-त्रुटि-वेल्ल-वत्सकं कलि-पथ्यामलकानि गुग्गुलुः ।
क्रम-वृद्धम् इदं मधु-द्रुतं पिटिका-स्थौल्य-भगन्दराञ् जयेत् ॥३८॥

२८.३८ क्रम-वृद्धम् इदं मधु-प्लुतं मागधिकाग्नि-कलिङ्ग-विडङ्गैर् बिल्व-घृतैः स-वरा-पल-षट्कैः ।
गुग्गुलुना सदृशेन समेतैः क्षौद्र-युतैः सकलामय-नाशः ॥३९॥

२८.३९ मागधिकाग्नि-कलिङ्ग-विडङ्गैस् २८.३९ तुल्य-घृतैः स-वरा-पल-षट्कैः गुग्गुलु-पञ्च-पलं पलिकांशा मागधिका त्रि-फला च पृथक् स्यात् ।
त्वक्-त्रुटि-कर्ष-युतं मधु-लीढं कुष्ठ-भगन्दर-गुल्म-गति-घ्नम् ॥४०॥

शृङ्गवेर-रजो-युक्तं तएव च सु-भावितम् ।
क्वाथेन दश-मूलस्य विशेषावात-रोग-जित् ॥४१॥

उत्तमा-खदिर-सार-जं रजः शीलयन्न् असन-वारि-भावितम् ।
हन्ति तुल्य-महिषाक्ष-माक्षिकं कुष्ठ-मेह-पिटिका-भगन्दरान् ॥४२॥

२८.४२ शीलयेअनल-वारि-भावितम् २८.४२ शीलयेअसन-वारि-भावितम् २८.४२ हन्ति तुल्य-महिषाख्य-माक्षिकं भगन्दरेष्व् एष विशेष उक्तः शेषाणि तु व्यञ्जन-साधनानि ।
व्रणाधिकारात् परिशीलनाच सम्यग् विदित्वौपयिकं विदध्यात् ॥४३॥

२८.४३ सम्यग् विदित्वौषधिकं विदध्यात् अश्व-पृष्ठ-गमनं चल-रोधं मद्य-मैथुनम् अ-जीर्णम् अ-सात्म्यम् ।
साहसानि विविधानि च रूढे वत्सरं परिहरेअधिकं वा ॥४४॥

२८.४४ वत्सरं परिहरेअधिकं च

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:17.4530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

smoothing choke

  • मसृणी चोक 
RANDOM WORD

Did you know?

mahameruyantrachi shastrashudh mahiti sangavi. Gharat thevnyasathiche mahameruyantra pokal ki bhariv ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site