TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय २१

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय २१
मात्स्य-माहिष-वाराह-पिशितामक-मूलकम् ।
माष-सूप-दधि-क्षीर-शुक्तेक्षु-रस-फाणितम् ॥१॥

२१.१ मत्स्य-माहिष-वाराह- अवाक्-शय्यां च भजतो द्विषतो दन्त-धावनम् ।
धूम-च्छर्दन-गण्डूषान् उचितं च सिरा-व्यधम् ॥२॥

क्रुद्धाः श्लेष्मोल्बणा दोषाः कुर्वन्त्य् अन्तर् मुखं गदान् ।
तत्र खण्डौष्ठ इत्य् उक्तो वातेनौष्ठो द्वि-धा कृतः ॥३॥

२१.३ कुर्वन्त्य् अन्तर्-मुखे गदान् ओष्ठ-कोपे तु पवनात् स्तब्धाव् ओष्ठौ महा-रुजौ ।
दाल्येते परिपाट्येते परुषासित-कर्कशौ ॥४॥

पित्तात् तीक्ष्ण-सहौ पीतौ सर्षपाकृतिभिश् चितौ ।
पिटिकाभिर् बहु-क्लेदाव् आशु-पाकौ कफात् पुनः ॥५॥

२१.५ पिटिकाभिर् महा-क्लेदाव् शीता-सहौ गुरू शूनौ स-वर्ण-पिटिकाचितौ ।
संनिपाताअनेकाभौ दुर्-गन्धास्राव-पिच्छिलौ ॥६॥

२१.६ दुर्-गन्ध-स्राव-पिच्छिलौ २१.६ दुर्-गन्धाव् अति-पिच्छिलौ अ-कस्मान् म्लान-संशून-रुजौ विषम-पाकिनौ ।
रक्तोपसृष्टौ रुधिरं स्रवतः शोणित-प्रभौ ॥७॥

खर्जूर-सदृशं चात्र क्षीणे रक्ते ऽर्बुदं भवेत् ।
मांस-पिण्डोपमौ मांसात् स्यातां मूर्छत्-कृमी क्रमात् ॥८॥

तैलाभ-श्वयथु-क्लेदौ स-कण्ड्वौ मेदसा मृदू ।
क्षत-जाव् अवदीर्येते पाट्येते चा-सकृत् पुनः ॥९॥

२१.९ स-कण्डू मेदसा मृदू २१.९ पाट्येते वा-सकृत् पुनः ग्रथितौ च पुनः स्यातां कण्डूलौ दशन-च्छदौ ।
जल-बुद्बुद-ववात-कफाओष्ठे जलार्बुदम् ॥१०॥

गण्डालजी स्थिरः शोफो गण्डे दाह-ज्वरान्वितः ।
वाताउष्ण-सहा दन्ताः शीत-स्पर्शे ऽधिक-व्यथाः ॥११॥

दाल्यन्त इव शूलेन शीताख्यो दालनश् च सः ।
दन्त-हर्षे प्रवाताम्ल-शीत-भक्षा-क्षमा द्वि-जाः ॥१२॥

२१.१२ -शीत-भक्ष्या-सहा द्वि-जाः भवन्त्य् अम्लाशनेनेव स-रुजाश् चलिता इव ।
दन्त-भेदे द्वि-जास् तोद-भेद-रुक्-स्फुटनान्विताः ॥१३॥

२१.१३ स-रुजश् चलिता इव २१.१३ -भेद-रुक्-वेदनान्विताः चालश् चलद्भिर् दशनैर् भक्षणाअधिक-व्यथैः ।
करालस् तु करालानां दशनानां समुद्गमः ॥१४॥

२१.१४ दशनानां समुद्भवः २१.१४ दशनानां समुद्भवे दन्तो ऽधिको ऽधि-दन्ताख्यः स चोक्तः खलु वर्धनः ।
जायमाने ऽति-रुग् दन्ते जाते तत्र तु शाम्यति ॥१५॥

२१.१५ जायते जायमाने ऽति २१.१५ रुग् जाते तत्र शाम्यति अ-धावनान् मलो दन्ते कफो वा वात-शोषितः ।
पूति-गन्धिः स्थिरी-भूतः शर्करा साप्य् उपेक्षिता ॥१६॥

२१.१६ पूति-गन्धः स्थिरी-भूतः २१.१६ शर्करा सो ऽप्य् उपेक्षितः शातयत्य् अणु-शो दन्तात् कपालानि कपालिका ।
श्यावः श्याव-त्वम् आयातो रक्त-पित्तानिलैर् द्वि-जः ॥१७॥

२१.१७ शातयत्य् अणु-शो दन्त- २१.१७ -कपालानि कपालिका २१.१७ श्यावः श्याव-त्वम् आयाता २१.१७ रक्त-पित्तानिलैर् द्वि-जाः स-मूलं दन्तम् आश्रित्य दोषैर् उल्बण-मारुतैः ।
शोषिते मज्ज्ञि सुषिरे दन्ते ऽन्न-मल-पूरिते ॥१८॥

पूति-त्वात् कृमयः सूक्ष्मा जायन्ते जायते ततः ।
अ-हेतु-तीव्रार्ति-शमः स-संरम्भो ऽसितश् चलः ॥१९॥

प्रलूनः पूय-रक्त-स्रुत् स चोक्तः कृमि-दन्तकः ।
श्लेष्म-रक्तेन पूतीनि वहन्त्य् अस्रम् अ-हेतुकम् ॥२०॥

२१.२० प्रभूत-पूय-रक्त-स्रुत् शीर्यन्ते दन्त-मांसानि मृदु-क्लिन्नासितानि च ।
शीतादो ऽसाव् उप-कुशः पाकः पित्तासृग्-उद्भवः ॥२१॥

दन्त-मांसानि दह्यन्ते रक्तान्य् उत्सेध-वन्त्य् अतः ।
कण्डू-मन्ति स्रवन्त्य् अस्रम् आध्मायन्ते ऽसृजि स्थिते ॥२२॥

चला मन्द-रुजो दन्ताः पूति वक्त्रं च जायते ।
दन्तयोस् त्रिषु वा शोफो बदरास्थि-निभो घनः ॥२३॥

कफास्रात् तीव्र-रुक् शीघ्रं पच्यते दन्त-पुप्पुटः ।
दन्त-मांसे मलैः सास्रैर् बाह्यान्तः श्वयथुर् गुरुः ॥२४॥

स-रुग्-दाहः स्रवेभिन्नः पूयास्रं दन्त-विद्रधिः ।
श्वयथुर् दन्त-मूलेषु रुजा-वान् पित्त-रक्त-जः ॥२५॥

२१.२५ पूयास्रे दन्त-विद्रधिः लाला-स्रावी स सुषिरो दन्त-मांस-प्रशातनः ।
स संनिपाताज् ज्वर-वान् स-पूय-रुधिर-स्रुतिः ॥२६॥

२१.२६ स संनिपात-ज्वर-वान् महा-सुषिर इत्य् उक्तो विशीर्ण-द्वि-ज-बन्धनः ।
दन्तान्ते कील-वछोफो हनु-कर्ण-रुजा-करः ॥२७॥

२१.२७ विशीर्ण-रद-बन्धनः प्रतिहन्त्य् अभ्यवहृतिम् श्लेष्मणा सो ऽधि-मांसकः ।
घृष्टेषु दन्त-मांसेषु संरम्भो जायते महान् ॥२८॥

यस्मिंश् चलन्ति दन्ताश् च स विदर्भो ऽभिघात-जः ।
दन्त-मांसाश्रितान् रोगान् यः साध्यान् अप्य् उपेक्षते ॥२९॥

२१.२९ स वैदर्भो ऽभिघात-जः अन्तस् तस्यास्रवन् दोषः सूक्ष्मां संजनयेगतिम् ।
पूयं मुहुः सा स्रवति त्वङ्-मांसास्थि-प्रभेदिनी ॥३०॥

ताः पुनः पञ्च विज्ञेया लक्षणैः स्वैर् यथोदितैः ।
शाक-पत्त्र-खरा सुप्ता स्फुटिता वात-दूषिता ॥३१॥

जिह्वा पित्तात् स-दाहोषा रक्तैर् मांसाङ्कुरैश् चिता ।
शाल्मली-कण्टकाभैस् तु कफेन बहला गुरुः ॥३२॥

२१.३२ कफेन बहुला गुरुः कफ-पित्ताअधः शोफो जिह्वा-स्तम्भ-कृउन्नतः ।
मत्स्य-गन्धिर् भवेत् पक्वः सो ऽलसो मांस-शातनः ॥३३॥

प्रबन्धने ऽधो जिह्वायाः शोफो जिह्वाग्र-संनिभः ।
साङ्कुरः कफ-पित्तास्रैर् लालोषा-स्तम्भ-वान् खरः ॥३४॥

२१.३४ प्रलम्बनो ऽधो जिह्वायाः अधि-जिह्वः स-रुक्-कण्डुर् वाक्याहार-विघात-कृत् ।
तादृग् एवोप-जिह्वस् तु जिह्वाया उपरि स्थितः ॥३५॥

तालु-मांसे ऽनिलादुष्टे पिटिकाः स-रुजः खराः ।
बह्व्यो घनाः स्राव-युतास् तास् तालु-पिटिकाः स्मृताः ॥३६॥

२१.३६ पिटिकाः स-रुजाः खराः २१.३६ बह्व्यो घनाः स्राव-युक्तास् तालु-मूले कफात् सास्रान् मत्स्य-वस्ति-निभो मृदुः ।
प्रलम्बः पिच्छिलः शोफो नासयाहारम् ईरयन् ॥३७॥

कण्ठोपरोध-तृट्-कास-वमि-कृत् गल-शुण्डिका ।
तालु-मध्ये नि-रुङ् मांसं संहतं तालु-संहतिः ॥३८॥

पद्माकृतिस् तालु-मध्ये रक्ताछ्वयथुर् अर्बुदम् ।
कच्छपः कच्छपाकारश् चिर-वृद्धिः कफाअ-रुक् ॥३९॥

कोलाभः श्लेष्म-मेदोभ्यां पुप्पुटो नी-रुजः स्थिरः ।
पित्तेन पाकः पाकाख्यः पूयास्रावी महा-रुजः ॥४०॥

वात-पित्त-ज्वरायासैस् तालु-शोषस् तद्-आह्वयः ।
जिह्वा-प्रबन्ध-जाः कण्ठे दारुणा मार्ग-रोधिनः ॥४१॥

मांसाङ्कुराः शीघ्र-चया रोहिणी शीघ्र-कारिणी ।
कण्ठास्य-शोष-कृवातात् सा हनु-श्रोत्र-रुक्-करी ॥४२॥

२१.४२ रोहिणी साशु-कारिणी पित्ताज् ज्वरोषा-तृण्-मोह-कण्ठ-धूमायनान्विता ।
क्षिप्र-जा क्षिप्र-पाकाति-रागिणी स्पर्शना-सहा ॥४३॥

कफेन पिच्छिला पाण्डुर् असृजा स्फोटकाचिता ।
तप्ताङ्गार-निभा कर्ण-रुक्-करी पित्त-जाकृतिः ॥४४॥

गम्भीर-पाका निचयात् सर्व-लिङ्ग-समन्विता ।
दोषैः कफोल्बणैः शोफः कोल-वग्रथितोन्नतः ॥४५॥

शूक-कण्टक-वत् कण्ठे शालूको मार्ग-रोधनः ।
वृन्दो वृत्तोन्नतो दाह-ज्वर-कृगल-पार्श्व-गः ॥४६॥

हनु-संध्य्-आश्रितः कण्ठे कार्पासी-फल-संनिभः ।
पिच्छिलो मन्द-रुक् शोफः कठिनस् तुण्डिकेरिका ॥४७॥

२१.४७ कर्पासी-फल-संनिभः बाह्यान्तः श्वयथुर् घोरो गल-मार्गार्गलोपमः ।
गलौघो मूर्ध-गुरु-ता-तन्द्रा-लाला-ज्वर-प्रदः ॥४८॥

वलयं नाति-रुक् शोफस् तद्-वएवायतोन्नतः ।
मांस-कीलो गले दोषैर् एको ऽनेको ऽथ-वा ऽल्प-रुक् ॥४९॥

कृच्छ्रोच्छ्वासाभ्यवहृतिः पृथु-मूलो गिलायुकः ।
भूरि-मांसाङ्कुर-वृता तीव्र-तृड्-ज्वर-मूर्ध-रुक् ॥५०॥

२१.५० पृथु-मूलो गलायुकः शत-घ्नी निचिता वर्तिः शत-घ्नीवाति-रुक्-करी ।
व्याप्त-सर्व-गलः शीघ्र-जन्म-पाको महा-रुजः ॥५१॥

२१.५१ शत-घ्नी-निचितेवान्तः २१.५१ शत-घ्नी चाति-रुक्-करी पूति-पूय-निभ-स्रावी श्वयथुर् गल-विद्रधिः ।
जिह्वावसाने कण्ठादाव् अ-पाकं श्वयथुं मलाः ॥५२॥

जनयन्ति स्थिरं रक्तं नी-रुजं तगलार्बुदम् ॥५३अ॥
२१.५३ नी-रुजं तं गलार्बुदम् पवन-श्लेष्म-मेदोभिर् गल-गण्डो भवेबहिः ॥५३च्॥
वर्धमानः स कालेन मुष्क-वल् लम्बते ऽति-रुक् ॥५३एf ॥
२१.५३fव् मुष्क-वल् लम्बते नि-रुक् कृष्णो ऽरुणो वा तोदाढ्यः स वातात् कृष्ण-राजि-मान् ।
वृद्धस् तालु-गले शोषं कुर्याच वि-रसास्य-ताम् ॥५४॥

स्थिरः स-वर्णः कण्डू-मान् शीत-स्पर्शो गुरुः कफात् ।
वृद्धस् तालु-गले लेपं कुर्याच मधुरास्य-ताम् ॥५५॥

२१.५५ वृद्धस् तालु-गले शोफं मेदसः श्लेष्म-वधानि-वृद्ध्योः सो ऽनुविधीयते ।
देहं वृद्धश् च कुरुते गले शब्दं स्वरे ऽल्प-ताम् ॥५६॥

श्लेष्म-रुद्धानिल-गतिः शुष्क-कण्ठो हत-स्वरः ।
ताम्यन् प्रसक्तं श्वसिति येन स स्वर-हानिलात् ॥५७॥

करोति वदनस्यान्तर् व्रणान् सर्व-सरो ऽनिलः ।
संचारिणो ऽरुणान् रूक्षान् ओष्ठौ ताम्रौ चल-त्वचौ ॥५८॥

जिह्वा शीता-सहा गुर्वी स्फुटिता कण्टकाचिता ।
विवृणोति च कृच्छ्रेण मुखं पाको मुखस्य सः ॥५९॥

२१.५९ मुखं पाको मुखस्य च अधः प्रतिहतो वायुर् अर्शो-गुल्म-कफादिभिः ।
यात्य् ऊर्ध्वं वक्त्र-दौर्गन्ध्यं कुर्वन्न् ऊर्ध्व-गुदस् तु सः ॥६०॥

२१.६० कुर्वन्न् ऊर्ध्व-गदस् तु सः मुखस्य पित्त-जे पाके दाहोषे तिक्त-वक्त्र-ता ।
क्षारोक्षित-क्षत-समा व्रणास् तद्-वच रक्त-जे ॥६१॥

कफ-जे मधुरास्य-त्वं कण्डू-मत्-पिच्छिला व्रणाः ।
अन्तः-कपोलम् आश्रित्य श्याव-पाण्डु कफो ऽर्बुदम् ॥६२॥

२१.६२ श्यावं पाण्डु कफो ऽर्बुदम् कुर्यात् तघट्टितं छिन्नं मृदितं च विवर्धते ।
मुख-पाको भवेत् सास्रैः सर्वैः सर्वाकृतिर् मलैः ॥६३॥

२१.६३ कुर्यात् तत् पाटितं छिन्नं २१.६३ कुर्यात् तव्यधितं छिन्नं पूत्य्-आस्य-ता च तैर् एव दन्त-काष्ठादि-विद्विषः ।
ओष्ठे गण्डे द्वि-जे मूले जिह्वायां तालुके गले ॥६४॥

वक्त्रे सर्व-त्र चेत्य् उक्ताः पञ्च-सप्ततिर् आमयाः ।
एका-दशैको दश च त्रयो-दश तथा च षट् ॥६५॥

अष्टाव् अष्टा-दशाष्टौ च क्रमात् तेष्व् अन्-उपक्रमाः ।
करालो मांस-रक्तौष्ठाव् अर्बुदानि जलाविना ॥६६॥

२१.६६ क्रमाएष्व् अन्-उपक्रमाः कच्छपस् तालु-पिटिका गलौघः सुषिरो महान् ।
स्वर-घ्नोर्ध्व-गुद-श्याव-शत-घ्नी-वलयालसाः ॥६७॥

२१.६७ स्वर-घ्नोर्ध्व-गद-श्याव- नाड्य्-ओष्ठ-कोपौ निचयारक्तात् सर्वैश् च रोहिणी ।
दशने स्फुटिते दन्त-भेदः पक्वोप-जिह्विका ॥६८॥

गल-गण्डः स्वर-भ्रंशी कृच्छ्रोच्छ्वासो ऽति-वत्सरः ।
याप्यस् तु हर्षो भेदश् च शेषाञ् छस्त्रौषधैर् जयेत् ॥६९॥

२१.६९ गल-गण्डः स्वर-भ्रंशः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:15.8330000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

horopter

  • पु. दृष्टिपरिधि 
RANDOM WORD

Did you know?

लग्न ठरवितांना पत्रिका पाहणे किती योग्य आहे? पत्रिका पाहूनही कांही विवाह अयशस्वी कां होतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site