TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

उत्तरस्थान - अध्याय १०

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


अध्याय १०
वायुः क्रुद्धः सिराः प्राप्य जलाभं जल-वाहिनीः ।
अश्रु स्रावयते वर्त्म-शुक्ल-संधेः कनीनकात् ॥१॥

१०.१ -शुक्ल-संधि-कनीनिकात् तेन नेत्रं स-रुग्-राग-शोफं स्यात् स जलास्रवः ।
कफात् कफास्रवे श्वेतं पिच्छिलं बहलं स्रवेत् ॥२॥

१०.२ कफात् कफ-श्रवे श्वेतं १०.२ कफात् कफ-स्रवे श्वेतं कफेन शोफस् तीक्ष्णाग्रः क्षार-बुद्बुदकोपमः ।
पृथु-मूल-बलः स्निग्धः स-वर्णो मृदु-पिच्छिलः ॥३॥

१०.३ स-वर्ण-मृदु-पिच्छिलः महान् अ-पाकः कण्डू-मान् उपनाहः स नी-रुजः ।
रक्तारक्तास्रावे ताम्रं बहूष्णं चाश्रु संस्रवेत् ॥४॥

१०.४ रक्तारक्त-स्रवे ताम्रं १०.४ रक्तारक्तं स्रवेत् ताम्रं १०.४ बहूष्णं वाश्रु संस्रवेत् वर्त्म-संध्य्-आश्रया शुक्ले पिटिका दाह-शूलिनी ।
ताम्रा मुद्गोपमा भिन्ना रक्तं स्रवति पर्वणी ॥५॥

पूयास्रवे मलाः सास्रा वर्त्म-संधेः कनीनकात् ।
स्रावयन्ति मुहुः पूयं सास्रं त्वङ्-मांस-पाकतः ॥६॥

१०.६ वर्त्म-संधि-कनीनकात् १०.६ सास्र-त्वङ्-मांस-पाकतः १०.६ साश्रु-त्वङ्-मांस-पाकतः पूयालसो व्रणः सूक्ष्मः शोफ-संरम्भ-पूर्वकः ।
कनीन-संधाव् आध्मायी पूयास्रावी स-वेदनः ॥७॥

कनीनस्यान्तर् अलजी शोफो रुक्-तोद-दाह-वान् ।
अपाङ्गे वा कनीने वा कण्डूषा-पक्ष्म-पोट-वान् ॥८॥

पूयास्रावी कृमि-ग्रन्थिर् ग्रन्थिः कृमि-युतो ऽर्ति-मान् ।
उपनाह-कृमि-ग्रन्थि-पूयालसक-पर्वणीः ॥९॥

शस्त्रेण साधयेत् पञ्च सालजीन् आस्रवांस् त्यजेत् ।
पित्तं कुर्यात् सिते बिन्दून् असित-श्याव-पीतकान् ॥१०॥

मलाक्तादर्श-तुल्यं वा सर्वं शुक्लं स-दाह-रुक् ।
रोगो ऽयं शुक्तिका-संज्ञः स-शकृद्-भेद-तृड्-ज्वरः ॥११॥

१०.११ सर्वं शुक्लम् अ-दाह-रुक् कफाछुक्ले समं श्वेतं चिर-वृद्ध्य्-अधि-मांसकम् ।
शुक्लार्म शोफस् त्व् अ-रुजः स-वर्णो बहलो ऽ-मृदुः ॥१२॥

गुरुः स्निग्धो ऽम्बु-बिन्द्व्-आभो बलास-ग्रथितं स्मृतं ।
बिन्दुभिः पिष्ट-धवलैर् उत्सन्नैः पिष्टकं वदेत् ॥१३॥

१०.१३ बलास-ग्रन्थि स स्मृतः रक्त-राजी-ततं शुक्लम् उष्यते यत् स-वेदनम् ।
अ-शोफाश्रूपदेहं च सिरोत्पातः स शोणितात् ॥१४॥

१०.१४ स-शोथाश्रूपदेहं च उपेक्षितह् सिरोत्पातो राजीस् ता एव वर्धयन् ।
कुर्यात् सास्रं सिरा-हर्षं तेनाक्ष्य्-उद्वीक्षणा-क्षमम् ॥१५॥

१०.१५ कुर्यात् साश्रुं सिरा-हर्षं १०.१५ तेनाक्षं वीक्षणा-क्षमम् सिरा-जाले सिरा-जालं बृहरक्तं घनोन्नतम् ।
शोणितार्म समं श्लक्ष्णं पद्माभम् अधि-मांसकम् ॥१६॥

नी-रुक् श्लक्ष्णो ऽर्जुनं बिन्दुः शश-लोहित-लोहितः ।
मृद्व्-आशु-वृद्ध्य्-अ-रुङ्-मांसं प्रस्तारि श्याव-लोहितम् ॥१७॥

प्रस्तार्य्-अर्म मलैः सास्रैः स्नावार्म स्नाव-संनिभम् ।
शुष्कासृक्-पिण्ड-वछ्यावं यन् मांसं बहलं पृथु ॥१८॥

अधि-मांसार्म तदाह-घर्ष-वत्यः सिरावृताः ।
कृष्णासन्नाः सिरा-संज्ञाः पिटिकाः सर्षपोपमाः ॥१९॥

१०.१९ अधि-मांसार्म रुग्-दाह- शुक्ति-हर्ष-सिरोत्पात-पिष्टक-ग्रथितार्जुनम् ।
साधयेऔषधैः षट्कं शेषं शस्त्रेण सप्तकम् ॥२०॥

१०.२० शुक्ति-हर्ष-सिरोत्पातान् १०.२० पिष्टक-ग्रथितार्जुनम् नवोत्थं तअपि द्रव्यैर् अर्मोक्तं यच पञ्च-धा ।
तछेद्यम् असित-प्राप्तं मांस-स्नाव-सिरावृतम् ॥२१॥

१०.२१ अर्मोक्तं यत् तु पञ्च-धा चर्मोद्दाल-वउच्छ्रायि दृष्टि-प्राप्तं च वर्जयेत् ।
पित्तं कृष्णे ऽथ-वा दृष्टौ शुक्रं तोदाश्रु-राग-वत् ॥२२॥

१०.२२ दृष्टि-प्राप्तं तु वर्जयेत् १०.२२ शुक्रं तोदास्र-राग-वत् छित्त्वा त्वचं जनयति तेन स्यात् कृष्ण-मण्डलम् ।
पक्व-जम्बू-निभं किञ्-चिन् निम्नं च क्षत-शुक्रकम् ॥२३॥

तत् कृच्छ्र-साध्यं याप्यं तु द्वितीय-पटल-व्यधात् ।
तत्र तोदादि-बाहुल्यं सूची-विद्धाभ-कृष्ण-ता ॥२४॥

तृतीय-पटल-च्छेदाअ-साध्यं निचितं व्रणैः ।
शङ्ख-शुक्लं कफात् साध्यं नाति-रुक् शुद्ध-शुक्रकम् ॥२५॥

आ-ताम्र-पिच्छिलास्र-स्रुआ-ताम्र-पिटिकाति-रुक् ।
अजा-विट्-सदृशोच्छ्राय-कार्ष्ण्या वर्ज्यासृजाजका ॥२६॥

१०.२६ आ-ताम्र-पिच्छिलाश्रुः स्या१०.२६ आ-ताम्र-पिच्छिलासृक् स्या१०.२६ अजा-विट्-सदृशोच्छ्राया १०.२६ कृष्णा वर्ज्यासृजाजका सिरा-शुक्रं मलैः सास्रैस् तज्-जुष्टं कृष्ण-मण्डलम् ।
स-तोद-दाह-ताम्राभिः सिराभिर् अवतन्यते ॥२७॥

अ-निमित्तोष्ण-शीताच्छ-घनास्र-स्रुच तत् त्यजेत् ।
दोषैः सास्रैः सकृत् कृष्णं नीयते शुक्ल-रूप-ताम् ॥२८॥

१०.२८ -घनाश्रु स्याच तत् त्यजेत् १०.२८ -घनाश्रु-स्रावि तत् त्यजेत् १०.२८ब्-घनाश्रु-स्रुच तत् त्यजेत् १०.२८ दोषैः सास्रैः स-दृक् कृष्णं धवलाभ्रोपलिप्ताभं निष्पावार्ध-दलाकृति ।
अति-तीव्र-रुजा-राग-दाह-श्वयथु-पीडितम् ॥२९॥

पाकात्ययेन तछुक्रं वर्जयेत् तीव्र-वेदनम् ।
यस्य वा लिङ्ग-नाशो ऽन्तः श्यावं यवा स-लोहितम् ॥३०॥

अत्य्-उत्सेधावगाढं वा साश्रु नाडी-व्रणावृतम् ।
पुराणं विषमं मध्ये विच्छिन्नं यच शुक्रकम् ॥३१॥

१०.३१ सास्र-नाडी-व्रणावृतम् पञ्चेत्य् उक्ता गदाः कृष्णे साध्या-साध्य-विभागतः ॥३१ऊ̆अ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:49:12.7930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हळकावणें

  • हलका , हलकावणें इ० पहा . 
RANDOM WORD

Did you know?

What are the names for Ekadashi (11th day in fortnight)?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site