TransLiteral Foundation

उत्तरस्थान - अध्याय ३८

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय ३८
लालनश् चपलः पुत्रो हसिरश् चिक्किरो ऽजिरः ।
कषाय-दन्तः कुलकः कोकिलः कपिलो ऽसितः ॥१॥

३८.१ हसिरश् चिक्रिरो ऽजनः ३८.१ हसिरश् चिक्किरो ऽजरः ३८.१ हसिरश् चिकिलो ऽजिरः अरुणः शबरः श्वेतः कपोतः पलितोन्दुरः ।
छुच्छुन्दरो रसालाख्यो दशाष्टौ चेति मूषिकाः ॥२॥

३८.२ कपोतः पलितोन्दुरुः ३८.२ छुच्छुन्दरो बलासाख्यो ३८.२ छुच्छुन्दरो रसालाक्षो ३८.२ दश चाष्टौ च मूषिकाः शुक्रं पतति यत्रैषां शुक्र-दिग्धैः स्पृशन्ति वा ।
यअङ्गम् अङ्गैस् तत्रास्रे दूषिते पाण्डु-तां गते ॥३॥

ग्रन्थयः श्वयथुः कोठो मण्डलानि भ्रमो ऽ-रुचिः ।
शीत-ज्वरो ऽति-रुक् सादो वेपथुः पर्व-भेदनम् ॥४॥

३८.४ ग्रन्थयः श्वयथुः कोथो रोम-हर्षः स्रुतिर् मूर्छा दीर्घ-कालानुबन्धनम् ।
श्लेष्मानुबद्ध-बह्व्-आखु-पोतक-च्छर्दनं स-तृट् ॥५॥

३८.५ श्लेष्मानुबन्ध-बह्व्-आखु- ३८.५ श्लेष्मानुविद्ध-बह्व्-आखु- ३८.५ -पोतक-च्छर्दनं सकृत् व्यवाय्य् आखु-विषं कृच्छ्रं भूयो भूयश् च कुप्यति ।
मूर्छाङ्ग-शोफ-वैवर्ण्य-क्लेद-शब्दा-श्रुति-ज्वराः ॥६॥

शिरो-गुरु-त्वं लालासृक्-छर्दिश् चा-साध्य-लक्षणम् ।
शून-वस्तिं वि-वर्णौष्ठम् आख्व्-आभैर् ग्रन्थिभिश् चितम् ॥७॥

छुच्छुन्दर-स-गन्धं च वर्जयेआखु-दूषितम् ।
शुनः श्लेष्मोल्बणा दोषाः संज्ञां संज्ञा-वहाश्रिताः ॥८॥

मुष्णन्तः कुर्वते क्षोभं धातूनाम् अति-दारुणम् ।
लाला-वान् अन्ध-बधिरः सर्वतः सो ऽभिधावति ॥९॥

स्रस्त-पुच्छ-हनु-स्कन्धः शिरो-दुःखी नताननः ।
दंशस् तेन विदष्टस्य सुप्तं कृष्णं क्षरत्य् असृक् ॥१०॥

हृच्-छिरो-रुग्-ज्वर-स्तम्भ-तृष्णा-मूर्छोद्भवो ऽनु च ।
अनेनान्ये ऽपि बोद्धव्या व्याला दंष्ट्रा-प्रहारिणः ॥११॥

३८.११ हृच्-छिरो-रुग्-ज्वर-स्तम्भस् ३८.११ हृच्-छिरो-रुग् ज्वरः स्तम्भस् ३८.११ तृष्णा-मूर्छोद्भवो ऽनु च ३८.११ तृष्णा मूर्छोद्भवो ऽनु च ३८.११ व्याल-दंष्ट्रा-प्रहारिणः शृगालाश्वतराश्वर्क्ष-द्वीपि-व्याघ्र-वृकादयः ।
कण्डू-निस्तोद-वैवर्ण्य-सुप्ति-क्लेद-ज्वर-भ्रमाः ॥१२॥

विदाह-राग-रुक्-पाक-शोफ-ग्रन्थि-विकुञ्चनम् ।
दंशावदरणं स्फोटाः कर्णिका मण्डलानि च ॥१३॥

सर्व-त्र स-विषे लिङ्गं विपरीतं तु निर्-विषे ।
दष्टो येन तु तच्-चेष्टा-रुतं कुर्वन् विनश्यति ॥१४॥

पश्यंस् तम् एव चा-कस्माआदर्श-सलिलादिषु ।
यो ऽद्भ्यस् त्रस्येअ-दष्टो ऽपि शब्द-संस्पर्श-दर्शनैः ॥१५॥

३८.१५ शब्द-स्पर्श-निदर्शनैः जल-संत्रास-नामानं दष्टं तम् अपि वर्जयेत् ।
आखुना दष्ट-मात्रस्य दंशं काण्डेन दाहयेत् ॥१६॥

दर्पणेनाथ-वा तीव्र-रुजा स्यात् कर्णिकान्य-था ।
दग्धं विस्रावयेदंशं प्रच्छितं च प्रलेपयेत् ॥१७॥

३८.१७ दग्ध्वा विस्रावयेदंशं ३८.१७ प्रच्छिन्नं च प्रलेपयेत् शिरीष-रजनी-वक्र-कुङ्कुमामृतवल्लिभिः ।
अगार-धूम-मञ्जिष्ठा-रजनी-लवणोत्तमैः ॥१८॥

लेपो जयत्य् आखु-विषं कर्णिकायाश् च पातनः ।
ततो ऽम्लैः क्षालयित्वानु तोयैर् अनु च लेपयेत् ॥१९॥

३८.१९ पिष्टैर् अनु च लेपयेत् पालिन्दी-श्वेत-कटभी-बिल्व-मूल-गुडूचिभिः ।
अन्यैश् च विष-शोफ-घ्नैः सिरां वा मोक्षयेद्रुतम् ॥२०॥

३८.२० सिरां वा मोचयेद्रुतम् छर्दनं नीलिनी-क्वाथैः शुकाख्याङ्कोल्लयोर् अपि ।
कोशातक्याः शुकाख्यायाः फलं जीमूतकस्य च ॥२१॥

३८.२१ कोशवत्याः शुकाख्यायाः मदनस्य च संचूर्ण्य दध्ना पीत्वा विषं वमेत् ।
वचा-मदन-जीमूत-कुष्ठं वा मूत्र-पेषितम् ॥२२॥

पूर्व-कल्पेन पातव्यं सर्वोन्दुर-विषापहम् ।
विरेचनं त्रिवृन्-नीली-त्रि-फला-कल्क इष्यते ॥२३॥

३८.२३ विरेचने त्रिवृन्-नीली- शिरो-विरेचने सारः शिरीषस्य फलानि च ।
अञ्जनं गो-मय-रसो व्योष-सूक्ष्म-रजो-ऽन्वितः ॥२४॥

३८.२४ अञ्जने गो-मय-रसो ३८.२४ व्योष-सूक्ष्म-रजो-ऽन्वितः कपित्थ-गो-मय-रसो मधु-मान् अवलेहनम् ।
तण्डुलीयक-मूलेन सिद्धं पाने हितं घृतम् ॥२५॥

३८.२५ मधु-मान् अवलेहने द्वि-निशा-कटभी-रक्ता-यष्ट्य्-आह्वैर् वामृतान्वितैः ।
आस्फोत-मूल-सिद्धं वा पञ्च-कापित्थम् एव वा ॥२६॥

सिन्धुवारं नतं शिग्रु-बिल्व-मूलं पुनर्नवा ।
वचा-श्वदंष्ट्रा-जीमूतम् एषां क्वाथं स-माक्षिकम् ॥२७॥

३८.२७ सिन्धुवार-नतं शिग्रु- ३८.२७ -बिल्व-मूलं पुनर्नवम् पिबेछाल्य्-ओदनं दध्ना भुञ्जानो मूषिकार्दितः ।
तक्रेण शरपुङ्खाया बीजं संचूर्ण्य वा पिबेत् ॥२८॥

अङ्कोल्ल-मूल-कल्को वा बस्त-मूत्रेण कल्कितः ।
पानालेपनयोर् युक्तः सर्वाखु-विष-नाशनः ॥२९॥

३८.२९ पान-लेपनयोर् युक्तः कपित्थ-मध्य-तिलक-तिलाङ्कोल्ल-जटाः पिबेत् ।
गवां मूत्रेण पयसा मञ्जरीं तिलकस्य वा ॥३०॥

३८.३० कपित्थ-मध्य-तिलकं ३८.३० कपित्थ-मध्यं तिलकं ३८.३० -तिलाङ्कोल्ल-जटां पिबेत् ३८.३० तिलाङ्कोल्ल-जटाः पिबेत् ३८.३० मञ्जरीस् तिलकस्य वा अथ-वा सैर्यकान् मूलं स-क्षौद्रं तण्डुलाम्बुना ।
कटुकालाबु-विन्यस्तं पीतं वाम्बु निशोषितम् ॥३१॥

३८.३१ पिबेवाम्बु निशोषितम् ३८.३१ पिबेचाम्बु निशोषितम् सिन्धुवारस्य मूलानि बिडालास्थि विषं नतम् ।
जल-पिष्टो ऽ-गदो हन्ति नस्याद्यैर् आखु-जं विषम् ॥३२॥

स-शेषं मूषिक-विषं प्रकुप्यत्य् अभ्र-दर्शने ।
यथा-यथं वा कालेषु दोषाणां वृद्धि-हेतुषु ॥३३॥

३८.३३अस-शेषं मूषक-विषं तत्र सर्वे यथावस्थं प्रयोज्याः स्युर् उपक्रमाः ।
यथा-स्वं ये च निर्दिष्टास् तथा दूषी-विषापहाः ॥३४॥

दंशं त्व् अलर्क-दष्टस्य दग्धम् उष्णेन सर्पिषा ।
प्रदिह्याअ-गदैस् तैस् तैः पुराणं च घृतं पिबेत् ॥३५॥

अर्क-क्षीर-युतं चास्य योज्यम् आशु विरेचनम् ।
अङ्कोल्लोत्तर-मूलाम्बु त्रि-पलं स-हविः-पलम् ॥३६॥

३८.३६अअर्क-क्षीर-युतं वास्य पिबेत् स-धत्तूर-फलां श्वेतां वापि पुनर्नवाम् ।
ऐकध्यं पललं तैलं रूपिकायाः पयो गुडः ॥३७॥

३८.३७ श्वेतां चापि पुनर्नवाम् ३८.३७ रूयिकायाः पयो गुडः ३८.३७ रूषिकायाः पयो गुडः भिनत्ति विषम् आलर्कं घन-वृन्दम् इवानिलः ।
स-मन्त्रं सौषधी-रत्नं स्नपनं च प्रयोजयेत् ॥३८॥

चतुष्-पाद्भिर् द्वि-पाद्भिर् वा नख-दन्त-परिक्षतम् ।
शूयते पच्यते राग-ज्वर-स्राव-रुजान्वितम् ॥३९॥

३८.३९ -ज्वरास्राव-रुजान्वितम् सोमवल्को ऽश्वकर्णश् च गोजिह्वा हंसपादिका ।
रजन्यौ गैरिकं लेपो नख-दन्त-विषापहः ॥४०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:19.7400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हेंगाड दासी, दादला नाशी

  • हट्टी स्त्री नवर्‍याशीं बिघाड करते. 
RANDOM WORD

Did you know?

एका क्षणासाठी निमिष ही संज्ञा कशी प्राप्त झाली?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site