TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय ३९

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३९
दीर्घम् आयुः स्मृतिं मेधाम् आरोग्यं तरुणं वयः ।
प्रभा-वर्ण-स्वरौदार्यं देहेन्द्रिय-बलोदयम् ॥१॥

वाक्-सिद्धिं वृष-तां कान्तिम् अवाप्नोति रसायनात् ।
लाभोपायो हि शस्तानां रसादीनां रसायनम् ॥२॥

३९.२ लाभोपायो हि सप्तानां पूर्वे वयसि मध्ये वा तत् प्रयोज्यं जितात्मनः ।
स्निग्धस्य स्रुत-रक्तस्य विशुद्धस्य च सर्व-था ॥३॥

अ-विशुद्धे शरीरे हि युक्तो रासायनो विधिः ।
वाजी-करो वा मलिने वस्त्रे रङ्ग इवा-फलः ॥४॥

३९.४ वस्त्रे राग इवा-फलः रसायनानां द्वि-विधं प्रयोगम् ऋषयो विदुः ।
कुटी-प्रावेशिकं मुख्यं वातातपिकम् अन्य-था ॥५॥

पुरे प्राप्योपकरणे हर्म्य-निर्-वात-निर्-भये ।
दिश्य् उदीच्यां शुभे देशे त्रि-गर्भां सूक्ष्म-लोचनाम् ॥६॥

३९.६ निर्-वाते निर्-भये धर्म्ये ३९.६ निर्-वाते निर्-भये हर्म्ये ३९.६ प्राप्योपकरणे पुरे ३९.६ दिश्य् ऐशान्यां शुभे देशे धूमातप-रजो-व्याल-स्त्री-मूर्खाद्य-विलङ्घिताम् ।
सज्ज-वैद्योपकरणां सु-मृष्टां कारयेत् कुटीम् ॥७॥

अथ पुण्ये ऽह्नि संपूज्य पूज्यांस् तां प्रविशेछुचिः ।
तत्र संशोधनैः शुद्धः सुखी जात-बलः पुनः ॥८॥

ब्रह्म-चारी धृति-युतः श्रद्-दधानो जितेन्द्रियः ।
दान-शील-दया-सत्य-व्रत-धर्म-परायणः ॥९॥

देवतानुस्मृतौ युक्तो युक्त-स्वप्न-प्रजागरः ।
प्रियौषधः पेशल-वाग् आरभेत रसायनम् ॥१०॥

३९.१० प्रियौषधः पेशल-वाक् ३९.१० प्रारभेत रसायनम् हरीतकीम् आमलकं सैन्धवं नागरं वचाम् ।
हरिद्रां पिप्पलीं वेल्लं गुडं चोष्णाम्बुना पिबेत् ॥११॥

स्निग्ध-स्विन्नो नरः पूर्वं तेन साधु विरिच्यते ।
ततः शुद्ध-शरीराय कृत-संसर्जनाय च ॥१२॥

३९.१२ स्निग्धः स्विन्नो नरः पूर्वं ३९.१२ तेन साधु विशुध्यति त्रि-रात्रं पञ्च-रात्रं वा सप्ताहं वा घृतान्वितम् ।
दद्यायावकम् आ-शुद्धेः पुराण-शकृतो ऽथ-वा ॥१३॥

इत्थं संस्कृत-कोष्ठस्य रसायनम् उपाहरेत् ।
यस्य ययौगिकं पश्येत् सर्वम् आलोच्य सात्म्य-वित् ॥१४॥

पथ्या-सहस्रं त्रि-गुण-धात्री-फल-समन्वितम् ।
पञ्चानां पञ्च-मूलानां सार्धं पल-शत-द्वयम् ॥१५॥

जले दश-गुणे पक्त्वा दश-भाग-स्थिते रसे ।
आपोथ्य कृत्वा व्य्-अस्थीनि विजयामलकान्य् अथ ॥१६॥

विनीय तस्मिन् निर्यूहे योजयेत् कुडवांशकम् ।
त्वग्-एला-मुस्त-रजनी-पिप्पल्य्-अगुरु-चन्दनम् ॥१७॥

मण्डूकपर्णी-कनक-शङ्खपुष्पी-वचा-प्लवम् ।
यष्ट्य्-आह्वयं विडङ्गं च चूर्णितं तुलयाधिकम् ॥१८॥

सितोपलार्ध-भारं च पात्राणि त्रीणि सर्पिषः ।
द्वे च तैलात् पचेत् सर्वं तअग्नौ लेह-तां गतम् ॥१९॥

अवतीर्णं हिमं युञ्ज्याविंशैः क्षौद्र-शतैस् त्रिभिः ।
ततः खजेन मथितं निदध्याघृत-भाजने ॥२०॥

या नोपरुन्ध्याआहारम् एकं मात्रास्य सा स्मृता ।
षष्टिकः पयसा चात्र जीर्णे भोजनम् इष्यते ॥२१॥

३९.२१ एका मात्रास्य सा स्मृता वैखानसा बालखिल्यास् तथा चान्ये तपो-धनाः ।
ब्रह्मणा विहितं धन्यम् इदं प्राश्य रसायनम् ॥२२॥

३९.२२ वैखानसा बालिखिल्यास् तन्द्रा-श्रम-क्लम-वली-पलितामय-वर्जिताः ।
मेधा-स्मृति-बलोपेता बभूवुर् अ-मितायुषः ॥२३॥

अभयामलक-सहस्रं निर्-आमयं पिप्पली-सहस्र-युतम् ।
तरुण-पलाश-क्षार-द्रवी-कृतं स्थापयेभाण्डे ॥२४॥

उपयुक्ते च क्षारे छाया-संशुष्क-चूर्णितं योज्यम् ।
पादांशेन सितायाश् चतुर्-गुणाभ्यां मधु-घृताभ्याम् ॥२५॥

३९.२५ उपयुक्ते च क्वाथे तघृत-कुम्भे भूमौ निधाय षण्-मास-संस्थम् उद्धृत्य ।
प्राह्णे प्राश्य यथानलम् उचिताहारो भवेत् सततम् ॥२६॥

३९.२६ निखाय षण्-मास-संस्थम् उद्धृत्य ३९.२६ प्राह्णे प्राश्य यथा-बलम् इत्य् उपयुञ्ज्या-शेषं वर्ष-शतम् अन्-आमयो जरा-रहितः ।
जीवति बल-पुष्टि-वपुः-स्मृति-मेधाद्य्-अन्वितो विशेषेण ॥२७॥

३९.२७ इत्य् उपयोज्या-शेषं नी-रुजार्द्र-पलाशस्य च्छिन्ने शिरसि तत् क्षतम् ।
अन्तर् द्वि-हस्तं गम्भीरं पूर्यम् आमलकैर् नवैः ॥२८॥

३९.२८ च्छिन्ने शिरसि तक्षितम् आ-मूलं वेष्टितं दर्भैः पद्मिनी-पङ्क-लेपितम् ।
आदीप्य गो-मयैर् वन्यैर् निर्-वाते स्वेदयेत् ततः ॥२९॥

स्विन्नानि तान्य् आमलकानि तृप्त्या खादेन् नरः क्षौद्र-घृतान्वितानि ।
क्षीरं शृतं चानु पिबेत् प्र-कामं तेनैव वर्तेत च मासम् एकम् ॥३०॥

वर्ज्यानि वर्ज्यानि च तत्र यत्नात् स्पृश्यं च शीताम्बु न पाणिनापि ।
एका-दशाहे ऽस्य ततो व्यतीते पतन्ति केशा दशना नखाश् च ॥३१॥

३९.३१ स्पृशेन् न शीताम्बु च पाणिनापि अथाल्पकैर् एव दिनैः सु-रूपः स्त्रीष्व् अ-क्षयः कुञ्जर-तुल्य-वीर्यः ।
विशिष्ट-मेधा-बल-बुद्धि-सत्-त्वो भवत्य् असौ वर्ष-सहस्र-जीवी ॥३२॥

दश-मूल-बला-मुस्त-जीवकर्षभकोत्पलम् ।
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटी ॥३३॥

जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी ।
पुनर्नवर्द्धि-काकोली-काकनासामृता-द्वयम् ॥३४॥

३९.३४ पुनर्नवा-द्वि-काकोली- ३९.३४ -काकनासामृताह्वयाः विदारी वृष-मूलं च तऐकध्यं पलोन्मितम् ।
जल-द्रोणे पचेत् पञ्च धात्री-फल-शतानि च ॥३५॥

पाद-शेषं रसं तस्माव्य्-अस्थीन्य् आमलकानि च ।
गृहीत्वा भर्जयेत् तैल-घृताद्वा-दशभिः पलैः ॥३६॥

३९.३६ पाद-शेषे रसे तस्मिन् मत्स्यण्डिका-तुलार्धेन युक्तं तल् लेह-वत् पचेत् ।
स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश् चतुः-पलम् ॥३७॥

३९.३७ स्नेहार्धं मधुनः शीते पिप्पल्या द्वि-पलं दद्याचतुर्-जातं कणार्धितम् ।
अतो ऽवलेहयेन् मात्रां कुटी-स्थः पथ्य-भोजनः ॥३८॥

३९.३८ चतुर्-जातं कणार्धिकम् ३९.३८ चतुर्-जातं कणार्धकम् ३९.३८ कुटी-स्थं पथ्य-भोजिनम् इत्य् एष च्यवन-प्राशो यं प्राश्य च्यवनो मुनिः ।
जरा-जर्जरितो ऽप्य् आसीन् नारी-नयन-नन्दनः ॥३९॥

कासं श्वासं ज्वरं शोषं हृद्-रोगं वात-शोणितम् ।
मूत्र-शुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति ॥४०॥

बाल-वृद्ध-क्षत-क्षीण-कृशानाम् अङ्ग-वर्धनः ॥४१अ॥
मेधां स्मृतिं कान्तिम् अन्-आमय-त्वम् आयुः-प्रकर्षं पवनानुलोम्यम् ॥४१च्॥
स्त्रीषु प्रहर्षं बलम् इन्द्रियाणाम् अग्नेश् च कुर्याविधिनोपयुक्तः ॥४१एf ॥
मधुकेन तवक्षीर्या पिप्पल्या सिन्धु-जन्मना ।
पृथग् लोहैः सुवर्णेन वचया मधु-सर्पिषा ॥४२॥

सितया वा समा युक्ता समायुक्ता रसायनम् ।
त्रि-फला सर्व-रोग-घ्नी मेधायुः-स्मृति-बुद्धि-दा ॥४३॥

३९.४३ सितयाथ समायुक्ता ३९.४३ रौप्य-युक्ता रसायनी मण्डूकपर्ण्याः स्व-रसं यथाग्नि क्षीरेण यष्टीमधुकस्य चूर्णम् ।
रसं गुडूच्यास् सह-मूल-पुष्प्याः कल्कं प्रयुञ्जीत च शङ्खपुष्प्याः ॥४४॥

आयुः-प्रदान्य् आमय-नाशनानि बलाग्नि-वर्ण-स्वर-वर्धनानि ।
मेध्यानि चैतानि रसायनानि मेध्या विशेषेण तु शङ्खपुष्पी ॥४५॥

३९.४५ मेध्या विशेषेण च शङ्खपुष्पी नलदं कटु-रोहिणी पयस्या मधुकं चन्दन-शारिवोग्रगन्धाः ।
त्रि-फला कटुक-त्रयं हरिद्रे स-पटोलं लवणं च तैः सु-पिष्टैः ॥४६॥

त्रि-गुणेन रसेन शङ्खपुष्प्याः स-पयस्कं घृत-नल्वणं विपक्वम् ।
उपयुज्य भवेज् जडो ऽपि वाङ्मी श्रुत-धारी प्रतिभान-वान् अ-रोगः ॥४७॥

३९.४७ श्रुति-धारी प्रतिभान-वान् अ-रोगः ३९.४७ श्रुति-धारी प्रतिभान-वान् अ-रोगी पेष्यैर् मृणाल-बिस-केसर-पत्त्र-बीजैः सिद्धं स-हेम-शकलं पयसा च सर्पिः ।
पञ्चारविन्दम् इति तत् प्रथितं पृथिव्यां प्रभ्रष्ट-पौरुष-बल-प्रतिभैर् निषेव्यम् ॥
४८॥

३९.४८ पञ्चारविन्दम् इति सर्पिर् उदार-वीर्यं यन् नाल-कन्द-दल-केसर-वविपक्वं नीलोत्पलस्य तअपि प्रथितं द्वितीयम् ।
सर्पिश् चतुष्-कुवलयं स-हिरण्य-पत्त्रं मेध्यं गवाम् अपि भवेत् किम् उ मानुषाणाम् ॥४९॥

ब्राह्मी-वचा-सैन्धव-शङ्खपुष्पी-मत्स्याक्षक-ब्रह्मसुवर्चलैन्द्र्यः ।
वैदेहिका च त्रि-यवाः पृथक् स्युर् यवौ सुवर्णस्य तिलो विषस्य ॥५०॥

सर्पिषश् च पलम् एकत एतयोजयेत् परिणते च घृताढ्यम् ।
भोजनं स-मधु वत्सरम् एवं शीलयन्न् अधिक-धी-स्मृति-मेधः ॥५१॥

३९.५१ शीलयन्न् अधिक-धी-स्मृति-वेषः अतिक्रान्त-जरा-व्याधि-तन्द्रालस्य-श्रम-क्लमः ।
जीवत्य् अब्द-शतं पूर्णं श्री-तेजः-कान्ति-दीप्ति-मान् ॥५२॥

३९.५२ श्री-तेजः-कान्ति-मूर्ति-मान् विशेषतः कुष्ठ-किलास-गुल्म-विष-ज्वरोन्माद-गरोदराणि ।
अथर्व-मन्त्रादि-कृताश् च कृत्याः शाम्यन्त्य् अनेनाति-बलाश् च वाताः ॥५३॥

शरन्-मुखे नागबलां पुष्य-योगे समुद्धरेत् ।
अक्ष-मात्रं ततो मूलाचूर्णितात् पयसा पिबेत् ॥५४॥

३९.५४ अक्ष-मात्रं ततो मूलं ३९.५४ चूर्णितं पयसा पिबेत् लिह्यान् मधु-घृताभ्यां वा क्षीर-वृत्तिर् अन्-अन्न-भुक् ।
एवं वर्ष-प्रयोगेन जीवेवर्ष-शतं बली ॥५५॥

फलोन्-मुखो गोक्षुरकः स-मूलश् छाया-विशुष्कः सु-विचूर्णिताङ्गः ।
सु-भावितः स्वेन रसेन तस्मान् मात्रां परां प्रासृतिकीं पिबेयः ॥५६॥

३९.५६ मात्रां परं प्रासृतिकीं पिबेयः क्षीरेण तेनैव च शालिम् अश्नन् जीर्णे भवेत् स द्वि-तुलोपयोगात् ।
शक्तः सु-रूपः सु-भगः शतायुः कामी ककुद्-मान् इव गो-कुल-स्थः ॥५७॥

वाराही-कन्दम् आर्द्रार्द्रं क्षीरेण क्षीर-पः पिबेत् ।
मासं निर्-अन्नो मासं च क्षीरान्नादो जरां जयेत् ॥५८॥

तत्-कन्द-श्लक्ष्ण-चूर्णं वा स्व-रसेन सु-भावितम् ।
घृत-क्षौद्र-प्लुतं लिह्यात् तत्-पक्वं वा घृतं पिबेत् ॥५९॥

३९.५९ घृत-क्षौद्र-युतं लिह्यात् तद्-वविदार्य्-अतिबला-बला-मधुक-वायसीः ।
श्रेयसी-श्रेयसी-युक्ता-पथ्या-धात्री-स्थिरामृताः ॥६०॥

३९.६० जीवन्ती-श्रेयसी-युक्ता- मण्डूकी-शङ्खकुसुमा-वाजिगन्धा-शतावरीः ।
उपयुञ्जीत मेधा-धी-वयः-स्थैर्य-बल-प्रदाः ॥६१॥

३९.६१ उपयुञ्जीत धी-मेधा- ३९.६१ उपयुञ्जीत मेधावी ३९.६१ वयः-स्थैर्य-बल-प्रदाः यथा-स्वं चित्रकः पुष्पैर् ज्ञेयः पीत-सितासितैः ।
यथोत्तरं स गुण-वान् विधिना च रसायनम् ॥६२॥

छाया-शुष्कं ततो मूलं मासं चूर्णी-कृतं लिहन् ।
सर्पिषा मधु-सर्पिर्भ्यां पिबन् वा पयसा यतिः ॥६३॥

अम्भसा वा हितान्नाशी शतं जीवति नी-रुजः ।
मेधावी बल-वान् कान्तो वपुष्-मान् दीप्त-पावकः ॥६४॥

तैलेन लीढो मासेन वातान् हन्ति सु-दुस्-तरान् ।
मूत्रेण श्वित्र-कुष्ठानि पीतस् तक्रेण पायु-जान् ॥६५॥

३९.६५ वातान् हन्ति सु-दारुणान् भल्लातकानि पुष्टानि धान्य-राशौ निधापयेत् ।
ग्रीष्मे संगृह्य हेमन्ते स्वादु-स्निग्ध-हिमैर् वपुः ॥६६॥

३९.६६ स्वादु-स्निग्ध-हिमैः पुनः संस्कृत्य तान्य् अष्ट-गुणे सलिले ऽष्टौ विपाचयेत् ।
अष्टांश-शिष्टं तत्-क्वाथं स-क्षीरं शीतलं पिबेत् ॥६७॥

३९.६७ अष्टांश-शिष्टं तं क्वाथं वर्धयेत् प्रत्य्-अहं चानु तत्रैकैकम् अरुष्करम् ।
सप्त-रात्र-त्रयं यावत् त्रीणि त्रीणि ततः परम् ॥६८॥

आ-चत्वारिंशतस् तानि ह्रासयेवृद्धि-वत् ततः ।
सहस्रम् उपयुञ्जीत सप्ताहैर् इति सप्तभिः ॥६९॥

३९.६९ सप्ताहैर् अपि सप्तभिः यन्त्रितात्मा घृत-क्षीर-शालि-षष्टिक-भोजनः ।
तद्-वत् त्रि-गुणितं कालं प्रयोगान्ते ऽपि चाचरेत् ॥७०॥

३९.७० प्रयोगान्ते ऽप्य् उपाचरेत् आशिषो लभते ऽ-पूर्वा वह्नेर् दीप्तिं विशेषतः ।
प्रमेह-कृमि-कुष्ठार्शो-मेदो-दोष-विवर्जितः ॥७१॥

३९.७१ आशिषो लभते पूर्वा पिष्ट-स्वेदनम् अ-रुजैः पूर्णं भल्लातकैर् विजर्जरितैः ।
भूमि-निखाते कुम्भे प्रतिष्ठितं कृष्ण-मृल्-लिप्तम् ॥७२॥

३९.७२ पूर्णं भल्लातकैः सु-जर्जरितैः परिवारितं समन्तात् पचेत् ततो गो-मयाग्निना मृदुना ।
तत्-स्व-रसो यश् च्यवते गृह्णीयात् तं दिने ऽन्यस्मिन् ॥७३॥

३९.७३ पचेत् तगो-मयाग्निना मृदुना अमुम् उपयुज्य स्व-रसं मध्व्-अष्टम-भागिकं द्वि-गुण-सर्पिः ।
पूर्व-विधि-यन्त्रितात्मा प्राप्नोति गुणान् स तान् एव ॥७४॥

३९.७४ अमुम् उपयुञ्ज्यात् स्व-रसं पुष्टानि पाकेन परिच्युतानि भल्लातकान्य् आढक-संमितानि ।
घृष्ट्वेष्टिका-चूर्ण-कणैर् जलेन प्रक्षाल्य संशोष्य च मारुतेन ॥७५॥

जर्जराणि विपचेज् जल-कुम्भे पाद-शेष-घृत-गालित-शीतम् ।
तद्-रसं पुनर् अपि श्रपयेत क्षीर-कुम्भ-सहितं चरण-स्थे ॥७६॥

३९.७६ पाद-शेष-घृत-गालित-शेषम् ३९.७६ पाद-शेष-घृत-गालित-शीते ३९.७६ पाद-शेषम् अवतारित-शीतम् ३९.७६ तं रसं पुनर् अपि श्रपयेत ३९.७६ क्षीर-कुम्भ-सहितं चरण-स्थम् सर्पिः पक्वं तत्र तुल्य-प्रमाणं युञ्ज्यात् स्वेच्छं शर्करया रजोभिः ।
एकी-भूतं तत् खज-क्षोभणेन स्थाप्यं धान्ये सप्त-रात्रं सु-गुप्तम् ॥७७॥

३९.७७ सर्पिः पक्वं तेन तुल्य-प्रमाणं ३९.७७ युञ्ज्यात् प्रस्थं शर्करया रजोभिः ३९.७७ युञ्ज्यात् स्वच्छं शर्करया रजोभिः ३९.७७ एकी-भूतं तं खज-क्षोभणेन तम् अमृत-रस-पाकं यः प्रगे प्राशम् अश्नन्न् अनुपिबति यथेष्टं वारि दुग्धं रसं वा ।
स्मृति-मति-बल-मेधा-सत्-त्व-सारैर् उपेतः कनक-निचय-गौरः सो ऽश्नुते दीर्घम् आयुः ॥७८॥

द्रोणे ऽम्भसो व्रणकृतां त्रि-शताविपक्वात् क्वाथाढके पल-समैस् तिल-तैल-पात्रम् ।
तिक्ता-विषा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः सिद्धं परं निखिल-कुष्ठ-निबर्हणाय ॥
७९॥

३९.७९ द्रोणे ऽम्भसो व्रणकृतां त्रि-शतानि पक्त्वा ३९.७९ तिक्ता-निशा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः ३९.७९ तिक्ता-निशा-द्वय-वरा-गिरिजन्म-तार्क्ष्यैः ३९.७९ तिक्ता-विषा-द्वय-वचा-गिरिजन्म-तार्क्ष्यैः ३९.७९ तिक्ता-विषा-द्वय-वरा-गिरिजात-तार्क्ष्यैः सहामलक-शुक्तिभिर् दधि-सरेण तैलेन वा ॥८०॥
गुडेन पयसा घृतेन यव-सक्तुभिर् वा सह ॥८०॥
तिलेन सह माक्षिकेण पललेन सूपेन वा ॥८०॥
वपुष्-करम् अरुष्करं परम-मेध्यम् आयुष्-करम् ॥८०॥
भल्लातकानि तीक्ष्णानि पाकीन्य् अग्नि-समानि च ।
भवन्त्य् अमृत-कल्पानि प्रयुक्तानि यथा-विधि ॥८१॥

३९.८१ कल्पितानि यथा-विधि कफ-जो न स रोगो ऽस्ति न विबन्धो ऽस्ति कश्-च-न ।
यं न भल्लातकं हन्याछीघ्रम् अग्नि-बल-प्रदम् ॥८२॥

३९.८२ छीघ्रं वह्नि-बल-प्रदम् वातातप-विधाने ऽपि विशेषेण विवर्जयेत् ।
कुलत्थ-दधि-शुक्तानि तैलाभ्यङ्गाग्नि-सेवनम् ॥८३॥

वृक्षास् तुबरका नाम पश्चिमार्णव-तीर-जाः ।
वीची-तरङ्ग-विक्षोभ-मारुतोद्धूत-पल्लवाः ॥८४॥

तेभ्यः फलान्य् आददीत सु-पक्वान्य् अम्बु-दागमे ।
मज्ज्ञः फलेभ्यश् चादाय शोषयित्वावचूर्ण्य च ॥८५॥

३९.८५ मज्जां फलेभ्यश् चादाय ३९.८५ मज्जाः फलेभ्यश् चादाय ३९.८५ शोषयित्वा विचूर्ण्य च तिल-वत् पीडयेद्रोण्यां क्वाथयेवा कुसुम्भ-वत् ।
तत्-तैलं संभृतं भूयः पचेआ-सलिल-क्षयात् ॥८६॥

३९.८६ तत्-तैलं स-घृतं भूयः ३९.८६ तत्-तैलं संसृतं भूयः ३९.८६ तत्-तैलं संहृतं भूयः अवतार्य करीषे च पक्ष-मात्रं निधापयेत् ।
स्निग्ध-स्विन्नो हृत-मलः पक्षाउद्धृत्य तत् ततः ॥८७॥

३९.८७ पक्षाउद्धृत्य यत्न-वान् चतुर्थ-भक्तान्तरितः प्रातः पाणि-तलं पिबेत् ।
मन्त्रेणानेन पूतस्य तैलस्य दिवसे शुभे ॥८८॥

मज्ज-सार महा-वीर्य सर्वान् धातून् विशोधय ।
शङ्ख-चक्र-गदा-पाणिस् त्वाम् आज्ञापयते ऽ-च्युतः ॥८९॥

३९.८९ मज्जा-सार महा-वीर्य ३९.८९ त्वाम् आज्ञापयते ऽ-च्युत तेनास्योर्ध्वम् अधस्-ताच दोषा यान्त्य् अ-सकृत् ततः ।
सायम् अ-स्नेह-लवणां यवागूं शीतलां पिबेत् ॥९०॥

३९.९० दोषा यान्त्य् अ-सकृत्-सकृत् पञ्चाहानि पिबेत् तैलम् इत्थं वर्ज्यान् विवर्जयन् ।
पक्षं मुद्ग-रसान्नाशी सर्व-कुष्ठैर् विमुच्यते ॥९१॥

३९.९१ इत्थं वर्ज्यानि वर्जयेत् तएव खदिर-क्वाथे त्रि-गुणे साधु साधितम् ।
निहितं पूर्व-वत् पक्षं पिबेन् मासं सु-यन्त्रितः ॥९२॥

तेनाभ्यक्त-शरीरश् च कुर्वन्न् आहारम् ईरितम् ।
अनेनाशु प्रयोगेण साधयेत् कुष्ठिनं नरम् ॥९३॥

भिन्न-स्वरं रक्त-नेत्रं शीर्णाङ्गं कृमि-भक्षितम् ॥९३.१-१-अ॥
३९.९३.१-१-अव् भग्न-स्वरं रक्त-नेत्रं ३९.९३.१-१-ब्व् शीर्णाङ्गं कृमिभिश् चितम् सर्पिर्-मधु-युतं पीतं तएव खदिराविना ।
पक्षं मांस-रसाहारं करोति द्वि-शतायुषम् ॥९४॥

३९.९४ पक्व-मांस-रसाहारं ३९.९४ पक्वं मांस-रसाहारं तएव नस्ये पञ्चाशदिवसान् उपयोजितम् ।
वपुष्-मतं श्रुत-धरं करोति त्रि-शतायुषम् ॥९५॥

३९.९५ वपुष्-मतं श्रुति-धरं वली-पलित-निर्मुक्तं स्थिर-स्मृति-कच-द्वि-जम् ॥९५.१-१-अ॥
पञ्चाष्टौ सप्त दश वा पिप्पलीर् मधु-सर्पिषा ।
रसायन-गुणान्वेषी समाम् एकां प्रयोजयेत् ॥९६॥

३९.९६ मासम् एकं प्रयोजयेत् तिस्रस् तिस्रस् तु पूर्वाह्णे भुक्त्वाग्रे भोजनस्य च ।
पिप्पल्यः किंशुक-क्षार-भाविता घृत-भर्जिताः ॥९७॥

३९.९७ भुक्त्वाग्रे भोजनस्य तु प्रयोज्या मधु-संमिश्रा रसायन-गुणैषिणा ।
क्रम-वृद्ध्या दशाहानि दश-पैप्पलिकं दिनम् ॥९८॥

३९.९८ दश-वृद्ध्या दशाहानि ३९.९८ दश-पिप्पलिकं दिनम् वर्धयेत् पयसा सार्धं तथैवापनयेत् पुनः ।
जीर्णौषधश् च भुञ्जीत षष्टिकं क्षीर-सर्पिषा ॥९९॥

पिप्पलीनां सहस्रस्य प्रयोगो ऽयं रसायनम् ।
पिष्टास् ता बलिभिः पेयाः शृता मध्य-बलैर् नरैः ॥१००॥

शीती-कृता हीन-बलैर् वीक्ष्य दोषामयान् प्रति ॥१००-१-अ॥
३९.१००-१-अव् शीती-कृता क्षीण-बलैर् ३९.१००-१-ब्व् वीक्ष्य दोषान् प्रयोजयेत् तद्-वच च्छाग-दुग्धेन द्वे सहस्रे प्रयोजयेत् ।
एभिः प्रयोगैः पिप्पल्यः कास-श्वास-गल-ग्रहान् ॥१०१॥

यक्ष्म-मेह-ग्रहण्य्-अर्शः-पाण्डु-त्व-विषम-ज्वरान् ।
घ्नन्ति शोफं वमिं हिध्मां प्लीहानं वात-शोणितम् ॥१०२॥

बिल्वार्ध-मात्रेण च पिप्पलीनां पात्रं प्रलिम्पेअयसो निशायाम् ।
प्रातः पिबेत् तत् सलिलाञ्जलिभ्यां वर्षं यथेष्टाशन-पान-चेष्टः ॥१०३॥

शुण्ठी-विडङ्ग-त्रि-फला-गुडूची- यष्टी-हरिद्रातिबला-बलाश् च ।
मुस्ता-सुराह्वागुरु-चित्रकाश् च सौगन्धिकं पङ्क-जम् उत्पलानि ॥१०४॥

३९.१०४ मुस्ता-शताह्वागुरु-चित्रकाश् च धवाश्वकर्णासन-बालपत्त्र-सारास् तथा पिप्पलि-वत् प्रयोज्याः ।
लोहोपलिप्ताः पृथग् एव जीवेत् समाः शतं व्याधि-जरा-विमुक्तः ॥१०५॥

३९.१०५ -सारास् तथा पिप्पलि-वत् प्रयुञ्ज्याः ३९.१०५ लोह-प्रलेपात् पृथग् एव जीवेत् ३९.१०५ लोहोपलेपात् पृथग् एव जीवेत् क्षीराञ्जलिभ्यां च रसायनानि युक्तान्य् अमून्य् आयस-लेपनानि ।
कुर्वन्ति पूर्वोक्त-गुण-प्रकर्षम् आयुः-प्रकर्षं द्वि-गुणं ततश् च ॥१०६॥

असन-खदिर-यूषैर् भावितां सोमराजीं मधु-घृत-शिखि-पथ्या-लोह-चूर्णैर् उपेताम् ।
शरदम् अवलिहानः पारिणामान् विकारांस् त्यजति मित-हिताशी तद्-वआहार-जातान् ॥१०७॥

३९.१०७ मधु-घृत-गद-पथ्या-लोह-चूर्णैर् उपेताम् तीव्रेण कुष्ठेन परीत-मूर्तिर् यः सोमराजीं नियमेन खादेत् ।
संवत्सरं कृष्ण-तिल-द्वितीयां स सोमराजीं वपुषातिशेते ॥१०८॥

ये सोमराज्या वि-तुषी-कृतायाश् चूर्णैर् उपेतात् पयसः सु-जातात् ।
उद्धृत्य सारं मधुना लिहन्ति तक्रं तएवानुपिबन्ति चान्ते ॥१०९॥

कुष्ठिनः शीर्यमाणाङ्गास् ते जाताङ्गुलि-नासिकाः ।
भान्ति वृक्षा इव पुनः प्ररूढ-नव-पल्लवाः ॥११०॥

३९.११० कुष्ठिनः कुथ्यमानाङ्गास् शीत-वात-हिम-दग्ध-तनूनां स्तब्ध-भग्न-कुटिल-व्यथितास्थ्नाम् ।
भेषजस्य पवनोपहतानां वक्ष्यते विधिर् अतो लशुनस्य ॥११०-१-॥
३९.११०-१-अव् शीत-वात-परिदग्ध-तनूनां ३९.११०-१-ब्व् स्तब्ध-भुग्न-कुटिल-व्यथितास्थ्नाम् ३९.११०-१-च्व् भेषजं च पवनोपहतानां राहोर् अमृत-चौर्येण लूनाये पतिता गलात् ।
अमृतस्य कणा भूमौ ते लशुन-त्वम् आगताः ॥१११॥

३९.१११ राहोर् अच्युत-चक्रेण द्वि-जा नाश्नन्ति तम् अतो दैत्य-देह-समुद्भवम् ।
साक्षाअमृत-संभूतेर् ग्रामणीः स रसायनम् ॥११२॥

शीलयेल् लशुनं शीते वसन्ते ऽपि कफोल्बणः ।
घनोदये ऽपि वातार्तः सदा वा ग्रीष्म-लीलया ॥११३॥

३९.११३ वसन्ते च कफोल्बणः स्निग्ध-शुद्ध-तनुः शीत-मधुरोपस्कृताशयः ।
तद्-उत्तंसावतंसाभ्यां चर्चितानुचराजिरः ॥११४॥

तस्य कन्दान् वसन्तान्ते हिमवच्-छक-देश-जान् ।
अपनीत-त्वचो रात्रौ तिमयेन् मदिरादिभिः ॥११५॥

३९.११५ अपनीय त्वचो रात्रौ ३९.११५ तीमयेन् मदिरादिभिः ३९.११५ पेषयेन् मदिरादिभिः तत्-कल्क-स्व-रसं प्रातः शुचि-तान्तव-पीडितम् ।
मदिरायाः सु-रूढायास् त्रि-भागेन समन्वितम् ॥११६॥

मद्यस्यान्यस्य तक्रस्य मस्तुनः काञ्जिकस्य वा ।
तत्-काल एव वा युक्तं युक्तम् आलोच्य मात्रया ॥११७॥

३९.११७ मद्यस्यान्यस्य तैलस्य तैल-सर्पिर्-वसा-मज्ज-क्षीर-मांस-रसैः पृथक् ।
क्वाथेन वा यथा-व्याधि रसं केवलम् एव वा ॥११८॥

३९.११८ क्षीर-सर्पिर्-वसा-मज्ज- ३९.११८ -धन्व-मांस-रसैः पृथक् ३९.११८ -धन्व-मांसैः पृथक् पृथक् पिबेगण्डूष-मात्रं प्राक् कण्ठ-नाली-विशुद्धये ।
प्रततं स्वेदनं चानु वेदनायां प्रशस्यते ॥११९॥

३९.११९ प्रततं स्वेदनं चात्र शीताम्बु-सेकः सहसा वमि-मूर्छाययोर् मुखे ।
शेषं पिबेत् क्लमापाये स्थिर-तां गत ओजसि ॥१२०॥

विदाह-परिहाराय परं शीतानुलेपनः ।
धारयेत् साम्बु-कणिका मुक्ता-कर्पूर-मालिकाः ॥१२१॥

३९.१२१ धारयेत् साम्बु-कणिकां ३९.१२१ मुक्तां कर्पूर-मालिकाम् ३९.१२१ मुक्ता-कर्पूर-मालिकाम् कुडवो ऽस्य परा मात्रा तद्-अर्धं केवलस्य तु ।
पलं पिष्टस्य तन्-मज्ज्ञः स-भक्तं प्राक् च शीलयेत् ॥१२२॥

जीर्ण-शाल्य्-ओदनं जीर्णे शङ्ख-कुन्देन्दु-पाण्डुरम् ।
भुञ्जीत यूषैर् पयसा रसैर् वा धन्व-चारिणाम् ॥१२३॥

मद्यम् एकं पिबेत् तत्र तृट्-प्रबन्धे जलान्वितम् ।
अ-मद्य-पस् त्व् आरनालं फलाम्बु परिसिक्थकाम् ॥१२४॥

३९.१२४ मद्यम् एकं पिबेत् त्व् अत्र ३९.१२४ तृट्-[प्र]वृद्धे जलान्वितम् ३९.१२४ तृड्-विबन्धे जलान्वितम् ३९.१२४ फलाम्बु परिसिक्थिकाम् ३९.१२४ फलाम्बु परिसित्थिकाम् ३९.१२४ फलाम्बु परिसिक्थिकम् ३९.१२४ फलाम्बु-परिषेचितम् तत्-कल्कं वा सम-घृतं घृत-पात्रे खजाहतम् ।
स्थितं दशाहाअश्नीयात् तद्-ववा वसया समम् ॥१२५॥

३९.१२५ तद्-ववा पयसा समम् वि-कञ्चुक-प्राज्य-रसोन-गर्भान् स-शूल्य-मांसान् विविधोपदंशान् ।
निमर्दकान् वा घृत-शुक्त-युक्तान् प्र-कामम् अद्याल् लघु तुच्छम् अश्नन् ॥१२६॥

३९.१२६ विमर्दकान् वा घृत-शुक्त-युक्तान् ३९.१२६ प्र-कामम् अद्याल् लघु तुत्थम् अश्नन् पित्त-रक्त-विनिर्मुक्त-समस्तावरणावृते ।
शुद्धे वा विद्यते वायौ न द्रव्यं लशुनात् परम् ॥१२७॥

३९.१२७ पित्त-रक्त-विनिर्मुक्ते ३९.१२७ समस्तावरणावृते प्रियाम्बु-गुड-दुग्धस्य मांस-मद्याम्ल-विद्विषः ।
अ-तितिक्षोर् अ-जीर्णं च लशुनो व्यापदे ध्रुवम् ॥१२८॥

३९.१२८ मांस-मद्यादि-विद्विषः ३९.१२८ अ-तित्यक्षोर् अ-जीर्णम् च ३९.१२८ अति-रूक्षैर् अ-जीर्णे च पित्त-कोप-भयाअन्ते युञ्ज्यान् मृदु विरेचनम् ।
रसायन-गुणान् एवं परिपूर्णान् समश्नुते ॥१२९॥

ग्रीष्मे ऽर्क-तप्ता गिरयो जतु-तुल्यं वमन्ति यत् ।
हेमादि-षड्-धातु-रसं प्रोच्यते तछिला-जतु ॥१३०॥

सर्वं च तिक्त-कटुकं नात्य्-उष्णं कटु पाकतः ।
छेदनं च विशेषेण लौहं तत्र प्रशस्यते ॥१३१॥

गो-मूत्र-गन्धि कृष्णं गुग्गुल्व्-आभं वि-शर्करं मृत्स्नम् ।
स्निग्धम् अन्-अम्ल-कषायं मृदु गुरु च शिला-जतु श्रेष्ठम् ॥१३२॥

व्याधि-व्याधित-सात्म्यं समनुस्मरन् भावयेअयः-पात्रे ।
प्राक् केवल-जल-धौतं शुष्कं क्वाथैस् ततो भाव्यम् ॥१३३॥

सम-गिरिजम् अष्ट-गुणिते निःक्वाथ्यं भावनौषधं तोये ।
तन्-निर्यूहे ऽष्टांशे पूतोष्णे प्रक्षिपेगिरिजम् ॥१३४॥

तत् सम-रस-तां यातं संशुष्कं प्रक्षिपेरसे भूयः ।
स्वैः स्वैर् एवं क्वाथैर् भाव्यं वारान् भवेत् सप्त ॥१३५॥

अथ स्निग्धस्य शुद्धस्य घृतं तिक्तक-साधितम् ।
त्र्य्-अहं युञ्जीत गिरिजम् एकैकेन तथा त्र्य्-अहम् ॥१३६॥

३९.१३६ अथ स्निग्ध-विशुद्धस्य फल-त्रयस्य यूषेण पटोल्या मधुकस्य च ।
योगं योग्यं ततस् तस्य कालापेक्षं प्रयोजयेत् ॥१३७॥

३९.१३७ योग-योग्यं ततस् तस्य ३९.१३७ योगे योज्यं ततस् तस्य ३९.१३७ कालापेक्षं तु योजयेत् शिला-जम् एवं देहस्य भवत्य् अत्य्-उपकारकम् ।
गुणान् समग्रान् कुरुते सहसा व्यापदं न च ॥१३८॥

एक-त्रि-सप्त-सप्ताहं कर्षम् अर्ध-पलं पलम् ।
हीन-मध्योत्तमो योगः शिला-जस्य क्रमान् मतः ॥१३९॥

संस्कृतं संस्कृते देहे प्रयुक्तं गिरिजाह्वयम् ।
युक्तं व्यस्तैः समस्तैर् वा ताम्रायो-रूप्य-हेमभिः ॥१४०॥

क्षीरेणालोडितं कुर्याछीघ्रं रासायनं फलम् ।
कुलत्थान् काकमाचीं च कपोतांश् च सदा त्यजेत् ॥१४१॥

न सो ऽस्ति रोगो भुवि साध्य-रूपो जत्व् अश्म-जं यं न जयेत् प्रसह्य ।
तत्-काल-योगैर् विधि-वत् प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति ॥१४२॥

३९.१४२ जत्व् अश्म-जं यं न हरेत् प्रसह्य ३९.१४२ स्वस्थस्य चोर्जां विपुलां ददाति कुटी-प्रवेशः क्षणिनां परिच्छद-वतां हितः ।
अतो ऽन्य-था तु ये तेषां सौर्य-मारुतिको विधिः ॥१४३॥

३९.१४३ कुटी-प्रवेशः क्षमिणां ३९.१४३ कुटी-प्रवेशः क्षीणानां ३९.१४३ सूर्य-मारुतिको विधिः वातातप-सहा योगा वक्ष्यन्ते ऽतो विशेषतः ।
सुखोपचारा भ्रंशे ऽपि ये न देहस्य बाधकाः ॥१४४॥

शीतोदकं पयः क्षौद्रं घृतम् एकैक-शो द्वि-शः ।
त्रि-शः समस्तम् अथ-वा प्राक् पीतं स्थापयेवयः ॥१४५॥

गुडेन मधुना शुण्ठ्या कृष्णया लवणेन वा ।
द्वे द्वे खादन् सदा पथ्ये जीवेवर्ष-शतं सुखी ॥१४६॥

हरीतकीं सर्पिषि संप्रताप्य समश्नतस् तत् पिबतो घृतं च ।
भवेचिर-स्थायि बलं शरीरे सकृत् कृतं साधु यथा कृत-ज्ञे ॥१४७॥

३९.१४७ समश्नुते चेत् पिबतो घृतं च ३९.१४७ भवेचिर-स्थायि-बलं शरीरं ३९.१४७ सकृत् कृतं साधु यथा कृत-ज्ञाः धात्री-रस-क्षौद्र-सिता-घृतानि हिताशनानां लिहतां नराणाम् ।
प्रणाशम् आयान्ति जरा-विकारा ग्रन्था विशाला इव दुर्-गृहीताः ॥१४८॥

३९.१४८ हिताशिनां वै लिहतां नराणाम् धात्री-कृमिघ्नासन-सार-चूर्णं स-तैल-सर्पिर्-मधु-लोह-रेणु ।
निषेवमाणस्य भवेन् नरस्य तारुण्य-लावण्यम् अ-विप्रणष्टम् ॥१४९॥

३९.१४९ तारुण्य-लावण्यम् अति-प्रतिष्ठम् ३९.१४९ तारुण्य-लावण्यम् अपि प्रणष्टम् लौहं रजो वेल्ल-भवं च सर्पिः-क्षौद्र-द्रुतं स्थापितम् अब्द-मात्रम् ।
समुद्गके बीजक-सार-कॢप्ते लिहन् बली जीवति कृष्ण-केशः ॥१५०॥

३९.१५० लोहं रजो वेल्ल-भवं च सर्पिः- ३९.१५० लोहारजो वेल्ल-भवं च सर्पिः- ३९.१५० समुद्गके बीजक-सार-लिप्ते ३९.१५० सामुद्गके बीजक-क्षार-कॢप्ते विडङ्ग-भल्लातक-नागराणि ये ऽश्नन्ति सर्पिर्-मधु-संयुतानि ।
जरा-नदीं रोग-तरङ्गिणीं ते लावण्य-युक्ताः पुरुषास् तरन्ति ॥१५१॥

खदिरासन-यूष-भावितायास् त्रि-फलाया घृत-माक्षिक-प्लुतायाः ।
नियमेन नरा निषेवितारो यदि जीवन्त्य् अ-रुजः किम् अत्र चित्रम् ॥१५२॥

३९.१५२ त्रि-फलाया घृत-माक्षिकान्वितायाः ३९.१५२ यदि जीवन्त्य् अ-जराः किम् अत्र चित्रम् बीजकस्य रसम् अङ्गुलि-हार्यं शर्करां मधु घृतं त्रि-फलां च ।
शीलयत्सु पुरुषेषु जरत्-ता स्व्-आगतापि विनिवर्तत एव ॥१५३॥

३९.१५३ शर्करा-मधु-घृतं त्रि-फलां च ३९.१५३ शर्करा-मधु-युतं त्रि-फलां च पुनर्नवस्यार्ध-पलं नवस्य पिष्टं पिबेयः पयसार्ध-मासम् ।
मास-द्वयं तत्-त्रि-गुणं समां वा जीर्णो ऽपि भूयः स पुनर्-नवः स्यात् ॥१५४॥

मूर्वा-बृहत्य्-अंशुमती-बलानाम् उशीर-पाठासन-शारिवाणाम् ।
कालानुसार्यागुरु-चन्दनानां वदन्ति पौनर्नवम् एव कल्पम् ॥१५५॥

शतावरी-कल्क-कषाय-सिद्धं ये सर्पिर् अश्नन्ति सिता-द्वितीयम् ।
ताञ् जीविताध्वानम् अभिप्रपन्नान् न विप्रलुम्पन्ति विकार-चौराः ॥१५६॥

पीताश्वगन्धा पयसार्ध-मासं घृतेन तैलेन सुखाम्बुना वा ।
कृशस्य पुष्टिं वपुषो विधत्ते बालस्य सस्यस्य यथा सु-वृष्टिः ॥१५७॥

३९.१५७ घृतेन तैलेन सु-सूक्ष्म-पिष्टा ३९.१५७ बालस्य वृक्षस्य यथाम्बु-वृष्टिः दिने दिने कृष्ण-तिल-प्रकुञ्चं समश्नतां शीत-जलानु-पानम् ।
पोषः शरीरस्य भवत्य् अन्-अल्पो दृढी-भवन्त्य् आ-मरणाच दन्ताः ॥१५८॥

३९.१५८ समश्नतः शीत-जलानु-पानम् चूर्णं श्वदंष्ट्रामलकामृतानां लिहन् स-सर्पिर् मधु-भाग-मिश्रम् ।
वृषः स्थिरः शान्त-विकार-दुःखः समाः शतं जीवति कृष्ण-केशः ॥१५९॥

३९.१५९ लिहन् स-सर्पिर् मधुना प्रयुक्तम् ३९.१५९ लिहन् स-सर्पिर् मधु-भाग-युक्तम् सार्धं तिलैर् आमलकानि कृष्णैर् अक्षाणि संक्षुद्य हरीतकीर् वा ।
ये ऽद्युर् मयूरा इव ते मनुष्या रम्यं परीणामम् अवाप्नुवन्ति ॥१६०॥

शिला-जतु-क्षौद्र-विडङ्ग-सर्पिर्-लोहाभया-पारद-ताप्य-भक्षः ।
आपूर्यते दुर्-बल-देह-धातुस् त्रि-पञ्च-रात्रेण यथा शशाङ्कः ॥१६१॥

ये मासम् एकं स्व-रसं पिबन्ति दिने दिने भृङ्गरजः-समुत्थम् ।
क्षीराशिनस् ते बल-वीर्य-युक्ताः समाः शतं जीवितम् आप्नुवन्ति ॥१६२॥

३९.१६२ समा-शतं जीवितम् आप्नुवन्ति मासं वचाम् अप्य् उपसेवमानाः क्षीरेण तैलेन घृतेन वापि ।
भवन्ति रक्षोभिर् अ-धृष्य-रूपा मेधाविनो निर्-मल-मृष्ट-वाक्याः ॥१६३॥

मण्डूकपर्णीम् अपि भक्षयन्तो भृष्टां घृते मासम् अन्-अन्न-भक्षाः ।
जीवन्ति कालं विपुलं प्रगल्भास् तारुण्य-लावण्य-गुणोदय-स्थाः ॥१६४॥

३९.१६४ मण्डूकपर्णीं परिभक्षयन्तो ३९.१६४ भृष्टां घृते मासम् अन्-अन्न-भक्ष्याः लाङ्गली-त्रि-फला-लोह-पल-पञ्चाशता कृतम् ।
मार्कव-स्व-रसे षष्ट्या गुटिकानां शत-त्रयम् ॥१६५॥

३९.१६५ -पल-पञ्चाशतः कृतात् ३९.१६५ -पल-पञ्चाशती-कृतम् ३९.१६५ मार्कव-स्व-रसे पिष्टा३९.१६५ मार्कव-स्व-रसे पिष्ट्वा ३९.१६५ गुटिकानां शत-त्रयात् छाया-विशुष्कं गुटिकार्धम् अद्यात् पूर्वं समस्ताम् अपि तां क्रमेण ।
भजेविरिक्तः क्रम-शश् च मण्डं पेयां विलेपीं रसकौदनं च ॥१६६॥

३९.१६६ छाया-विशुष्कागुटिकार्धम् अद्यात् सर्पिः-स्निग्धं मासम् एकं यतात्मा मासाऊर्ध्वं सर्व-था स्वैर-वृत्तिः ।
वर्ज्यं यत्नात् सर्व-कालं त्व् अ-जीर्णं वर्षेणैवं योगम् एवोपयुञ्ज्यात् ॥१६७॥

३९.१६७ मासाऊर्ध्वं सर्व-शः स्वैर-वृत्तिः ३९.१६७ वर्षेणैवं योगम् एवोपयुञ्ज्य भवति विगत-रोगो यो ऽप्य् अ-साध्यामयार्तः प्रबल-पुरुष-कारः शोभते यो ऽपि वृद्धः । उपचित-पृथु-गात्र-श्रोत्र-नेत्रादि-युक्तस् तरुण इव समानां पञ्च जीवेछतानि ॥१६८॥

गायत्री-शिखि-शिंशिपासन-शिवा-वेल्लाक्षकारुष्करान् ॥१६९॥
३९.१६९ गायत्री-शिखि-शिंशिपासन-शिवा-वेल्लाक्षकारुष्करं पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतान् खण्डैः सहायो-मयैः ॥१६९॥
३९.१६९ पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतान् खण्डैः सहायो-मलैः ३९.१६९ पिष्ट्वाष्टा-दश-संगुणे ऽम्भसि धृतं खण्डैः सहायो-मयैः ३९.१६९ पिष्ट्वाष्टौ दश-षड्-गुणे ऽम्भसि धृतं खण्डैः सहायो-मयैः पात्रे लोह-मये त्र्य्-अहं रवि-करैर् आलोडयन् पाचये॥१६९॥
३९.१६९ पात्रे लोह-कृते त्र्य्-अहं रवि-करैर् आलोडयन् पाचयेअग्नौ चानु मृदौ स-लोह-शकलं पाद-स्थितं तत् पचेत् ॥१६९॥
पूतस्यांशः क्षीरतो ऽंशस् तथांशौ भार्गान् निर्यासाद्वौ वरायास् त्रयो ऽंशाः ।
अंशाश् चत्वारश् चेह हैयङ्गवीनाएकी-कृत्यैतत् साधयेत् कृष्ण-लौहे ॥१७०॥

३९.१७० भार्गी-निर्यासाद्वौ वरायास् त्रयो ऽंशाः ३९.१७० अंशाश् चत्वारश् चैव हैयङ्गवीनावि-मल-खण्ड-सिता-मधुभिः पृथग् युतम् अ-युक्तम् इदं यदि वा घृतम् ।
स्व-रुचि-भोजन-पान-विचेष्टितो भवति ना पल-शः परिशीलयन् ॥१७१॥

३९.१७१ वि-मलया सितया मधुनाथ-वा ३९.१७१ भवति ना पल-शः परिशीलयेत् श्री-मान् निर्धूत-पाप्मा वन-महिष-बलो वाजि-वेगः स्थिराङ्गः ॥१७२॥
केशैर् भृङ्गाङ्ग-नीलैर् मधु-सुरभि-मुखो नैक-योषिन्-निषेवी ॥१७२॥
३९.१७२ केशैर् भृङ्गाति-नीलैर् मधु-सुरभि-मुखो नैक-योषिन्-निषेवी वाङ्-मेधा-धी-समृद्धः सु-पटु-हुत-वहो मास-मात्रोपयोगा॥१७२॥
३९.१७२ वाङ्-मेधावी समृद्धः सु-पटु-हुत-वहो मास-मात्रोपयोगाधत्ते ऽसौ नारसिंहं वपुर् अनल-शिखा-तप्त-चामीकराभम् ॥१७२॥
अत्तारं नारसिंहस्य व्याधयो न स्पृशन्त्य् अपि ।
चक्रोज्ज्वल-भुजं भीता नारसिंहम् इवासुराः ॥१७३॥

३९.१७३ चक्रोज्ज्वल-भुजा भीता भृङ्ग-प्रवालान् अमुनैव भृष्टान् घृतेन यः खादति यन्त्रितात्मा ।
विशुद्ध-कोष्ठो ऽसन-सार-सिद्ध-दुग्धानुपस् तत्-कृत-भोजनार्थः ॥१७४॥

मासोपयोगात् स सुखी जीवत्य् अब्द-शत-त्रयम् ।
गृह्णाति सकृअप्य् उक्तम् अ-विलुप्त-स्मृतीन्द्रियः ॥१७५॥

३९.१७५ जीवत्य् अब्द-शत-द्वयम् अनेनैव च कल्पेन यस् तैलम् उपयोजयेत् ।
तान् एवाप्नोति स गुणान् कृष्ण-केशश् च जायते ॥१७६॥

उक्तानि शक्यानि फलान्वितानि युगानुरूपाणि रसायनानि ।
महानुशंसान्य् अपि चापराणि प्राप्त्य्-आदि-कष्टानि न कीर्तितानि ॥१७७॥

३९.१७७ महानुभावान्य् अपि चापराणि ३९.१७७ महानुशंस्यान्य् अपि चापराणि रसायन-विधि-भ्रंशाज् जायेरन् व्याधयो यदि ।
यथा-स्वम् औषधं तेषां कार्यं मुक्त्वा रसायनम् ॥१७८॥

सत्य-वादिनम् अ-क्रोधम् अध्य्-आत्म-प्रवणेन्द्रियम् ।
शान्तं सद्-वृत्त-निरतं विद्यान् नित्य-रसायनम् ॥१७९॥

गुणैर् एभिः समुदितः सेवते यो रसायनम् ।
स निवृत्तात्मा दीर्घायुः पर-त्रेह च मोदते ॥१८०॥

३९.१८० गुणैर् एतैः समुदितैः ३९.१८० स निर्वृतात्मा दीर्घायुः शास्त्रानुसारिणी चर्या चित्त-ज्ञाः पार्श्व-वर्तिनः ।
बुद्धिर् अ-स्खलितार्थेषु परिपूर्णं रसायनम् ॥१८१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:20.0930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

competent jurisdiction

  • स्त्री. (quantitatively) पुरेशी अधिकारिता 
  • स्त्री. (qualitatively) सक्षम अधिकारिता 
RANDOM WORD

Did you know?

मूल जन्मानंतर पांचव्या दिवशी सटवाई पूजन करतात, ते काय आहे?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site