TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ३०

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३०
ग्रन्थिष्व् आमेषु कर्तव्या यथा-स्वं शोफ-वत् क्रिया ।
बृहती-चित्रक-व्याघ्री-कणा-सिद्धेन सर्पिषा ॥१॥

स्नेहयेछुद्धि-कामं च तीक्ष्णैः शुद्धस्य लेपनम् ।
संस्वेद्य बहु-शो ग्रन्थिं विमृद्नीयात् पुनः पुनः ॥२॥

एष वाते विशेषेण क्रमः पित्तास्र-जे पुनः ।
जलौकसो हिमं सर्वं कफ-जे वातिको विधिः ॥३॥

तथाप्य् अ-पक्वं छित्त्वैनं स्थिते रक्ते ऽग्निना दहेत् ।
साध्व् अ-शेषं स-शेषो हि पुनर् आप्यायते ध्रुवम् ॥४॥

३०.४ पुनर् आनह्यते द्रुतम् मांस-व्रणोद्भवौ ग्रन्थी यापयेएवम् एव च ।
कार्यं मेदो-भवे ऽप्य् एतत् तप्तैः फलादिभिश् च तम् ॥५॥

३०.५ पाटयेएवम् एव च प्रमृद्यात् तिल-दिग्धेन च्छन्नं द्वि-गुण-वाससा ।
शस्त्रेण पाटयित्वा वा दहेन् मेदसि सूद्धृते ॥६॥

३०.६ प्रमृज्यात् तिल-दिग्धेन ३०.६ दहेन् मेदसि तूद्धृते सिरा-ग्रन्थौ नवे पेयं तैलं साहचरं तथा ।
उपनाहो ऽनिल-हरैर् वस्ति-कर्म सिरा-व्यधः ॥७॥

अर्बुदे ग्रन्थि-वत् कुर्यात् यथा-स्वं सु-तरां हितम् ।
श्लीपदे ऽनिल-जे विध्येत् स्निग्ध-स्विन्नोपनाहिते ॥८॥

अजा-शकृच्-छिग्रु-मूल-लाक्षा-सुरस-काञ्जिकैः ॥८.१-१-अ॥
३०.८.१-१-ब्व् -लाक्षा-रस-स-काञ्जिकैः ३०.८.१-१-ब्व् -लवण-क्षार-काञ्जिकैः उपोदका-पत्त्र-पिण्ड्या छदैर् आच्छादितं घनम् ।
निवेश्य पट्टं बध्नीयाछाम्यत्य् एवं नवार्बुदम् ॥८.१-२-॥
३०.८.१-२-अव् उपोदकार्क-पिण्याक- ३०.८.१-२-ब्व् -च्छदैर् आच्छादितं घनम् जीर्णे चार्क-च्छद-सुधा-सामुद्र-गुड-काञ्जिकैः ।
प्रच्छाने पिण्डिका बद्धा ग्रन्थ्य्-अर्बुद-विलायनी ॥८.१-३-॥
३०.८.१-३-अव् जीर्णार्द्रार्क-च्छद-सुधा- ३०.८.१-३-ब्व् -सामुद्रं तुल्यकाम्बुभिः ३०.८.१-३-च्व् प्रच्छन्ने पिटिकां बद्ध्वा ३०.८.१-३-च्व् प्रच्छानैर् पिण्डिकां बद्ध्वा ३०.८.१-३-द्व् ग्रन्थ्य्-अर्बुद-विलायनम् सिराम् उपरि गुल्फस्य द्व्य्-अङ्गुले पाययेच तम् ।
मासम् एरण्ड-जं तैलं गो-मूत्रेण समन्वितम् ॥९॥

जीर्णे जीर्णान्नम् अश्नीयाछुण्ठी-शृत-पयो-ऽन्वितम् ।
त्रैवृतं वा पिबेएवम् अ-शान्ताव् अग्निना दहेत् ॥१०॥

गुल्फस्याधः सिरा-मोक्षः पैत्ते सर्वं च पित्त-जित् ।
सिराम् अङ्गुष्ठके विद्ध्वा कफ-जे शीलयेयवान् ॥११॥

स-क्षौद्राणि कषायाणि वर्धमानास् तथाभयाः ।
लिम्पेत् सर्षप-वार्ताकी-मूलाभ्यां धन्वयाथ-वा ॥१२॥

३०.१२ -मूलाभ्यां धान्ययाथ-वा ऊर्ध्वाधः-शोधनं पेयम् अपच्यां साधितं घृतम् ।
दन्ती-द्रवन्ती-त्रिवृता-जालिनी-देवदालिभिः ॥१३॥

शीलयेत् कफ-मेदो-घ्नं धूम-गण्डूष-नावनम् ।
सिरयापहरेरक्तं पिबेन् मूत्रेण तार्क्ष्य-जम् ॥१४॥

पलम् अर्ध-पलं वापि कर्षं वाप्य् उष्ण-वारिणा ।
काञ्चनार-त्वचं पीत्वा गण्ड-मालां व्यपोहति ॥१४-१-॥
३०.१४-१-ब्व् कर्षं वोष्णेन वारिणा ग्रन्थीन् अ-पक्वान् आलिम्पेन् नाकुली-पटु-नागरैः ।
स्विन्नान् लवण-पोटल्या कठिनान् अनु मर्दयेत् ॥१५॥

शमी-मूलक-शिग्रूणां बीजैः स-यव-सर्षपैः ।
लेपः पिष्टो ण्म्ल-तक्रेण ग्रन्थि-गण्ड-विलायनः ॥१६॥

३०.१६ शमी-मूलक-शिग्रूत्थ- ३०.१६ शमी-मूलक-शिग्रूमा- ३०.१६ -बीजः स-यव-सर्षपैः ३०.१६ -बीजैः स-यव-सर्षपैः क्षुण्णानि निम्ब-पत्त्राणि कॢप्तैर् भल्लातकैः सह ।
शराव-संपुटे दग्ध्वा सार्धं सिद्धार्थकैः समैः ॥१६-१-॥
३०.१६-१-अव् जीर्णानि निम्ब-पत्त्राणि ३०.१६-१-ब्व् क्लिन्नैर् भल्लातकैः सह ३०.१६-१-ब्व् क्षिप्रैर् भल्लातकैः सह एतछागाम्बुना पिष्टं गण्ड-माला-प्रलेपनम् ॥१६-२-अ॥
३०.१६-२-ब्व् गण्ड-माला-विलेपनम् पाकोन्-मुखान् स्रुतास्रस्य पित्त-श्लेष्म-हरैर् जयेत् ।
अ-पक्वान् एवो वोद्धृत्य क्षाराग्निभ्याम् उपाचरेत् ॥१७॥

काकादनी-लाङ्गलिका-नहिकोत्तुण्डिकी-फलैः ।
जीमूत-बीज-कर्कोटी-विशाला-कृतवेधनैः ॥१८॥

३०.१८ -नलिकोत्तुण्डिकी-फलैः ३०.१८ -नलिकोत्तुण्डकी-फलैः ३०.१८ -नहिकोत्तैण्डुकी-फलैः पाठान्वितैः पलार्धांशैर् विष-कर्ष-युतैः पचेत् ।
प्रस्थं करञ्ज-तैलस्य निर्गुण्डी-स्व-रसाढके ॥१९॥

३०.१९ पथ्यान्वितैः पलार्धांशैर् अनेन माला गण्डानां चिर-जा पूय-वाहिनी ।
सिध्यत्य् अ-साध्य-कल्पापि पानाभ्यञ्जन-नावनैः ॥२०॥

तैलं लाङ्गलिकी-कन्द-कल्क-पादं चतुर्-गुणे ।
निर्गुण्डी-स्व-रसे पक्वं नस्याद्यैर् अपची-प्रणुत् ॥२१॥

३०.२१ -कल्क-पादे चतुर्-गुणे भद्रश्री-दारु-मरिच-द्वि-हरिद्रा-त्रिवृद्-घनैः ।
मनःशिलाल-नलद-विशाला-करवीरकैः ॥२२॥

३०.२२अभद्र-श्रीदारु-मरिच- ३०.२२ मनःशिलाल-मदन- गो-मूत्र-पिष्टैः पलिकैर् विषस्यार्ध-पलेन च ।
ब्राह्मी-रसार्क-ज-क्षीर-गो-शकृद्-रस-संयुतम् ॥२३॥

प्रस्थं सर्षप-तैलस्य सिद्धम् आशु व्यपोहति ।
पानाद्यैः शीलितं कुष्ठ-दुष्ट-नाडी-व्रणापचीः ॥२४॥

३०.२४ पानाद्यैः शीलितं कुष्ठं ३०.२४ दुष्ट-नाडी-व्रणापचीः वचा-हरीतकी-लाक्षा-कटु-रोहिणि-चन्दनैः ।
तैलं प्रसाधितं पीतं स-मूलाम् अपचीं जयेत् ॥२५॥

शरपुङ्खोद्भवं मूलं पिष्टं तण्डुल-वारिणा ।
नस्याल् लेपाच दुष्टारुर्-अपची-विष-जन्तु-जित् ॥२६॥

मूलैर् उत्तमकारण्याः पीलुपर्ण्याः सहाचरात् ।
स-लोध्राभय-यष्ट्य्-आह्व-शताह्वा-द्वीपि-दारुभिः ॥२७॥

३०.२७ मूलैर् उत्तमवारुण्याः ३०.२७ मूलैर् उत्तरवारुण्याः ३०.२७ मूलैर् उत्तरवारिण्याः तैलं क्षीर-समं सिद्धं नस्ये ऽभ्यङ्गे च पूजितम् ।
गो-ऽव्य्-अजाश्व-खुरा दग्धाः कटु-तैलेन लेपनम् ॥२८॥

३०.२८ गो-गजाश्व-खुरा दग्धाः ऐङ्गुदेन तु कृष्णाहिर् वायसो वा स्वयं मृतः ।
इत्य् अ-शान्तौ गदस्यान्य-पार्श्व-जङ्घा-समाश्रितम् ॥२९॥

३०.२९ इत्य् अ-शान्तौ गदे चान्य- ३०.२९ -पार्श्वे जङ्घा-समाश्रितम् वस्तेर् ऊर्ध्वम् अधस्-तावा मेदो हृत्वाग्निना दहेत् ।
स्थितस्योर्ध्वं पदं मित्वा तन्-मानेन च पार्ष्णितः ॥३०॥

तत ऊर्ध्वं हरेग्रन्थीन् इत्य् आह भग-वान् निमिः ॥३१अ॥
पार्ष्णिं प्रति द्वा-दश चाङ्गुलानि मुक्त्वेन्द्र-वस्तिं च गदान्य-पार्श्वे ॥३१च्॥
विदार्य मत्स्याण्ड-निभानि मध्याज् जालानि कर्षेइति सुश्रुतोक्तिः ॥३१एf ॥
आ-गुल्फ-कर्णात् सु-मितस्य जन्तोस् तस्याष्ट-भागं खुडकाविभज्य ।
घ्राणार्जवे ऽधः सुर-राज-वस्तेर् भित्त्वाक्ष-मात्रं त्व् अपरे वदन्ति ॥३२॥

३०.३२ घोणार्जवे ऽधः सुर-राज-वस्तेर् ३०.३२ भित्त्वाक्ष-मात्राम् अपरे वदन्ति उपनाह्यानिलान् नाडीं पाटितां साधु लेपयेत् ।
प्रत्यक्पुष्पी-फल-युतैस् तैलैः पिष्टैः स-सैन्धवैः ॥३३॥

पैत्तीं तु तिल-मञ्जिष्ठा-नागदन्ती-निशा-द्वयैः ।
श्लैष्मिकीं तिल-सौराष्ट्री-निकुम्भारिष्ट-सैन्धवैः ॥३४॥

शल्य-जां तिल-मध्व्-आज्यैर् लेपयेछिन्न-शोधिताम् ।
अ-शस्त्र-कृत्याम् एषिण्या भित्त्वान्ते सम्यग्-एषिताम् ॥३५॥

क्षार-पीतेन सूत्रेण बहु-शो दारयेगतिम् ।
व्रणेषु दुष्ट-सूक्ष्मास्य-गम्भीरादिषु साधनम् ॥३६॥

३०.३६ बहु-शो पूरयेगतिम् या वर्त्यो यानि तैलानि तन् नाडीष्व् अपि शस्यते ।
पिष्टं चञ्चु-फलं लेपान् नाडी-व्रण-हरं परम् ॥३७॥

घोण्टा-फल-त्वक् लवणं स-लाक्षं बूकस्य पत्त्रं वनिता-पयश् च ।
स्नुग्-अर्क-दुग्धान्वित एष कल्को वर्ती-कृतो हन्त्य् अ-चिरेण नाडीम् ॥३८॥

३०.३८ चुक्रस्य पत्त्रं वनिता-पयश् च ३०.३८ वृषस्य पत्त्रं वनिता-पयश् च सामुद्र-सौवर्चल-सिन्धु-जन्म-सु-पक्व-घोण्टा-फल-वेश्म-धूमाः ।
आम्रात-गायत्रि-ज-पल्लवाश् च कटङ्कटेर्याव् अथ चेतकी च ॥३९॥

३०.३९ कटङ्कटेर्याव् अथ केतकी च ३०.३९ कटङ्कटेर्याव् अथ दीनिका च कल्के ऽभ्यङ्गे चूर्णे वर्त्यां चैतेषु शील्यमानेषु ।
अ-गतिर् इव नश्यति गतिश् चपला चपलेषु भूतिर् इव ॥४०॥

३०.४० वर्त्यां चैतेषु सेव्यमानेषु

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:17.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

धोडकारा

  • पु. ( गो . ) एक लहान जातीचा मासा . याच्या मस्तकात तीन दगड असतात अशी समजूत आहे . म्ह ० धोडकाराच्या कपाळांत तीन गुंडे ( दगड )=( कों . ) पळसाला पाने तीन या अर्थाने . 
RANDOM WORD

Did you know?

mahameruyantrachi shastrashudh mahiti sangavi. Gharat thevnyasathiche mahameruyantra pokal ki bhariv ?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.