उत्तरस्थान - अध्याय १५

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


वातेन नेत्रे ऽभिष्यण्णे नासानाहो ऽल्प-शोफ-ता ।
शङ्खाक्षि-भ्रू-ललाटस्य तोद-स्फुरण-भेदनम् ॥१॥

१५.१ वातेन नेत्रे ऽभिष्यन्दे १५.१ शङ्खाक्षि-भ्रू-ललाटास्य- १५.१ -तोद-स्फुरण-भेदनम् शुष्काल्पा दूषिका शीतम् अच्छं चाश्रु चला रुजः ।
निमेषोन्मेषणं कृच्छ्राज् जन्तूनाम् इव सर्पणम् ॥२॥

१५.२ अच्छम् अश्रु चला रुजः अक्ष्य् आध्मातम् इवाभाति सूक्ष्मैः शल्यैर् इवाचितम् ।
स्निग्धोष्णैश् चोपशमनं सो ऽभिष्यन्द उपेक्षितः ॥३॥

१५.३ स्निग्धोष्णेच्छोपशमनं अधिमन्थो भवेत् तत्र कर्णयोर् नदनं भ्रमः ।
अरण्येव च मथ्यन्ते ललाटाक्षि-भ्रुवादयः ॥४॥

हताधिमन्थः सो ऽपि स्यात् प्रमादात् तेन वेदनाः ।
अनेक-रूपा जायन्ते व्रणो दृष्टौ च दृष्टि-हा ॥५॥

मन्याक्षि-शङ्खतो वायुर् अन्यतो वा प्रवर्तयन् ।
व्यथां तीव्राम् अ-पैच्छिल्य-राग-शोफं विलोचनम् ॥६॥

१५.६ अन्यतो वा प्रवर्तयेत् संकोचयति पर्य्-अश्रु सो ऽन्यतो-वात-संज्ञितः ।
तद्-वज् जिह्मं भवेन् नेत्रम् ऊनं वा वात-पर्यये ॥७॥

१५.७ तद्-वज् जिह्मं भवेन् नेत्रं १५.७ तद्-वन् नेत्रं भवेज् जिह्मम् १५.७ शूनं वा वात-पर्यये दाहो धूमायनं शोफः श्याव-ता वर्त्मनो बहिः ।
अन्तः-क्लेदो ऽश्रु पीतोष्णं रागः पीताभ-दर्शनम् ॥८॥

क्षारोक्षित-क्षताक्षि-त्वं पित्ताभिष्यन्द-लक्षणम् ।
ज्वलद्-अङ्गार-कीर्णाभं यकृत्-पिण्ड-सम-प्रभम् ॥९॥

अधिमन्थे भवेन् नेत्रं स्यन्दे तु कफ-संभवे ।
जाड्यं शोफो महान् कण्डूर् निद्रान्नान्-अभिनन्दनम् ॥१०॥

सान्द्र-स्निग्ध-बहु-श्वेत-पिच्छा-वद्-दूषिकाश्रु-ता ।
अधिमन्थे नतं कृष्णम् उन्नतं शुक्ल-मण्डलम् ॥११॥

१५.११ -पिच्छा-वद्-दूषिकास्र-ता प्रसेको नासिकाध्मानं पांसु-पूर्णम् इवेक्षणम् ।
रक्ताश्रु-राजी-दूषीका-रक्त-मण्डल-दर्शनम् ॥१२॥

१५.१२ रक्तास्र-राजी-दूषीका- १५.१२ -शुक्ल-मण्डल-दर्शनम् रक्त-स्यन्देन नयनं स-पित्त-स्यन्द-लक्षणम् ।
मन्थे ऽक्षि ताम्र-पर्य्-अन्तम् उत्पाटन-समान-रुक् ॥१३॥

रागेण बन्धूक-निभं ताम्यति स्पर्शना-क्षमम् ।
असृङ्-निमग्नारिष्टाभं कृष्णम् अग्न्य्-आभ-दर्शनम् ॥१४॥

अधिमन्था यथा-स्वं च सर्वे स्यन्दाधिक-व्यथाः ।
शङ्ख-दन्त-कपोलेषु कपाले चाति-रुक्-कराः ॥१५॥

वात-पित्तातुरं घर्ष-तोद-भेदोपदेह-वत् ।
रूक्ष-दारुण-वर्त्माक्षि कृच्छ्रोन्मील-निमीलनम् ॥१६॥

१५.१६ वात-पित्तोत्तरं घर्ष- विकूणन-विशुष्क-त्व-शीतेच्छा-शूल-पाक-वत् ।
उक्तः शुष्कादि-पाको यं स-शोफः स्यात् त्रिभिर् मलैः ॥१७॥

१५.१७ विकूणनं विशुष्कं च १५.१७ विकूणेन विशुष्क-त्वं १५.१७ शीतेच्छा-शूल-पाक-वत् स-रक्तैस् तत्र शोफो ऽति-रुग्-दाह-ष्ठीवनादि-मान् ।
पक्वोदुम्बर-संकाशं जायते शुक्ल-मण्डलम् ॥१८॥

अश्रूष्ण-शीत-विशद-पिच्छिलाच्छ-घनं मुहुः ।
अल्प-शोफे ऽल्प-शोफस् तु पाको ऽन्यैर् लक्षणैस् तथा ॥१९॥

१५.१९ अल्प-शोफो ऽल्प-शोफस् तु अक्षि-पाकात्यये शोफः संरम्भः कलुषाश्रु-ता ।
कफोपदिग्धम् असितं सितं प्रक्लेद-राग-वत् ॥२०॥

१५.२० कफेन दिग्धम् असितं दाहो दर्शन-संरोधो वेदनाश् चान्-अवस्थिताः ।
अन्न-सारो ऽम्ल-तां नीतः पित्त-रक्तोल्बणैर् मलैः ॥२१॥

सिराभिर् नेत्रम् आरूढः करोति श्याव-लोहितम् ।
स-शोफ-दाह-पाकाश्रु भृशं चाविल-दर्शनम् ॥२२॥

अम्लोषितो ऽयम् इत्य् उक्ता गदाः षो-डश सर्व-गाः ।
हताधिमन्थम् एतेषु साक्षि-पाकात्ययं त्यजेत् ॥२३॥

१५.२३ हताधिमन्थं चैतेषु वातोद्भूतः पञ्च-रात्रेण दृष्टिं सप्ताहेन श्लेष्म-जातो ऽधिमन्थः ।
रक्तोत्पन्नो हन्ति तद्-वत् त्रि-रात्रान् मिथ्याचारात् पैत्तिकः सद्य एव ॥२४॥

१५.२४ सप्ताहेन श्लेष्म-जश् चाधिमन्थः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP