TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय १८

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १८
कर्ण-शूले पवन-जे पिबेरात्रौ रसाशितः ।
वात-घ्न-साधितं सर्पिः कर्णं स्विन्नं च पूरयेत् ॥१॥

पत्त्राणां पृथग् अश्वत्थ-बिल्वार्कैरण्ड-जन्मनाम् ।
तैल-सिन्धूत्थ-दिग्धानां स्विन्नानां पुट-पाकतः ॥२॥

रसैः कवोष्णैस् तद्-वच मूलकस्यारलोर् अपि ।
गणे वात-हरे ऽम्लेषु मूत्रेषु च विपाचितः ॥३॥

महा-स्नेहो द्रुतं हन्ति सु-तीव्राम् अपि वेदनाम् ।
महतः पञ्च-मूलस्य काष्ठात् क्षौमेण वेष्टितात् ॥४॥

तैल-सिक्तात् प्रदीप्ताग्रात् स्नेहः सद्यो रुजापहः ।
योज्यश् चैवं भद्रकाष्ठात् कुष्ठात् काष्ठाच सारलात् ॥५॥

१८.५ स्नेहः सद्यो रुजा-हरः वात-व्याधि-प्रतिश्याय-विहितं हितम् अत्र च ।
वर्जयेछिरसा स्नानं शीताम्भः-पानम् अह्न्य् अपि ॥६॥

१८.६ वर्जयेछिरसः स्नानं पित्त-शूले सिता-युक्त-घृत-स्निग्धं विरेचयेत् ।
द्राक्षा-यष्टी-शृतं स्तन्यं शस्यते कर्ण-पूरणम् ॥७॥

यष्ट्य्-अनन्ता-हिमोशीर-काकोली-लोध्र-जीवकैः ।
मृणाल-बिस-मञ्जिष्ठा-शारिवाभिश् च साधयेत् ॥८॥

यष्टीमधु-रस-प्रस्थ-क्षीर-द्वि-प्रस्थ-संयुतम् ।
तैलस्य कुडवं नस्य-पूरणाभ्यञ्जनैर् इदम् ॥९॥

निहन्ति शूल-दाहोषाः केवलं क्षौद्रम् एव वा ।
यष्ट्य्-आदिभिश् च स-घृतैः कर्णौ दिह्यात् समन्ततः ॥१०॥

वामयेत् पिप्पली-सिद्ध-सर्पिः-स्निग्धं कफोद्भवे ।
धूम-नावन-गण्डूष-स्वेदान् कुर्यात् कफापहान् ॥११॥

लशुनार्द्रक-शिग्रूणां मुरङ्ग्या मूलकस्य च ।
कदल्याः स्व-रसः श्रेष्ठः कद्-उष्णः कर्ण-पूरणे ॥१२॥

१८.१२ सुरङ्ग्या मूलकस्य च १८.१२ भृङ्गस्य मूलकस्य च अर्काङ्कुरान् अम्ल-पिष्टांस् तैलाक्ताō̃ लवणान्वितान् ।
संनिधाय स्नुही-काण्डे कोरिते तच्-छदावृतान् ॥१३॥

१८.१३ कोरिते तछदावृते स्वेदयेत् पुट-पाकेन स रसः शूल-जित् परम् ।
रसेन बीजपूरस्य कपित्थस्य च पूरयेत् ॥१४॥

शुक्तेन पूरयित्वा वा फेनेनान्व् अवचूर्णयेत् ।
अजावि-मूत्र-वंश-त्वक्-सिद्धं तैलं च पूरणम् ॥१५॥

१८.१५ -सिद्ध-तैलेन पूरयेत् सिद्धं वा सार्षपं तैलं हिङ्गु-तुम्बुरु-नागरैः ।
रक्त-जे पित्त-वत् कार्यं सिरां चाशु विमोक्षयेत् ॥१६॥

पक्वे पूय-वहे कर्णे धूम-गण्डूष-नावनम् ।
युञ्ज्यान् नाडी-विधानं च दुष्ट-व्रण-हरं च यत् ॥१७॥

स्रोतः प्रमृज्य दिग्धं तु द्वौ कालौ पिचु-वर्तिभिः ।
पुरेण धूपयित्वा तु माक्षिकेण प्रपूरयेत् ॥१८॥

सुरसादि-गण-क्वाथ-फाणिताक्तां च योजयेत् ।
पिचु-वर्तिं सु-सूक्ष्मैश् च तच्-चूर्णैर् अवचूर्णयेत् ॥१९॥

१८.१९ -फाणिताक्तां च शीलयेत् १८.१९ -फाणिताक्तां प्रयोजयेत् १८.१९ -फाणिताक्तां नियोजयेत् शूल-क्लेद-गुरु-त्वानां विधिर् एष निवर्तकः ।
प्रियङ्गु-मधुकाम्बष्ठा-धातक्य्-उत्पल-पर्णिभिः ॥२०॥

मञ्जिष्ठा-लोध्र-लाक्षाभिः कपित्थस्य रसेन च ।
पचेत् तैलं तआस्रावं निगृह्णात्य् आशु पूरणात् ॥२१॥

नाद-बाधिर्ययोः कुर्यावात-शूलोक्तम् औषधम् ।
श्लेष्मानुबन्धे श्लेष्माणम् प्राग् जयेवमनादिभिः ॥२२॥

एरण्ड-शिग्रु-वरुण-मूलकात् पत्त्र-जे रसे ।
चतुर्-गुणे पचेत् तैलं क्षीरे चाष्ट-गुणोन्मिते ॥२३॥

१८.२३ एरण्ड-शिग्रु-तरुण- यष्ट्य्-आह्वा-क्षीर-काकोली-कल्क-युक्तं निहन्ति तत् ।
नाद-बाधिर्य-शूलानि नावनाभ्यङ्ग-पूरणैः ॥२४॥

१८.२४ -कल्क-युक्तं हिनस्ति तत् पक्वं प्रतिविषा-हिङ्गु-मिशि-त्वक्-स्वर्जिकोषणैः ।
स-शुक्तैः पूरणात् तैलं रुक्-स्रावा-श्रुति-नाद-नुत् ॥२५॥

१८.२५ रुक्-स्राव-श्रुति-नाद-नुत् कर्ण-नादे हितं तैलं सर्षपोत्थं च पूरणे ।
शुष्क-मूलक-खण्डानां क्षारो हिङ्गु महौषधम् ॥२६॥

शतपुष्पा-वचा-कुष्ठ-दारु-शिग्रु-रसाञ्जनम् ।
सौवर्चल-यव-क्षार-स्वर्जिकौद्भिद-सैन्धवम् ॥२७॥

भूर्ज-ग्रन्थि-विडं मुस्ता मधु-शुक्तं चतुर्-गुणम् ।
मातुलुङ्ग-रसस् तद्-वत् कदली-स्व-रसश् च तैः ॥२८॥

पक्वं तैलं जयत्य् आशु सु-कृच्छ्रान् अपि पूरणात् ।
कण्डूं क्लेदं च बाधिर्य-पूति-कर्ण-त्व-रुक्-कृमीन् ॥२९॥

१८.२९ कण्डू-क्ष्वेडन-बाधिर्य- १८.२९ कण्डू-ज्वलन-बाधिर्य- क्षार-तैलम् इदं श्रेष्ठं मुख-दन्तामयेषु च ।
अथ सुप्ताव् इव स्यातां कर्णौ रक्तं हरेत् ततः ॥३०॥

१८.३० कर्णौ रक्तं हरेत् तयोः स-शोफ-क्लेदयोर् मन्द-श्रुतेर् वमनम् आचरेत् ।
बाधिर्यं वर्जयेबाल-वृद्धयोश् चिर-जं च यत् ॥३१॥

प्रतीनाहे परिक्लेद्य स्नेह-स्वेदैर् विशोधयेत् ।
कर्ण-शोधनकेनानु कर्णं तैलस्य पूरयेत् ॥३२॥

१८.३२ कर्णं तैलेन पूरयेत् स-शुक्त-सैन्धव-मधोर् मातुलुङ्ग-रसस्य वा ।
शोधनारूक्ष-तोत्पत्तौ घृत-मण्डस्य पूरणम् ॥३३॥

१८.३३ स-शुक्त-सैन्धवेनाशु १८.३३ मातुलुङ्ग-रसेन वा १८.३३ घृत-मण्डेन पूरणम् क्रमो ऽयं मल-पूर्णे ऽपि कर्णे कण्ड्वां कफापहम् ।
नस्यादि तद्-वछोफे ऽपि कटूष्णैश् चात्र लेपनम् ॥३४॥

१८.३४ कटूष्णैश् चानु लेपनम् कर्ण-स्रावोदितं कुर्यात् पूति-कृमिण-कर्णयोः ।
पूरणं कटु-तैलेन विशेषात् कृमि-कर्णके ॥३५॥

१८.३५ पूति-कृमिल-कर्णयोः १८.३५ पूति-कृमिक-कर्णयोः वमि-पूर्वा हिता कर्ण-विद्रधौ विद्रधि-क्रिया ।
पित्तोत्थ-कर्ण-शूलोक्तं कर्तव्यं क्षत-विद्रधौ ॥३६॥

१८.३६ वमिः पूर्वं हिता कर्ण- अर्शो-ऽर्बुदेषु नासा-वआमा कर्ण-विदारिका ।
कर्ण-विद्रधि-वत् साध्या यथा-दोषोदयेन च ॥३७॥

पाली-शोषे ऽनिल-श्रोत्र-शूल-वन् नस्य-लेपनम् ।
स्वेदं च कुर्यात् स्विन्नां च पालीम् उद्वर्तयेत् तिलैः ॥३८॥

प्रियाल-बीज-यष्ट्य्-आह्व-हयगन्धा-यवान्वितैः ।
ततः पुष्टि-करैः स्नेहैर् अभ्यङ्गं नित्यम् आचरेत् ॥३९॥

शतावरी-वाजिगन्धा-पयस्यैरण्ड-जीवकैः ।
तैलं विपक्वं स-क्षीरं पालीनां पुष्टि-कृत् परम् ॥४०॥

कल्केन जीवनीयेन तैलं पयसि पाचितम् ।
आनूप-मांस-क्वाथे च पाली-पोषण-वर्धनम् ॥४१॥

१८.४१ आनूप-मांस-क्वाथेन पालीं छित्त्वाति-संक्षीणां शेषां संधाय पोषयेत् ।
याप्यैवं तन्त्रिकाख्यापि परिपोटे ऽप्य् अयं विधिः ॥४२॥

उत्पाते शीतलैर् लेपो जलौको-हृत-शोणिते ।
जम्ब्व्-आम्र-पल्लव-बला-यष्टी-लोध्र-तिलोत्पलैः ॥४३॥

स-धान्याम्लैः स-मञ्जिष्ठैः स-कदम्बैः स-शारिवैः ।
सिद्धम् अभ्यञ्जने तैलं विसर्पोक्त-घृतानि च ॥४४॥

१८.४४ सिद्धम् अभ्यञ्जनं तैलं उन्मन्थे ऽभ्यञ्जनं तैलं गोधा-कर्क-वसान्वितम् ।
तालपत्त्र्य्-अश्वगन्धार्क-वाकुची-फल-सैन्धवैः ॥४५॥

१८.४५ गोधा-कर्कि-वसान्वितम् १८.४५ -वाकुची-तिल-सैन्धवैः सुरसा-लाङ्गलीभ्यां च सिद्धं तीक्ष्णं च नावनम् ।
दुर्-विद्धे ऽश्मन्त-जम्ब्व्-आम्र-पत्त्र-क्वाथेन सेचिताम् ॥४६॥

१८.४६ सिद्धं तीक्ष्णं तु नावनम् तैलेन पालीं स्व्-अभ्यक्तां सु-श्लक्ष्णैर् अवचूर्णयेत् ।
चूर्णैर् मधुक-मञ्जिष्ठा-प्रपुण्ड्राह्व-निशोद्भवैः ॥४७॥

१८.४७ -प्रपौण्ड्राह्व-निशोद्भवैः १८.४७ -पौण्डरीक-निशोद्भवैः लाक्षा-विडङ्ग-सिद्धं च तैलम् अभ्यञ्जने हितम् ।
स्विन्नां गो-मय-जैः पिण्डैर् बहु-शः परिलेहिकाम् ॥४८॥

विडङ्ग-सारैर् आलिम्पेउरभ्री-मूत्र-कल्कितैः ।
कौटजेङ्गुद-कारञ्ज-बीज-शम्याक-वल्कलैः ॥४९॥

अथ-वाभ्यञ्जनं तैर् वा कटु-तैलं विपाचयेत् ।
स-निम्ब-पत्त्र-मरिच-मदनैर् लेहिका-व्रणे ॥५०॥

छिन्नं तु कर्णं शुद्धस्य बन्धम् आलोच्य यौगिकम् ।
शुद्धास्रं लागयेल् लग्ने सद्यश्-छिन्ने विशोधनम् ॥५१॥

१८.५१ सम्यक्-छिन्ने विशोधनम् अथ ग्रथित्वा केशान्तं कृत्वा छेदन-लेखनम् ।
निवेश्य संधिं सुषमं न निम्नं न समुन्नतम् ॥५२॥

अभ्यज्य मधु-सर्पिर्भ्यां पिचु-प्लोतावगुण्ठितम् ।
सूत्रेणा-गाढ-शिथिलं बद्ध्वा चूर्णैर् अवाकिरेत् ॥५३॥

शोणित-स्थापनैर् व्रण्यम् आचारं चादिशेत् ततः ।
सप्ताहाआम-तैलाक्तं शनैर् अपनयेत् पिचुम् ॥५४॥

१८.५४ शोणितास्थापनैर् व्रण्यम् सु-रूढं जात-रोमाणं श्लिष्ट-संधिं समं स्थिरम् ।
सु-वर्ष्माणम् अ-रोगं च शनैः कर्णं विवर्धयेत् ॥५५॥

१८.५५ सु-वर्ष्माणं सु-रोमं च जल-शूकः स्वयङ्गुप्ता रजन्यौ बृहती-फलम् ।
अश्वगन्धा-बला-हस्ति-पिप्पली-गौर-सर्षपाः ॥५६॥

मूलं कोशातकाश्वघ्न-रूपिका-सप्तपर्ण-जम् ।
छुच्छुन्दरी काल-मृता गृहं मधु-करी-कृतम् ॥५७॥

जतूका जल-जन्मा च तथा शबरकन्दकम् ।
एभिः कल्कैः खरं पक्वं स-तैलं माहिषं घृतम् ॥५८॥

१८.५८ तथा शबरकन्दकः हस्त्य्-अश्व-मूत्रेण परम् अभ्यङ्गात् कर्ण-वर्धनम् ।
अथ कुर्यावयः-स्थस्य च्छिन्नां शुद्धस्य नासिकाम् ॥५९॥

छिन्द्यान् नासा-समं पत्त्रं तत्-तुल्यं च कपोलतः ।
त्वङ्-मांसं नासिकासन्ने रक्षंस् तत् तनु-तां नयेत् ॥६०॥

सीव्येगण्डं ततः सूच्या सेविन्या पिचु-युक्तया ।
नासा-च्छेदे ऽथ लिखिते परिवर्त्योपरि त्वचम् ॥६१॥

१८.६१ नासा-च्छेदे सु-लिखिते कपोल-वध्रं संदध्यात् सीव्येन् नासां च यत्नतः ।
नाडीभ्याम् उत्क्षिपेअन्तः सुखोच्छ्वास-प्रवृत्तये ॥६२॥

१८.६२ कपोल-बन्धं संदध्यात् १८.६२ कपोल-वध्रीं संदध्यात् आम-तैलेन सिक्त्वानु पत्तङ्ग-मधुकाञ्जनैः ।
शोणित-स्थापनैश् चान्यैः सु-श्लक्ष्णैर् अवचूर्णयेत् ॥६३॥

१८.६३ पतङ्ग-मधुकाञ्जनैः १८.६३ शोणितास्थापनैश् चान्यैः ततो मधु-घृताभ्यक्तं बद्ध्वाचारिकम् आदिशेत् ।
ज्ञात्वावस्थान्तरं कुर्यात् सद्यो-व्रण-विधिं ततः ॥६४॥

१८.६४ बद्ध्वाचारम् अथादिशेत् छिन्द्यारूढे ऽधिकं मांसं नासोपान्ताच चर्म तत् ।
सीव्येत् ततश् च सु-श्लक्ष्णं हीनं संवर्धयेत् पुनः ॥६५॥

१८.६५ नासोपान्ताच चर्म-वत् निवेशिते यथा-न्यासं सद्यश्-छिन्ने ऽप्य् अयं विधिः ।
नाडी-योगाविनौष्ठस्य नासा-संधान-वविधिः ॥६६॥

१८.६६ सद्यश्-छेदे ऽप्य् अयं विधिः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:15.3730000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tone tint

  • स्त्री. स्वरच्छटा 
RANDOM WORD

Did you know?

जानवे म्हणजे नेमके काय ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.