उत्तरस्थान - अध्याय १९

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अवश्यायानिल-रजो-भाष्याति-स्वप्न-जागरैः ।
नीचात्य्-उच्चोपधानेन पीतेनान्येन वारिणा ॥१॥

अत्य्-अम्बु-पान-रमण-च्छर्दि-बाष्प-ग्रहादिभिः ।
क्रुद्धा वातोल्बणा दोषा नासायां स्त्यान-तां गताः ॥२॥

१९.२ क्षुब्धा वातोल्बणा दोषा १९.२ वृद्धा वातोल्बणा दोषा जनयन्ति प्रतिश्यायं वर्धमानं क्षय-प्रदम् ।
तत्र वातात् प्रतिश्याये मुख-शोषो भृशं क्षवः ॥३॥

घ्राणोपरोध-निस्तोद-दन्त-शङ्ख-शिरो-व्यथाः ।
कीटिका इव सर्पन्तीर् मन्यते परितो भ्रुवौ ॥४॥

१९.४ कीटका इव सर्पन्ति स्वर-सादश् चिरात् पाकः शिशिराच्छ-कफ-स्रुतिः ।
पित्तात् तृष्णा-ज्वर-घ्राण-पिटिका-संभव-भ्रमाः ॥५॥

१९.५ पित्तात् तृष्णा-ज्वरो घ्राणे १९.५ पिटिका-संभव-भ्रमाः नासाग्र-पाको रूक्षोष्ण-ताम्र-पीत-कफ-स्रुतिः ।
कफात् कासो ऽ-रुचिः श्वासो वमथुर् गात्र-गौरवम् ॥६॥

माधुर्यं वदने कण्डूः स्निग्ध-शुक्ल-कफ-स्रुतिः ।
सर्व-जो लक्षणैः सर्वैर् अ-कस्मावृद्धि-शान्ति-मान् ॥७॥

१९.७ स्निग्ध-शुक्ल-घन-स्रुतिः १९.७ स्निग्ध-शुक्ल-घना स्रुतिः दुष्टं नासा-सिराः प्राप्य प्रतिश्यायं करोत्य् असृक् ।
उरसः सुप्त-ता ताम्र-नेत्र-त्वं श्वास-पूति-ता ॥८॥

कण्डूः श्रोत्राक्षि-नासासु पित्तोक्तं चात्र लक्षणम् ।
सर्व एव प्रतिश्याया दुष्ट-तां यान्त्य् उपेक्षिताः ॥९॥

१९.९ पित्तोत्थं चात्र लक्षणम् यथोक्तोपद्रवाधिक्यात् स सर्वेन्द्रिय-तापनः ।
साग्नि-साद-ज्वर-श्वास-कासोरः-पार्श्व-वेदनः ॥१०॥

कुप्यत्य् अ-कस्माबहु-शो मुख-दौर्गन्ध्य-शोफ-कृत् ।
नासिका-क्लेद-संशोष-शुद्धि-रोध-करो मुहुः ॥११॥

१९.११ मुख-दौर्गन्ध्य-शोष-कृत् पूयोपमासिता-रक्त-ग्रथित-श्लेष्म-संस्रुतिः ।
मूर्छन्ति चात्र कृमयो दीर्घ-स्निग्ध-सिताणवः ॥१२॥

१९.१२ पूयोपमासिता रक्ता १९.१२ -ग्रथिता श्लेष्म-संस्रुतिः १९.१२ ग्रथित-श्लेष्म-संस्रुतिः पक्व-लिङ्गानि तेष्व् अङ्ग-लाघवं क्षवथोः शमः ।
श्लेष्मा स-चिक्कणः पीतो ऽ-ज्ञानं च रस-गन्धयोः ॥१३॥

१९.१३ ज्ञानं च रस-गन्धयोः तीक्ष्णाघ्राणोपयोगार्क-रश्मि-सूत्र-तृणादिभिः ।
वात-कोपिभिर् अन्यैर् वा नासिका-तरुणास्थनि ॥१४॥

१९.१४ तीक्ष्ण-घ्राणोपयोगार्क- विघट्टिते ऽनिलः क्रुद्धो रुद्धः शृङ्गाटकं व्रजेत् ।
निवृत्तः कुरुते ऽत्य्-अर्थं क्षवथुं स भृश-क्षवः ॥१५॥

१९.१५ रुद्धः शृङ्गाटकं व्रजन् १९.१५ क्षवथुं स भृशङ्-क्षवः शोषयन् नासिका-स्रोतः कफं च कुरुते ऽनिलः ।
शूक-पूर्णाभ-नासा-त्वं कृच्छ्राउच्छ्वसनं ततः ॥१६॥

१९.१६ शोषयेन् नासिका-स्रोतः १९.१६ शूक-पूर्णाभ-कण्ठ-त्वं १९.१६ शूक-पूर्णाभ-नास-त्वं स्मृतो ऽसौ नासिका-शोषो नासानाहे तु जायते ।
नद्ध-त्वम् इव नासायाः श्लेष्म-रुद्धेन वायुना ॥१७॥

निःश्वासोच्छ्वास-संरोधात् स्रोतसी संवृते इव ।
पचेन् नासा-पुटे पित्तं त्वङ्-मांसं दाह-शूल-वत् ॥१८॥

स घ्राण-पाकः स्रावस् तु तत्-संज्ञः श्लेष्म-संभवः ।
अच्छो जलोपमो ऽजस्रं विशेषान् निशि जायते ॥१९॥

कफः प्रवृद्धो नासायां रुद्ध्वा स्रोतांस्य् अ-पीनसम् ।
कुर्यात् स-घुर्घुर-श्वासं पीनसाधिक-वेदनम् ॥२०॥

१९.२० रुद्धः स्रोतःसु पीनसम् अवेर् इव स्रवत्य् अस्य प्रक्लिन्ना तेन नासिका ।
अजस्रं पिच्छिलं पीतं पक्वं सिङ्घाणकं घनम् ॥२१॥

रक्तेन नासा दग्धेव बाह्यान्तः-स्पर्शना-सहा ।
भवेधूमोपमोच्छ्वासा सा दीप्तिर् दहतीव च ॥२२॥

तालु-मूले मलैर् दुष्टैर् मारुतो मुख-नासिकात् ।
श्लेष्मा च पूतिर् निर्गच्छेत् पूति-नासं वदन्ति तम् ॥२३॥

निचयाअभिघातावा पूयासृङ् नासिका स्रवेत् ।
तत् पूय-रक्तम् आख्यातं शिरो-दाह-रुजा-करम् ॥२४॥

पित्त-श्लेष्मावरुद्धो ऽन्तर् नासायां शोषयेन् मरुत् ।
कफं स शुष्कः पुट-तां प्राप्नोति पुटकं तु तत् ॥२५॥

१९.२५ कफं स शुष्क-पुट-तां अर्शो-ऽर्बुदानि विभजेदोष-लिङ्गैर् यथा-यथम् ।
सर्वेषु कृच्छ्रोच्छ्वसनं पीनसः प्रततं क्षुतिः ॥२६॥

१९.२६ पीनसः प्रततं क्षवः १९.२६ पीनसः सततं क्षुतिः सानुनासिक-वादि-त्वं पूति-नासः शिरो-व्यथा ।
अष्टा-दशानाम् इत्य् एषां यापयेदुष्ट-पीनसम् ॥२७॥

१९.२७ पूति-नासा शिरो-व्यथा १९.२७ पूतिर् नासा शिरो-व्यथा १९.२७ अष्टा-दशानाम् एतेषां १९.२७ यापयेदुष्ट-पीनसान् १९.२७ वर्जयेदुष्ट-पीनसम्

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP